संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
सतीव्रज्या

सुभाषितरत्नकोशः - सतीव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि प्रायो नैव शिशोः पिताद्य विरसाः कौपीर् अपः पास्यति ।
एकाकिन्य् अपि यामि तद् वरम् इतः श्रोतस् तमालाकुलं नीरन्ध्राः स्तनम् आलिखन्तु जठरच्छेदा नलग्रन्थयः २४.१ ॥८०७॥
विद्यायाः

तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनाम् ।
विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगे ऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः २४.२ ॥८०८॥
विद्यायाः

सिकतिलतलाः सान्द्रच्छायास् तटान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः ।
अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनः कथय मुरले केनामी ते कृता निचुलद्रुमाः २४.३ ॥८०९॥

पान्थ स्वैरगतिं विहाय झटिति प्रस्थानम् आरभ्यताम् अत्यन्तं करिसूकराहिगवयैर् भीमं पुरः काननम् ।
चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी २४.४ ॥८१०॥

विटपिनि शिशिरच्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः ।
अतरुवारिर् अतः परम् असमशिलादुर्गमो मार्गः २४.५ ॥८११॥

अम्बा शेते ऽत्र वृद्धा परिणतवयसाम् अग्रणीर् अत्र तातो निःशेषागारकर्मश्रमशि"थिलतनुः कुम्भदासी तथेह ।
अस्मिन् पापाहम् एका कतिपयदिवस्प्रोषितप्राणनाथा पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृतिव्याजपूर्वम् २४.६ ॥८१२॥

स्मरविवशया किंचिन् मिथ्यानिषेधमनोज्ञया दिशि दिशि भयाद् भूयो भूयः प्रवर्तितनेत्रया ।
कुवलयदृशा शून्ये दैवाद् अतर्कितलब्धया निभृतनिभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् २४.७ ॥८१३॥

व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।
मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेषितदृशोर् अहल्यासुत्राम्णोः क्षणिकम् इव तत् संगतम् अभूत् २४.८ ॥८१४॥
योगेश्वरस्य

यः कौमारहरः स एव च वरस् ताश् चन्द्रगर्भा निशाः प्रोन्मीलन्नवमालतीसुरभयस् ते च विन्ध्यानिलाः ।
सा चैवास्मिंस् तथापि धैर्यसुरतव्यापारलीलाभृतां किं मे रोधसि वेतसीवनभुवां चेतः समुत्कण्ठते २४.९ ॥८१५॥

क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे ।
एकाकिनी वद कथं न बिभेषि बाले नन्व् अस्ति पुङ्खितशरो मदनः सहायः २४.१० ॥८१६॥

उदेति यस्यां न निशाकरो रिपुस् तिथिर् नु का पुण्यवतीभिर् आप्यते ।
इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूर् इत्य् अलम् आह कोकिलः २४.११ ॥८१७॥

मातर् गेहिनि यद्य् अयं हतशुकः संवर्धनीयो मया लौहं पञ्जरम् अस्य दुर्नयवतो गाढं तदा कारय ।
अद्यैनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे कर्षन्त्या मम तावद् अङ्गलिखनैर् एवापदेषागता २४.१२ ॥८१८॥

ध्वस्तं केन विलेपनं कुचयुगे केनाञ्जनं नेत्रयोर् रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः ।
तेनाशेषजनौघकल्मषमुषा नीलाब्जभासा सखि किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव २४.१३ ॥८१९॥

आकृष्यादाव् अमन्दग्रहम् अलकचयं वक्त्रम् आसज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् दत्तगाढाङ्गसङ्गः ।
बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपाकृत् २४.१४ ॥८२०॥

आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् ।
आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण २४.१५ ॥८२१॥

पान्थे पद्मसरो ऽन्तशाद्वलभुवि न्यस्याञ्चलं शायिनि त्वं श्रान्तास्य् अवहं च वर्त्म वसतिग्रामो न वेलाप्य् अगात् ।
उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुक- स्तोकोन्मीलदसञ्जितोरु वयम् अप्य् एकाकिनः किं न्व् इदम् २४.१६ ॥८२२॥
वल्लणस्य

इन्दुर् यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः ।
स्वाधीनाम् अनुकूलिनीं स्वगृहिणीम् आलिङ्ग्य यत् सुप्यते तत् किं प्रेम गृहाश्रमव्रतम् इदं कष्टं समाचर्यते २४.१७ ॥८२३॥
लक्ष्मीधरस्य

प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा ।
वदति बहुशो गच्छामीति प्रयत्नधृताप्य् अहो रमयतितरां संकेतस्था तथापि हि कामिनी २४.१८ ॥८२४॥
श्रीहर्षस्य

दुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु ।
पत्यौ विदेशयाते परं सुखं जघनचपलायाः २४.१९ ॥८२५॥

मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम् ।
आजानूद्धृतनूपुरा करतलेनाछाद्य नेत्रे भृशं कृच्छ्राल् लब्धपदस्थितिः स्वभवने पन्थानम् अभ्यस्यति २४.२० ॥८२६॥

बिभ्राणार्द्रनखक्षतानि जघने नान्यत्र गात्रे भयान् नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे ।
स्वं संकेतम् अदूरम् एव कमितुर् भ्रूसंज्ञया शंसती सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैर् विना २४.२१ ॥८२७॥

अद्य स्वां जननीम् अकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुम् इतो गतो गृहपतिः श्रुत्वैव मध्यंदिने ।
पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर् दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् २४.२२ ॥८२८॥

वस्त्रप्रोतदुरन्तनूपुरमुखाः संयम्य नीवीमणीन् उद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः ।
एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली- झंकारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः २४.२३ ॥८२९॥

पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं जनश् छिद्रान्वेषी प्रणयिवचनं दुःपरिहरम् ।
अतः काचित् तन्वी रतिविहितसंकेतगतये गृहाद् वारंवारं निरसरद् अथ प्राविशद् अथ २४.२४ ॥८३०॥

उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशमणि- स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः ।
चकोरैर् उड्डीनैर् झटिति कृतशङ्काः प्रतिपदं पराञ्चः संचारान् अविनयवतीनां विवृणुते २४.२५ ॥८३१॥

मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धराम् अविभाव्यतां गताः प्रियवसतिं व्रजन्ति सुखम् एव निरस्तभियो ऽभिसारिकाः २४.२६ ॥८३२॥
बाणस्य

निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्तमुग्धा ।
पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं वाञ्छति वारिदानाम् २४.२७ ॥८३३॥
पुरुषोत्तमस्य

कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन् उद्दामध्वनिपिण्डितान् परिजने किंचिच् च निद्रायिते ।
कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधिप्रेरितः काश्मीरीकुचकुम्भसम्भ्रमहरः शीतांशुर् अभ्युद्यतः २४.२८ ॥८३४॥

उरसि निहितस् तारो हारः कृता जघने जघने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियम् अभिसरस्य् एवं मुग्धे समाहतण्डिण्डिमा किम् इदम् अपरं त्रासोत्कम्पा दिशो मुहुर् ईक्षसे २४.२९ ॥८३५॥
देवगुप्तस्य

अनुमतम् इवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः ।
मदनहुतभुग्धूमच्छायैः पटैर् असितैर् वृताः प्रययुर् अरसद्भूषैर् अङ्गैः प्रियान् अभिसारिकाः २४.३० ॥८३६॥
भट्टशिवस्वामिनः

इत्य् असतीव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP