सुभाषितरत्नकोशः - शरद्व्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कम् इन्दुं तापं रवेर् अभ्यधिकं चकार ११.१ ॥२६६॥
यद्य् अप्य् अहं शशिमुखी विमलाम्बरश्रीर् बन्धूकपुष्परुचिराधरपल्लवापि ।
धिङ् मां तथापि गलितोरुपयोधरत्वाद् इत्य् उच्चकैः शरद् इयं वहतीव तापम् ११.२ ॥२६७॥
ते हंसातिथिवत्सला जलरुहां कालेन पीतायुषां संजीवौषधयो जरा जलमुचाम् एते शरद्वासराः ।
येष्व् अभ्यागतखञ्जरीटशबलास् तोयापसारक्रम- स्तोकस्तोकतरङ्गितान्तपुलिनाः कर्षन्ति नद्यो मनः ११.३ ॥२६८॥
धूम्रैः पक्षपुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः ।
मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी ज्योत्स्नातर्पणगौरम् इन्दुकलशं व्योमाङ्गणे न्यस्यति ११.४ ॥२६९॥
दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयो दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः ।
विदधति न चेद् उत्कण्ठार्द्रं शरन् मणिनूपुर- ध्वनितमधुरोत्तालस्निग्धैर् मनः क्वणितोर्मिभिः ११.५ ॥२७०॥
घनैः शेफालीनां हृदयनिबिडाश्लिष्टवसुधैः प्रसूनैर् उन्नालैः पुलकिततरोद्यानतरवः ।
निशान्ताः प्रीणन्ति प्रमदकुररोद्गीतरभसो नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः ११.६ ॥२७१॥
रजःपातज्ञानां कुमुदसुमनोमण्डलभुवि स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुंकृतिम् इयम् ।
स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनो द्विरेफाचार्याणां मधुमदपटीयान् कलकलः ११.७ ॥२७२॥
अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद् दिवि मसृणचक्राकृतिगतिः ।
चिराच् चिल्लस् तिर्यक्त्वरिततरम् आहारनिपुणो निपत्यैवाकस्माच् चलचरणमूर्धं प्रपतति ११.८ ॥२७३॥
दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्रः कण्ठेनोच्चैर् मदकलरुतस्तोकवाचालचञ्चुः ।
हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ११.९ ॥२७४॥
मनोविनोदस्यामी
तोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटि- प्राग्भागप्रह्वकङ्कावलिधवलरुचः पर्यटत्खञ्जरीटाः ।
कूजत्कादम्बराजीपिहितपरिसराः शारदीनां नदीनां तीरान्ता मञ्जुगुञ्जन्मदकल्कुरबश्रेणयः प्रीणयन्ति ११.१० ॥२७५॥
तीष्णं रविस् तपति नीच इवाचिराढ्यः शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः ।
तोयं प्रसीदति मुनेर् इव धर्मचिन्ता कामी दरिद्र इव शोणम् उपैति पङ्कः ११.११ ॥२७६॥
संतापिनी समदहंसकलाभिलापा प्रालेयधामधवलाम्बरम् आदधाना ।
आपाण्डुपीवरपयोधरम् उद्वहन्ती काचिद् वधूर् विरहिणीव शरद् विभाति ११.१२ ॥२७७॥
शनैः शान्ताकूताः सितकलधरच्छेदपुलिनाः पुरस्ताद् आकीर्णाः कलविरुतिभिः सारसकुलैः ।
चिताश् चित्राकारैर् निशि विकचनक्षत्रकुमुदैर् नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ११.१३ ॥२७८॥
आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर् गुरुर् वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः ।
ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- स्मेरासु क्षणदासु धेनधवलीवर्गः परिक्रामति ११.१४ ॥२७९॥
पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिर् अङ्कितम् अलक्तकलोहिताभिः ।
गोरोचनाहरितबभ्रु बहिःपलाशम् आमोदते कुमुदम् अम्भसि पल्वलस्य ११.१५ ॥२८०॥
सान्द्रस्थूलनलोपरोधविषमाः शक्यावताराः पुरस् तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः ।
व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदराः संत्रासं जनयन्ति कुञ्जसरितः काचाभनीलोदकाः ११.१६ ॥२८१॥
इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली ।
केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिर् आधारम् आराद् अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्षपालम् ११.१७ ॥२८२॥
अभिनन्दस्य
सद्यःस्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः कच्छान्ताः काशतूलैः पवनवशगतैर् मेषयूथोपमेयाः ।
नद्यः प्रत्यग्रतीरोपनतिसरभसैः खञ्जनैः साञ्जनाक्षा हंसाः कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति ११.१८ ॥२८३॥
हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् अन्यः को ऽपि कषायकण्ठलिठनाद् आघर्घरो निस्वनः ।
ते सम्प्रत्य् अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ११.१९ ॥२८४॥
श्रीकमलायुधस्य
वराहान् आक्षेप्तुं कलमकवलप्रीत्यभिमुखान् इदानीं सीमानः प्रतिविहितमञ्चाः स्वपतिभिः ।
कपोतैः पोतार्थं कृतनिबिडनीडा विटपिनः शिखाभिर् वल्मीकाः खरनखरखातोदरमृदः ११.२० ॥२८५॥
शतानन्दस्य
लालाकल्पैस् त्रिदशकरिणां दिग्वधूहासभूतैर् अध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः ।
वातोदस्तैः शशधरकलाकोमलैर् इन्द्रतूलैर् लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः ११.२१ ॥२८६॥
शुभाङ्गस्य
हारच्छायां वहति कुचयोर् अन्तराले मृणाली कर्णोपान्ते नवकुवलयैर् अच्युतः कर्णिकार्थः ।
या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धुजीवैर् वेशः शोभां दिशति परमाम् आर्तवः शालिगोप्याः ११.२२ ॥२८७॥
मधुशीलस्य
दूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा- क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः ।
अद्यानन्दं ददति विचरच्चक्रवाकोपचञ्चु- ग्रासत्रासप्रचलशफरस्मेरनीरास् तटिन्यः ११.२३ ॥२८८॥
डिम्बोकस्य
उन्मग्नचञ्चलवनानि वनापगानाम् आश्यानसैकततरङ्गपरंपराणि ।
निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि ११.२४ ॥२८९॥
व्यालीविमर्दविगलज्जलकोटराणि शाखाविलम्बिमृतशैवलकन्दलानि ।
दूरीभवन्ति सरितां तटकाननानि पूर्वप्रवाहमहिमानम् उदाहरन्ति ११.२५ ॥२९०॥
शुभाङ्गस्य
तृणराजपाकसौरभसुगन्धयः परिणताशवो दिवसाः ।
आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः ११.२६ ॥२९१॥
योगेश्वरस्य
आढ्यान् निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः ।
द्वयम् आकुलयति चेतः स्कन्धावारद्विजातीनाम् ११.२७ ॥२९२॥
वागुरस्य
इति शरद्व्रज्या
N/A
References : N/A
Last Updated : November 11, 2016
TOP