सुभाषितरत्नकोशः - शिशिरव्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
कुन्दस्यापि न पूजनव्यतिकरे नाप्य् आत्मनो मण्डने व्यापारे ऽपि तथा प्रहेणकविधेर् नार्घन्ति बद्धादराः ।
नार्यः कुन्दचतुर्थिकामहसम् आरम्भाभिषेके यथा हूतानङ्गम् उलूलुकाकलरवैः प्रीणन्ति यूनां मनः १३.१ ॥३०६॥
दुर्लक्ष्या स्याद् दमनकवने धूमधूम्रे पतन्ती कारीषाग्नेः पटमयगृहा वामलीलां तनोति ।
प्रादुर्भावं तिरयति रवेर् अध्वगानाम् इदानीं सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी १३.२ ॥३०७॥
पूषा प्रातर् गगनपथिकः प्रस्थितः पूर्वशैलात् सूचीभेद्यप्रबलमहिकाजालकन्थावृताङ्गः ।
रात्रिं सर्वां हुतवहपरिष्वङ्गभाजो ऽपि मन्ये जाड्याबद्धांस् त्वरयितुम् अयं द्राङ् न शक्नोति पादान् १३.३ ॥३०८॥
पान्थस्यारात् क्षणम् इव गतेर् मन्दिमानं दिशन्ति प्रत्यूषेषु प्रतनुसलिलोद्गीर्णबाष्पप्रवाहाः ।
वारां पूर्णा इव सचकिता वारपारीणदृष्टेर् दूरोत्ताना अपि शिखरिणां निर्झरद्रोणिमार्गाः १३.४ ॥३०९॥
दूरप्रोषितकैर् अवाकरपरीहासाः स्वकान्ताश्मसु प्रालेयस्नपितेषु मुक्तसलिलोत्पादस्पृहाकेलयः ।
क्षीयन्ते सुरतान्तरे ऽपि न दृशां पात्रीकृतां कामिभिः सौभाग्यापगमाद् इवेन्दुमहसां लावण्यशून्याः श्रियः १३.५ ॥३१०॥
हंसैर् जर्जररूक्षपक्षमलिनैर् नक्तं दिवान्तर् बहिस् तिष्ठद्भिः परिवार्य बन्धुभिर् इव स्निग्धैः कृतावेक्षणम् ।
प्रत्यासीदति वल्लभे जलरुहां क्षामायमाणद्युतौ बाष्पान् उज्झति वारि वारिरुहिणीनाशाद् इवोपार्जितान् १३.६ ॥३११॥
धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गन- प्राप्तानेकसुखप्रमोदवपुषां रम्यस् तुषारागमः ।
अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटित- क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति १३.७ ॥३१२॥
कम्पन्ते कपयो भृशं जडकृशं गो ऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो ऽपि नैवोज्झति ।
शीतार्तिव्यसनातुरः पुनर् अयं दीनो जनः कूर्मवत् स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति १३.८ ॥३१३॥
लक्ष्मीधरस्य
इदानीम् अर्घन्ति प्रथमकलमच्छेदमुदिता नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः ।
उदञ्चद्दोर्वल्लीरणितवलयाभिर् युवतिभिर् गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः १३.९ ॥३१४॥
पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः श्यामत्वं फलपीड्यमानकुसुमान् आपद्यते सर्षपान् ।
वायुर् व्यस्तशणस् तुषारकणवान् अभ्येति कम्पप्रदः पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निर् आसेव्यते १३.१० ॥३१५॥
योगेश्वरस्य
सिद्धार्थाः फलसूचिबन्धगुरुभिर् लोलन्त्य् अमी पल्लवैर् उच्छिन्दन्त्य् अध एव बन्धुरतया कोलीफलान्य् अर्भकाः ।
पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो निष्ठीवन्त्य् अपि हस्तयन्त्रकलिताः पुण्ड्रेक्षुयष्ट्यो रसम् १३.११ ॥३१६॥
वाचस्पतेः
व्यथितवनितावक्त्रौपम्यं बिभर्ति निशापतिर् गलितविभवस्याज्ञेवाद्य द्युतिर् मसृणा रवेः ।
अभिनववधूरोषस्वादुः करीषतनूनपाद् असरलजनाश्लेषक्रूरस् तुषारसमीरणः १३.१२ ॥३१७॥
अभिनन्दस्य
वारं वारं तुषारानिलतुलितपलालोष्मणां पामराणां दण्डव्याघट्टनाभिः क्रमपिहितरुचौ बोध्यमाने कृशानौ ।
उद्धूमैर् बीजकोषोच्चटनपटुरवैः सर्षपक्षोदकूटैः कोणे कोणे खलानां परिसरसकटुः कीर्यते को ऽपि गन्धः १३.१३ ॥३१८॥
योगेश्वरस्य
नष्टप्रायाः प्रलयमहिकाजुष्टजीर्णैः प्रतानैर् बीजान्य् एवोन्मदपरभृतालोचनापाटलानि ।
उत्पाकत्वाद् विघटितशमीकोषसंदर्शितानि व्याकुर्वन्ति स्फुटसहचरीवीरुधः कृष्णलानाम् १३.१४ ॥३१९॥
सावर्णेः
शुकस्निग्धैः पत्रैर् युवतिकरदीर्घैः किशलयैः फलिन्यो राजन्ते हिमसमयसंवर्धितरुचः ।
मनोज्ञा मञ्जर्यो हरितकपिशैः पांसुमुकुलैः स्फुटन्ति प्रत्यङ्गं पटुपरिमलाहूतमधुपाः १३.१५ ॥३२०॥
शतानन्दस्य
माषीणां मुषितं यवेषु यवसश्यामा छविः शीर्यते ग्रामान्ताश् च मसूरधूसरभुवः स्मेरं यमानीवनम् ।
पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिध्यन्ति सिद्धार्थकाः स्निग्धा वास्तुकवास्तवः स्तबकितस्तम्बा च कुस्तुम्बिनी १३.१६ ॥३२१॥
शुभाङ्गस्य
पुरः पाण्डुप्रायं तदनु कपिलिम्ना कृतपदं ततः पाकोत्सेकाद् अरुणगुणसंसर्गितवपुः ।
शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरम् अरसत्वं कलयति १३.१७ ॥३२२॥
इति शिशिरव्रज्या
N/A
References : N/A
Last Updated : November 11, 2016
TOP