संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
शान्तिव्रज्या

सुभाषितरत्नकोशः - शान्तिव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं सहार्यैः संवासः श्रुतम् उपशमैकश्रमफलम् ।
मनो मन्दस्पन्दं विहरति चिरायाभिविमृशन् न जाने कस्यैषा परिणतिर् उदारस्य तपसः ४८.१ ॥१५९४॥

हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमशबलैर् विष्वग्वातैस् तरङ्गितपादपाः ।
मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वनभूमयः ४८.२ ॥१५९५॥
गुणाकरभद्रस्य

पूरयित्वार्थिनाम् आशां प्रियं कृत्वा द्विषाम् अपि ।
पारं गत्वा श्रुतौघस्य धन्या वनम् उपासते ४८.३ ॥१५९६॥

ते तीक्ष्णदुर्जननिकारशरैर् न भिन्ना धीरास् त एव शमसौख्यभुजस् त एव ।
सीमन्तिनीविषलतागहनं व्युदस्य ये ऽवस्थिताः शमफलेषु तपोवनेषु ४८.४ ॥१५९७॥

वासो वल्कलम् आस्तरः किसलयान्य् ओकस् तरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये ।
क्रीडा मुग्धमृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने ऽपि वने तथापि कृपणा याचन्त इत्य् अद्भुतम् ४८.५ ॥१५९८॥

गतः कालो यत्र प्रियसखि मयि प्रेमकुटिलः कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति ।
इदानीम् अस्माकं जठरकमठीपृष्ठकठिना मनोवृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ४८.६ ॥१५९९॥

मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषिताः स्मः ।
नानासुखव्यसनभङ्गुरपर्वपूर्वं धिग् यौवनं यद् अपनीय तवावतारः ४८.७ ॥१६००॥

एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने ।
अन्यद् वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर- स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ४८.८ ॥१६०१॥
ज्ञानानन्तस्य

यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि ।
काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ४८.९ ॥१६०२॥

क्वचिद् वीणागोष्ठी क्वचिद् अमृतकीर्णाः कविगिरः क्वचिद् व्याधिक्लेशः क्वचिद् अपि वियोगश् च सुहृदाम् ।
इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो न जाने संसारः किम् अमृतमयः किं विषमयः ४८.१० ॥१६०३॥

आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करं यन् मुञ्चन्त्य् उपभोगभाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः ।
न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो वाञ्छामात्रपरिग्रहाण्य् अपि वयं त्यक्तुं न तानि क्षमाः ४८.११ ॥१६०४॥

अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याः पश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्य् एतत् स्यात् कुरु भवरसे लम्पटत्वं तदानीं नो चेच् चेतः प्रविश परमब्रह्मणि प्रार्थनैषा ४८.१२ ॥१६०५॥
उत्पलराजस्य

आस्तां सकण्टकम् इदं वसुधाधिपत्यं त्रैलोक्यराज्यम् अपि देव तृष्णाय मन्ये ।
निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ४८.१३ ॥१६०६॥

ददति तावद् अमी विषयाः सुखं स्फुरति यावद् इयं हृदि मूढता ।
मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ४८.१४ ॥१६०७॥

सत्यं मनोहरा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्ग- भङ्गिलोकं हि जीवितम् ४८.१५ ॥१६०८॥

धिग् धिक् तान् क्रिमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो निष्कन्दीकृतशान्ति ये ऽपि च तपःकारागृहेष्व् आसते ।
तं विद्वांसम् इह स्तुमः करपुटीभिक्षाल्पशाके ऽपि वा मुग्धावक्त्रमृणालिनीमधुनि वा यस्याविशेषो रसः ४८.१६ ॥१६०९॥

बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिर् अध्वनीव पथिकैः सङ्गो वियोगावहः ।
हातव्यायम् असंस्तवाय विसरः संसार इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ४८.१७ ॥१६१०॥
भर्तृहरेः

यदासीद् अज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयम् इदम् अशेषं जगद् अपि ।
इदानीं त्व् अस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ४८.१८ ॥१६११॥

मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्काङ्क्षिणी मा स्म भूर् भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैर् भिक्षासक्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे ४८.१९ ॥१६१२॥

धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस् त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलानिषण्णवपुषस् त्वद्वीचिभिः प्रेङ्खतस् त्वन्नाम स्मरतस् त्वदर्पितदृशः प्राणाः प्रयसयन्ति मे ४८.२० ॥१६१३॥
वाक्कूटस्य

तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं भवत्सौख्यं हित्वा शमसुखम् उपादेयम् अनघम् ।
इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं वीतव्रीडाः शुक इव पठामः परम् अमी ४८.२१ ॥१६१४॥

विषयसरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता विषयविरहग्लानिः शान्ता गता मलिनाथ धीः ।
इति चिरसुखप्राप्तः किंचिन्निमीलितलोचनो व्रजति नितरां तुष्टिं पुष्टः श्मशानगतः शवः ४८.२२ ॥१६१५॥

कामं शीर्णपलाशसंहतिकृतां कन्थां वसानो वने कुर्याम् अम्बुभिर् अप्य् अयाचितसुखैः प्राणावबन्धस्थितिम् ।
साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः ४८.२३ ॥१६१६॥

अवश्यं यातरश् चिरतरम् उषित्वापि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वयम् इमान् ।
व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः स्वयं त्यक्त्वा ह्य् एते शमसुखम् अनन्तं विदधति ४८.२४ ॥१६१७॥

भाग्यं नः क्व नु तादृग् अल्पतपसां येनाटवीमण्डनाः स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः ।
येषां धूमसमूहबद्धवपुषः सिन्धोर् अमी बन्धवो निर्व्याजं परिपालयन्ति जगतीरम्भोभिर् अम्भोमुचः ४८.२५ ॥१६१८॥

एतत् तद् वक्त्रम् अत्र क्व तद् अधरमधु क्वायातास् ते कटाक्षाः क्वालापाः कोमलास् ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः ।
इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोहजालं कपालम् ४८.२६ ॥१६१९॥

इत्थं बाला मां प्रत्य् अनवरतम् इन्दीवरदल- प्रभाचौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।
गतो मोहो ऽस्माकं स्मरसमरबाणव्यतिकर- ज्वरज्वाला शान्ता तद् अपि न वराकी विरमति ४८.२७ ॥१६२०॥

शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं गताः पांशुक्रीडां विषयपरिपाटीम् उपशमम् ।
लसन्तो ऽङ्के मातुः कुवलयदृशां पुण्यसरितां पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ४८.२८ ॥१६२१॥

वहति निकटे कालस्रोतः समस्तभयावहं दिवसरजनीकुलच्छेदैः पतद्भिर् अनारतम् ।
इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः ४८.२९ ॥१६२२॥

भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धुवर्गो मे ।
इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः ४८.३० ॥१६२३॥

दिशो वासः पात्रं करकुहरम् एणाः प्रणयिनः समाधानं निद्रा शयनम् अवनी मूलम् अशनम् ।
कदैतत् सम्पूर्णं मम हृदयवृत्तेर् अभिमतं भविष्यत्य् अत्युग्रं परमपरितोषोपचितये ४८.३१ ॥१६२४॥

शरदम्बुधरच्छाया- गत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ४८.३२ ॥१६२५॥

कुरङ्गाः कल्याणं प्रतिविटपम् आरोग्यम् अटवि स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः ।
निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्तमधुना मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्परिचितिम् ४८.३३ ॥१६२६॥

मन्निन्दया यदि जनः परितोषम् एति नन्व् अप्रयत्नजनितो ऽयम् अनुग्रहो मे ।
श्रेयार्थिनो हि पुरुषाः परतुष्टिहेतोर् दुःखार्जितान्य् अपि धनानि परित्यजन्ति ४८.३४ ॥१६२७॥

क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् ।
सुरपतिम् अपि श्वा पार्श्वस्थं सशङ्कितम् ईक्षते गणयति न हि क्षुद्रो लोकः परिग्रहफल्गुताम् ४८.३५ ॥१६२८॥

विवेकः किं सो ऽपि स्वरसवलिता यत्र न कृपा स किं मार्गो यस्मिन् न भवति परानुग्रहरसः ।
स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः श्रुतं किं तद् वा स्याद् उपशमपदं यन् न नयति ४८.३६ ॥१६२९॥

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः सम्प्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् ४८.३७ ॥१६३०॥

प्रेम्णा पुरा परिगृहीतम् इदं कुटुम्बं चेल् लालितं तदनु पालितम् अद्य यावत् ।
सम्प्रत्य् अपि स्तिमितवस्त्रम् इवाङ्गलग्नम् एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि ४८.३८ ॥१६३१॥

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।
ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ४८.३९ ॥१६३२॥

भिक्षाशनं भवनम् आयतनैकदेशः शय्या भुवः परिजनो निजदेहभारः ।
वासश् च कीर्णपटखण्डनिबद्धकन्था हा हा तथापि विषयान् न जहाति चेतः ४८.४० ॥१६३३॥

रेतःशोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् मृत्योर् आमिषम् आस्पदं गुरुशुचां रोगस्य विश्रामभूः ।
जानन्न् अप्य् अवशी विवेकविरहान् मज्जन्न् अविद्याम्बुधौ शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ४८.४१ ॥१६३४॥

यदा पूर्वं नासीद् उपरि च यदा नैव भविता तदा मध्यावस्थातनुपरिचयो भूतनिचयः ।
अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ४८.४२ ॥१६३५॥
भर्तृहरेः

गोमायवः शकुनयश् च शुनां गणो ऽयं लुम्पन्ति कीटकृमयः परितस् तथैव ।
स्वां सम्पदं सकलसत्त्वकृतोपकारान् नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि ४८.४३ ॥१६३६॥
केशटस्य

धूर्तैर् इन्द्रियनामभिः प्रणयिताम् आपादयद्भिः स्वयं सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः ।
तैः शेषे कृतकृत्यताम् उपगतैर् औदास्यम् आलम्बितं सम्प्रत्य् एष विधेर् नियोगवशगः कर्मान्तरैर् बध्यते ४८.४४ ॥१६३७॥
दशरथस्य

इति शान्तिव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP