संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
ग्रीष्मव्रज्या

सुभाषितरत्नकोशः - ग्रीष्मव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


विश्लेषो जनितः प्रियैर् अपि जनैर् उज्जृम्भितं नालिकैर् मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया ।
गुर्वी वल्लभता जडैर् अधिगता दोषाकरः सेव्यते हा कालः किम् अयं कलिर् न हि न हि प्राप्तः स घर्मागमः ९.१ ॥१९१॥

तदात्वस्नातानां मलयरजसार्द्रार्द्रवपुषां कचान् बिभ्राणानां दरविकचमल्लीमुकुलिनः ।
निदाघार्कप्लोषग्लपितमहिमानं मृगदृशां परिष्वङ्गो ऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति ९.२ ॥१९२॥
मङ्गलार्जुनस्य

प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इव स्तः ९.३ ॥१९३॥
बटोः

सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दम् उन्मधुलिहि स्वच्छन्दकुन्दद्रुहि ।
शुष्यच्छ्रोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ् जीवसि ९.४ ॥१९४॥
बाणस्य

गुरुर् गर्भारम्भः क्लमयति कलत्रं बलिभुजः समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः ।
इदानीं नीहारस्तिमितपवनप्रीतिजनितां निशाशेषो निद्रां नुदति पटधूम्याटमुखरः ९.५ ॥१९५॥
राजशेखरस्य

सान्द्रक्षीणप्रततविततच्छिन्नभुग्नोन्नताभिः प्रायः कश्मीरजरुचिजुषो दाववह्नेः शिखाभिः ।
वायुः संचारिण इव लिखत्य् आनने दिग्वधूनां धूमोद्गारैर् अगुरुपवनैः सान्तरान् पत्रभङ्गान् ९.६ ॥१९६॥

हिन्दोलामधुरोपलालनरसप्रीतप्रपापालिका- गीतावर्जितमुग्धवातहरिणश्रेणीपरीतान्तिकाः ।
औत्सुक्यं जनयन्ति पान्थपरिषद्घर्माम्बुबिन्दूत्कर- व्याक्षेपक्षममन्दमन्दमरुतो मार्गस्थलीपादपाः ९.७ ॥१९७॥

चञ्चच्चञ्चुगुणोदरैः शिथिलितप्रायांसम् उत्पक्ष्मल- न्यञ्चत्पक्षपुटावकाशविरमत्पार्श्वोष्मभिर् नीयते ।
जङ्घाकुञ्चनलब्धनीडनिबिडावष्टम्भकष्टोज्झित- क्षेपीयःपवनाभिघातरभसोत्क्षेपैर् अहः पक्षिभिः ९.८ ॥१९८॥

धास्यत्य् अद्य सितातपत्रसुभगं सा राजहंसी शिशोः स्मेराम्भोरुहवासिनो ऽपि शिरसि स्नेहेन पक्षद्वयम् ।
तृष्णार्तः शुकशावको ऽपि सुतनोः पीनस्तनासङ्गिनीं मुक्ताहारलतां तदङ्कवसतिस् तोयाशया पास्यति ९.९ ॥१९९॥

भुवां घर्मारम्भे पवनचलितं तापहतये पटच्छत्राकारं वहति गगनं धूलिपटलम् ।
अमी मन्दाराणां दवदहनसंदेहितधियो न ढौकन्ते पातुं झटिति मकरन्दं मधुलिहः ९.१० ॥२००॥
भवभूतेः

अपां मूले लीनं क्षणपरिचितं चन्दनरसे मृणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियाकण्ठाश्लेषे निवसति परं शैत्यम् अधुना ९.११ ॥२०१॥

प्रान्तारक्तविलोचनाञ्चलदरीव्यग्राल्पमक्षीभय- प्रोद्भूतोभयशृङ्गकोटिविगलच्छैवालवल्लीसखैः ।
पाथोबिन्दुभिर् अक्षिसन्धिषु शनैः संसिच्यमानः सुखं मग्नो वारिणि दूरनिःसहतया निद्रायते सैरिभः ९.१२ ॥२०२॥

तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुम् उक्षन् पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैः कायकाषैः ।
उत्ताम्यत्तालवश् च प्रतपति तरणावांशवीं तापतन्द्रीम् अद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयत्नि ९.१३ ॥२०३॥

जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः कासारोदरशेषम् अम्बु महिषो मथ्नाति ताम्यत्तिमि ।
दृष्टिर् धावति धातकीवनम् असृक्तर्षेण तारक्षवी कण्ठान् बिभ्रति विष्किराः शरशमीनीडेषु नाडिंधमान् ९.१४ ॥२०४॥
बाणस्यैतौ

सुभगसलिलावगाहाः पाटलिसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ९.१५ ॥२०५॥
कालिदासस्य

अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर् बाहुभिर् व्यामथ्योपरतप्रपेषु पथिकैर् मार्गेषु मध्यंदिने ।
आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ९.१६ ॥२०६॥
योगेश्वरस्य

मृद्भूयिष्ठतया गुरून् परिहरन्न् आरण्यकान् गोमयान् वल्मीकान् उपगूहति प्रशिथिलं ज्वालाभिर् उद्बल्वजान् ।
वह्निर् नीडिकिलिञ्जसंचयसमुत्सिक्तश् चरन् कानने प्रस्निग्धान् इह विष्किराण्डकललान् आज्याशया लुम्पति ९.१७ ॥२०७॥
तस्यैव

दूरीभूतशरारि विक्लवबकं संक्रान्तकारण्डवं क्लाम्यत्कङ्कम् अचक्रवाकम् अमिलन्मद्गु प्रयातप्लवम् ।
क्लिष्टक्रौञ्चम् अधार्तराष्ट्रम् अपतत्कोयष्टि निष्टीटिभं सीदत्सारसमप्रसक्तकुररं कालेन जातं सरः ९.१८ ॥२०८॥
तस्यैव

तोयोत्तीर्णाः श्रयति कबरीः शेखरः सप्तलानां शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठदाम ।
कान्तं कर्णाव् अभिनिविशते कोमलाग्रं शिरीषं स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्मचिह्नम् ९.१९ ॥२०९॥
मधुशीलस्य

शुकपत्रहरितकोमलकुसुमशटानां शिरीषयष्टीनाम् ।
तलम् आश्रयति दिनातपभयेन परिपिण्डितं शैत्यम् ९.२० ॥२१०॥
वागुरस्य

हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो यद् अर्घति करम्बिता शिशिरवारिणा वारुणी ।
भवन्ति च हिमोपमाः स्तनभुवो यद् एणीदृशां शुचेर् उपरि संस्थितो रतिपतेः प्रसादो गुरुः ९.२१ ॥२११॥

जलार्द्राः संव्यानं बिसकिसलयैः केलिवलयाः शिरीषैर् उत्तंसो विचकिलमयी हाररचना ।
शुचाव् एणाक्षीणां मलयजरसार्द्राश् च तनवो विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः ९.२२ ॥२१२॥

रजनिविरमयामेष्व् आदिशन्ती रतेच्छां किम् अपि कठिनयन्ती नारिकेलीफलाम्भः ।
अपि परिणमयित्री राजरम्भाफलानां दिनपरिणतिरम्या वर्तते ग्रीष्मलक्ष्मीः ९.२३ ॥२१३॥
एते राजशेखरस्य

अम्भोधेर् जलयन्त्रमन्दिरपरस्पन्दे ऽपि निद्राणयोः श्रीनारायणयोर् घनं विघटयत्य् ऊष्मा समालिङ्गनम् ।
किं चोत्तप्तवियत्कलापफलके कङ्कालशेषश्रियं चन्द्रं मर्मरयन्ति पर्पटम् इव क्रूरा रवेर् अंशवः ९.२४ ॥२१४॥
नारायणलच्छेः

इति ग्रीष्मव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP