सुभाषितरत्नकोशः - सद्व्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् ।
विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ३७.१ ॥१२१३॥
धर्मकीर्तेः
प्रियप्राया वृत्तिर् विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः ।
पुरो वा पश्चाद् वा तद् इदम् अविपर्यासितरसं रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते ३७.२ ॥१२१४॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणम् अस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ३७.३ ॥१२१५॥
भर्तृहरेः
निर्मलानां कुतो रन्ध्रं कथंचिद् अपविध्यते ।
विधीयते गुणैर् एव तच् च मुक्तामणेर् इव ३७.४ ॥१२१६॥
त्र्यम्बकस्य
यदा किंचिज्ज्ञो ऽहं गज इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः ।
यदा किंचित् किंचिद् बुधजनसकाशाद् अधिगतं तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ३७.५ ॥१२१७॥
कालिदासस्य
अनुहरतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्योः ।
एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति ३७.६ ॥१२१८॥
गोभट्टस्य
पुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः सन्तः स्वयं यदि नमन्ति नमन्ति कामम् ।
आन्दोलितास् तु नमनस्पृहया परेण भज्यन्त एव शतधा न पुनर् नमन्ति ३७.७ ॥१२१९॥
जतुपङ्कायते दोषः प्रविश्यैवासतां हृदि ।
सतां तु न विशत्य् एव यदि वा पारदायते ३७.८ ॥१२२०॥
कुसुमस्तबकस्येव द्वयी वृत्तिर् मनस्विनः ।
सर्वलोकस्य वा मूर्ध्नि शीर्यते वन एव वा ३७.९ ॥१२२१॥
व्यासस्य
राजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः ३७.१० ॥१२२२॥
भर्तृहरेः
उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ३७.११ ॥१२२३॥
राजशेखरस्य
सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः ।
तुल्यैर् अपि गुणैश् चित्रं सन्तः सन्तः शराः शराः ३७.१२ ॥१२२४॥
विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरतिर् व्यसनं श्रुतौ प्रकृतिसिद्धम् इदं हि महात्मनाम् ३७.१३ ॥१२२५॥
स साधुर् यो विपन्नानां साहाय्यम् अधिगच्छति ।
न तु दुर्विहितातीत- वस्तुपालनपण्डितः ३७.१४ ॥१२२६॥
सत्यं गुणा गुणवतां विधिवैपरीत्याद् यत्नार्जिता अपि कलौ विफला भवन्ति ।
साफल्यम् अस्ति सुतराम् इदम् एव तेषां यत् तापयन्ति हृदयानि पुनः खलानाम् ३७.१५ ॥१२२७॥
अपूर्वः को ऽपि कोपाग्निः सज्जनस्य खलस्य च ।
एकस्य शाम्यति स्नेहाद् वर्धते ऽन्यस्य वारितः ३७.१६ ॥१२२८॥
छायां कुर्वन्ति चान्यस्य तापं तिष्ठन्ति वातपे ।
फलन्ति च परार्थाय पादपा इव सज्जनाः ३७.१७ ॥१२२९॥
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहिते सक्ता रत्नदीपा इवोत्तमाः ३७.१८ ॥१२३०॥
लक्ष्मीं तृणाय मन्त्यन्ते तद्भरेण नमन्ति च ।
अहो किम् अपि चित्राणि चरित्राणि महात्मनाम् ३७.१९ ॥१२३१॥
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां वृत्तिर् वामदक्षिणयोः समा ३७.२० ॥१२३२॥
परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् ।
मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् ३७.२१ ॥१२३३॥
विचिन्त्यमानो हि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः ।
यदा तु चक्षुःपथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति ३७.२२ ॥१२३४॥
सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् ।
यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदरस्थितम् अपांपत्युः पयः क्षारताम् ३७.२३ ॥१२३५॥
क्वाकराणारुषां संख्या संख्याताः कारणक्रुधः ।
कारणे ऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ३७.२४ ॥१२३६॥
सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जुवाक् ।
यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतो ऽन्यतः ३७.२५ ॥१२३७॥
मङ्गलस्य ॥
ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे ऽपि ये ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ३७.२६ ॥१२३८॥
यशो रक्षन्ति न प्राणान् पापाद् बिभति न द्विषः ।
अन्विष्यन्त्य् अर्थिनो नार्थान् निसर्गो ऽयं महात्मनाम् ३७.२७ ॥१२३९॥
यथा यथा परां कोटिर् गुणः समधिरोहति ।
सन्तः कोदण्डधर्माणो विरमन्ति तथा तथा ३७.२८ ॥१२४०॥
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ३७.२९ ॥१२४१॥
ये प्राप्ते व्यसने ऽप्य् अनाकुलधियः सम्पत्सु नैवोन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैर् अपि ।
ह्रीमन्तः स्वगुणप्रशंसनविधाव् अन्यस्तुतौ पण्डिता धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः ३७.३० ॥१२४२॥
करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः ।
हृदि स्वच्छा वृत्तिर् विजयिभुजयोर् वीर्यम् अतुलं विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् ३७.३१ ॥१२४३॥
वज्राद् अपि कठोराणि मृदूनि कुसुमाद् अपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुम् अर्हति ३७.३२ ॥१२४४॥
चेः
आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ३७.३३ ॥१२४५॥
पुराणम् इत्य् एव न साधु सर्वं न चापि काव्यं नवम् इत्य् अवद्यम् ।
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययहार्यबुद्धिः ३७.३४ ॥१२४६॥
कालिदासस्यैतौ
गुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् ।
भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु ३७.३५ ॥१२४७॥
ब्रूत नूतनकूष्माण्ड- फलानां के भवन्त्य् अमी ।
अङ्गुलीकथनाद् एव यन् न जीवन्ति मानिनः ३७.३६ ॥१२४८॥
यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्जभूः स्कन्दो द्वादशभिर् न वा न मघवा चक्षुःसहस्रेण वा ।
सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न तच् छक्यते प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत् पण्डिताः ३७.३७ ॥१२४९॥
नीरसान्य् अपि रोचन्ते कर्पासस्य फलानि नः ।
येषां गुणमयं जन्म परेषां गुह्यगुप्तये ३७.३८ ॥१२५०॥
गुणवत्पात्र मात्रैक- हार्यनिर्यासम् आशयन् ।
आत्मनावैति ते लोकः स्वबन्धुर् इति धावति ३७.३९ ॥१२५१॥
सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु ।
अतिथिजनशेषम् अश्नति सज्जनजिह्वे कृताथासि ३७.४० ॥१२५२॥
यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु ।
घण्टाध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः ३७.४१ ॥१२५३॥
रविगुप्तस्य
इति सद्व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP