संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
ततोऽपराह्णव्रज्या

सुभाषितरत्नकोशः - ततोऽपराह्णव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


निद्रान्धानां दिनमणिकराः कान्तिम् अम्भोरुहाणाम् उच्चित्यैते बहुगुणम् इवाबिभ्रतः शोणिमानम् ।
चक्राङ्काणाम् अविरलजलैर् आर्द्रविश्लेषभाजां वक्षःस्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः २७.१ ॥८५८॥

दावास्त्रशक्तिर् अयम् एति च शीतभावं भास्वाञ् ज्वलन्ति हृदयानि च कोकयूनाम् ।
किं ब्रूमहे ऽभ्युदयते च जगत्पिधानं ध्वान्तं भवन्ति च विशुद्धदृशो दिवान्धाः २७.२ ॥८५९॥

उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत् ।
पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री २७.३ ॥८६०॥

चूडारत्नैः स्फुरद्भिर् विषधरविवराण्य् उज्ज्वलान्य् उज्ज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः ।
किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा- संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः २७.४ ॥८६१॥

पटुकटुकोष्मभिः कटकधातुरसस्य गिरेः कुहरकटाहकेषु रविधामभिर् उत्क्वथतः ।
उपरिभराद् इवोत्सलितया छटया गगनं प्रतिनवसंध्यया सपदि संवलितं शुशुभे २७.५ ॥८६२॥

अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः ।
अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति २७.६ ॥८६३॥

यावद् भास्करकेसरी प्रविततज्योतिःसटाभासुरो हत्वा वासरवारणं वनदरीम् अस्ताचलस्यास्थितः ।
तावत् संतमसाच्छभल्लपरिषत्संध्यास्त्रम् आपीयते कुम्भभ्रंशविकीर्णमौक्तिकरुचो राजन्त्य् अमूस् तारकाः २७.७ ॥८६४॥

अस्तव्यास्तान् क्रमततगतीन् पत्रिमालातरङ्गान् वेणीदण्डान् इव धृतवती मुक्तसंध्याङ्गरागा ।
ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः प्रत्यग्रद्युमणिविरहाद् वान्तम् अक्ष्णोर् न याति २७.८ ॥८६५॥

परावृत्ता गावस् तरुषु वयसां कूजति कुलं पिशाचीनां चेतः स्पृशति गृहकृत्यप्रवणता ।
अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस् त्रिनेत्राभिप्रायप्रतिसदृशम् उन्मार्ष्टि मुरजान् २७.९ ॥८६६॥
शित्कण्ठस्य

उत्सर्पद्धूमलेखात्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता ।
खेदेनेवानतासु स्खलदलिरसनास्व् अब्जिनीप्रेयसीषु प्रायः सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः २७.१० ॥८६७॥

प्रारब्धो मणिदीपयष्टिषु वृथा पातः पतङ्गैर् इतो गन्धान्धैर् अभितो मधुव्रतकुलैर् उत्पक्ष्मभिः स्थीयते ।
वेल्लद्बाहुलताविलोकवलयस्वानैर् इतः सूचित- व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् २७.११ ॥८६८॥

व्रजति कलितस्तोकालोको नवीनजवारुण- च्छविरविर् असौ स्वेच्छादृश्यो दिशं भृशम् अप्पतेः ।
ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः २७.१२ ॥८६९॥
रघुनन्दनस्य

कालव्यालहतं वीक्ष्य पतन्तं भानुम् अम्बरात् ।
ओषधीशं समादाय धावतीव पितृप्रसूः २७.१३ ॥८७०॥

जगन्नेत्रज्योतिः पिबति शनकैर् अन्धतमसं कुलायैर् आकृष्टाः क्षणविरतकूजा बलिभुजः ।
तथोलूकः स्तोकव्यपगतभयः कोटरमुखाद् वपुर् मग्नग्रीवो डमरितशिराः पश्यति दिशः २७.१४ ॥८७१॥
विद्दूकस्य

ताराप्ररोहधवलोत्कटदन्तपङ्क्तेर् ध्वान्ताभिनीलवपुषो रजनीपिशाच्याः ।
जिह्वेव सार्द्ररुधिरारुणसूर्यमांस- ग्रासार्थिनी नभसि विस्फुरति स्म संध्या २७.१५ ॥८७२॥

स्नातीव मन्दरगनो ऽस्तमिते ऽद्य मित्रे सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः ।
एतज् जगन्नयनहारि घनं तमो ऽस्य पृष्ठे श्रियं विततकुन्तलवत् तनोति २७.१६ ॥८७३॥

पृथुगगनकबन्धस्कन्धचक्रं किम् एतत् किम् उ रुधिरकपालं कालकापालिकस्य ।
लललभरितमन्तः किं नु तार्क्ष्याण्डखण्डं जनयति हि वितर्कान् सांध्यम् अर्कस्य बिम्बम् २७.१७ ॥८७४॥

यागे भास्वति वृद्धसारसशिरःशोणे ऽस्तशृङ्गाश्रयं व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठाभिनीलैर् नभः ।
माहेन्द्री दिग् अपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी भात्य् एषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः २७.१८ ॥८७५॥
अचलसिंहस्य

अतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य ।
घनवासनैर् मयूखैः कुसुम्भकुसुमायते तरणिः २७.१९ ॥८७६॥
चक्रपाणेः

दिनमणिर् अनर्घमूल्यो दिनवणिजार्घप्रसारितो जगति ।
अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः २७.२० ॥८७७॥
श्रीधर्मपालस्य

निर्यद्वासरजीवपिण्डकरणिं बिभ्रत् कवोष्णैः करैर् माञ्जिष्ठं रविबिम्बम् अम्बरतलाद् अस्ताचले लुण्ठति ।
किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग् धूमध्यामपुराणचित्ररचनारूपं जगज् जायते २७.२१ ॥८७८॥
राजशेखरस्य

घर्मत्विषि स्फुरितरत्नशिलाक्रमेण मेरोर् नितम्बकटकान् अवगाहमाने ।
वल्गत्तुरङ्गखुरचूर्णितपद्मराग- धूलीव वातवलितोल्लसति स्म सन्ध्या २७.२२ ॥८७९॥

अस्ताद्रिशिरोविनिहितरविमण्डलसरसयावघट्टाङ्कम् ।
नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै २७.२३ ॥८८०॥

प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथुकेसरैर् विरलविरलैर् अन्तःपत्रैर् मनाङ् मिलितं ततः ।
तदनु वलनामात्रं किंचिद् व्यधायि बहिर् दलैर् मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना २७.२४ ॥८८१॥

दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः ।
निर्वाणाज् जलविप्रकीर्णनिवहश्यामत्वम् आतन्वते प्राग् विप्लुष्टतमोगुरोर् अभिनवास् तस्यास् तमिस्रत्विषः २७.२५ ॥८८२॥
बुद्धाकरस्य

अस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः ।
वस्ते ऽन्धकारकम्बलम् अमरशयने दिनाध्वन्यः २७.२६ ॥८८३॥
मलयवातस्य

नृत्यश्रमात् करनखोदरपीतवान्तैः स्वेदार्द्रभस्ममयबिन्दुभिर् इन्दुगौरैः ।
संत्यज्य तारकितम् एतद् इति प्रवादं व्योमाङ्गणं गणय चित्रितम् ईश्वरेण २७.२७ ॥८८४॥
लक्ष्मीधरस्य

इत्य् अपराह्णव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP