सुभाषितरत्नकोशः - असद्व्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ३८.१ ॥१२५४॥
सद्गुणालंकृते काव्ये दोषान् मृगयते खलः ।
वने पुष्पकलाकीर्णः करभः कण्टकान् इव ३८.२ ॥१२५५॥
मुखरस्याप्रसन्नस्य मित्रकार्यविघातिनः ।
निर्माणम् आशानाशाय दुर्जनस्य घनस्य च ३८.३ ॥१२५६॥
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः पोतो दुस्तरवारिराशितरणे दीपो ऽन्धकारागमे ।
इत्थं तद् भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ३८.४ ॥१२५७॥
अकारणाविष्कृतवैरदारुणाद् असज्जनात् कस्य भयं न जायते ।
विषं महाहेर् इव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ३८.५ ॥१२५८॥
खलवृन्दं श्मशानं च भवत्य् अपचितं यदा ।
ध्रुवं तदैव लोकानां कल्याणम् अवगम्यते ३८.६ ॥१२५९॥
अन्तर् मलिनदेहेन बहिर् आह्लादकारिणा ।
महाकालफलेनेव कः खलेन न वञ्चितः ३८.७ ॥१२६०॥
सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः ।
सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं लूतातन्तुवितानजालकुटिलं चक्रं करोत्य् अद्भुतम् ३८.८ ॥१२६१॥
देवानाम् अपि पश्यन्तां स श्रिया मेध्यते खलु ।
वाससापि न योगो ऽस्ति निश्चक्रस्य पिनाकिनः ३८.९ ॥१२६२॥
स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधोगतिम् ।
अहो न सदृशी वृत्तिस् तुलाकोटेः खलस्य च ३८.१० ॥१२६३॥
आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः ।
अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते ३८.११ ॥१२६४॥
दुर्जनदूषितमनसां पुंसां स्वजने ऽपि नास्ति विश्वासः ।
बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ३८.१२ ॥१२६५॥
गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं खलः किंचिद् वाक्यं रचयति च विस्तारयति च ।
न चेद् एवं तादृक् कमलकलिकार्धप्रतिनिधौ मुनेर् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः ३८.१३ ॥१२६६॥
प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा- परिचयचले चिन्ताचक्रे निधाय विधिः खलः ।
मृदम् इव बलात् पिण्डीकृत्य प्रगल्भकुलाकवद् भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति ३८.१४ ॥१२६७॥
पादाहतो ऽथ धृतदण्डविघट्टितो वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्गधर्मा कर्णे परं स्पृशति हन्त्य् अपरं समूलम् ३८.१५ ॥१२६८॥
परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते ।
पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति ३८.१६ ॥१२६९॥
रविगुप्तस्य
अगम्यो मन्त्राणां प्रकृतिभिषजाम् अप्य् अविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः ।
जगद् भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ३८.१७ ॥१२७०॥
यः स्वान् अपि प्रथमम् अस्तसमस्तसाधु- वृत्तिर् गुणान् खलतया मलिनीकरोति ।
तस्यास्य भोगिन इवोग्ररुषः खलस्य दाक्षिण्यम् अस्ति कथम् अन्यगुणोपमर्दे ३८.१८ ॥१२७१॥
रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि ।
स्वार्थार्थं मृदुभाषिणीष्टविहताव् एकान्ततस् तोषिणि श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले ३८.१९ ॥१२७२॥
गुणाकरस्य श्लेषश्लोकौ
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि ।
तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः ३८.२० ॥१२७३॥
वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् शूरान् द्वेष्टि धनच्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् ।
गुह्यानि प्रकटीकरोति घटयत्य् अन्योन्यवैराश्रयान् ब्रूते शीघ्रम् अवाच्यम् उज्झितगुणो गृह्णाति दोषान् खलः ३८.२१ ॥१२७४॥
यद् यद् इष्टतरं तत् तद् देयं गुणवते किल ।
अत एव खलो दोषान् साधुभ्यः सम्प्रयच्छति ३८.२२ ॥१२७५॥
करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।
मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ३८.२३ ॥१२७६॥
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ३८.२४ ॥१२७७॥
खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः ।
इतीमं व्यामोहं परिहर विचित्राः शृणु कथा यथायं पीयूषद्युतिर् उपलखण्डं द्रवयति ३८.२५ ॥१२७८॥
उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् ।
तं जनम् असत्यसंधं भगवति वसुधे कथं वहसि ३८.२६ ॥१२७९॥
मुखे नीचस्य पतिता अहेर् इव पयःकणाः ।
क्षणेन विषतां यान्ति सूक्तपीयूषबिन्दवः ३८.२७ ॥१२८०॥
मुण्डाप्रियाद् आयतिदुःखदायिनो वसन्तम् उत्सार्य विजृम्भितश्रियः ।
न कः खलात् तापितमित्रमण्डलाद् उपैति पापं तपवासराद् इव ३८.२८ ॥१२८१॥
नरदत्तस्य
तुल्योत्पत्ती प्रकृतिधवलाव् अप्य् अमू शङ्खसोमौ तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते ।
शङ्खस् तापक्रकचनिचयैर् भिद्यते शङ्खकारैः को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति ३८.२९ ॥१२८२॥
अकलितनिजपररूपः स्वकम् अपि दोषं परस्थितं वेत्ति ।
नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते ३८.३० ॥१२८३॥
आश्रयाशः कृष्णवर्त्मा दहनश् चैष दुर्जनः ।
अग्निर् एव तथाप्य् अस्मिन् स्याद् भस्मनि हुतं हुतम् ३८.३१ ॥१२८४॥
वरम् आक्षीणतैवास्तु शशिनो दुर्जनस्य च ।
न प्रवृद्धिस् तु विस्तारि- लाञ्छनप्रतिपादिनी ३८.३२ ॥१२८५॥
सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः ।
तिष्ठन्ति वारिराशेर् उपरि तरङ्गास् तले मणयः ३८.३३ ॥१२८६॥
आरम्भरमणीयानि विमर्दे विरसानि च ।
प्रायो वैरावसानानि संगतानि खलैः सह ३८.३४ ॥१२८७॥
गुणकणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते ।
चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः ३८.३५ ॥१२८८॥
बिभीमो वयम् अत्यन्तं चाक्रिकस्य गुणाद् अपि ।
निष्पन्नम् अपि यः पात्रं गुणेनैव निकृन्तति ३८.३६ ॥१२८९॥
परसंतापनहेतुर् यत्राहनि न प्रयाति निष्पत्तिम् ।
अन्तर्मना असाधुर् गणयति न तदायुषो मध्ये ३८.३७ ॥१२९०॥
दिवसांस् तान् अभिनन्दति बहुमनुते तेषु जन्मनो लाभम् ।
ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ३८.३८ ॥१२९१॥
दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः परां व्रजति विक्रियां न हि भयं ततः पश्यति ।
यतस् तु भयशङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः ३८.३९ ॥१२९२॥
शूरस्य
असज्जनाश् चेन् मधुरैर् वचोभिः शक्यन्त एव प्रतिकर्तुम् आर्यैः ।
तत् केतकीरेणुभिर् अम्बुराशेर् बन्धक्रियायाम् अपि कः प्रयासः ३८.४० ॥१२९३॥
नूनं दर्पात् तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं नीतं चेतो न च धवलितं हेलया नार्पितं च ।
येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर् यस्माच् चायं हृदयरहितो दुर्विधः सर्वदैव ३८.४१ ॥१२९४॥
निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे ।
विशङ्कितान्योन्यभयं सुदूरान् नमस्क्रियाम् अर्हति सौहृदं तत् ३८.४२ ॥१२९५॥
अभिनन्दस्य
एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् ।
सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति ३८.४३ ॥१२९६॥
वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः ।
दुर्जनस्यौषधं नास्ति किंचिद् अन्यद् अनुत्तरात् ३८.४४ ॥१२९७॥
चक्रसम्भारिणि क्रूरे परच्छिद्रानुसारिणि ।
द्विजिह्वे दृष्टमात्रे चेत् कस्य न स्याच् चमत्कृतिः ३८.४५ ॥१२९८॥
चक्षुर् आश्रयते कामः कामुकस्य दरिद्रतः ।
क्रूरस्य चाप्रभवतः परद्रोहः सरस्वतीम् ३८.४६ ॥१२९९॥
शतानन्दस्य
खलं दृष्ट्वैव साधूनां हृदयं काष्ठवद् भवेत् ।
ततस् तद् दारयत्य् अस्य वाचः क्रकचकर्कशाः ३८.४७ ॥१३००॥
हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् ।
तत्रापि क्लिष्टधियां दोषं वक्ष्यत्य् अतिखलत्वम् ३८.४८ ॥१३०१॥
आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः ।
बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ३८.४९ ॥१३०२॥
श्रीधर्मदासस्य
प्रकृतिर् इह खलानां दोषचित्तं गुणज्ञे विनयललितभावे द्वेषरक्ता च बुद्धिः ।
उभयम् इदम् अवश्यं जायते सर्ववारं पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते ३८.५० ॥१३०३॥
इत्य् असद्व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP