सुभाषितरत्नकोशः - मध्याह्नव्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
मध्याह्ने परिपुञ्जितैस् तरुतलच्छाया मृगैः सेव्यते कासारे स्फुटितोदरे सुनिभृतं कीटैर् अहर् नीयते ।
उत्सङ्गश्लथमुक्तहस्तयुगलन्यस्ताननः कानने झिल्लीतोयकणाभिषेकसुखितो निद्रायते वानरः ३१.१ ॥९८१॥
एतस्मिन् दिवसस्य मध्यसमये वातो ऽपि चण्डातप- त्रासेनेव न संचरत्य् अहिमगोर् बिम्बे ललाटंतपे ।
किं चान्यत् परितप्तधूलिलुठनप्लोषासहत्वाद् इव च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ३१.२ ॥९८२॥
आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात् तापभरेण तानवकृता नीता परं लाघवम् ।
उत्सङ्गान्तरवर्तिनाम् अनुगमात् सम्पीडिता गाम् इमां सर्वाङ्गप्रणयप्रियाम् इव तरुच्छाया समालम्बते ३१.३ ॥९८३॥
मलयराजस्यैते
किरति मिहिरे विष्वद्रीचः करान् अतिवामनी स्थलकमठवद् देहच्छाया जनस्य विचेष्टते ।
गजपतिमुखोद्गीर्णैर् आप्यैर् अपि त्रसरेणुभिः शिशिरमधुराम् एणाः कच्छस्थलीम् अधिशेरते ३१.४ ॥९८४॥
उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल- ज्वालाजालकटालजाङ्गलतटीनिष्कूजकोयष्टयः ।
भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् आयुःकर्म समापयन्ति धिग् अमूर् मध्ये ऽह्नि शून्या दिशः ३१.५ ॥९८५॥
मुरारेर् एतौ
रथ्यागर्भेषु खेलारसिकशिशुगुणं त्याजयेत् पूर्वकेलीर् उद्दण्डाब्जच्छदालीतलम् उपगमयेद् राजहंसीकुलानि ।
अध्येतॄणां दधानं भृशम् अलसदृशां किंचिद् अङ्गावसादं देवस्यैतत् समन्ताद् भवतु समुचितश्रेयसे मध्यम् अह्नः ३१.६ ॥९८६॥
पुरुषोत्तमदेवस्य
काश्मर्याः कृतमालम् उद्गतदलं कोयष्टिकष्टीकते नीराश्मन्तकशिम्बिचुम्बनमुखा धावन्त्य् अपःपूर्णिकाः ।
दात्यूहैस् तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितम् अनुक्रन्दन्त्य् अधः कुक्कुभाः ३१.७ ॥९८७॥
उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकाद् इव च्छायाः सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् ।
किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्- क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः ३१.८ ॥९८८॥
धर्माशोकस्य
धत्ते पद्मतलाद् अलेप्सुर् उपरि स्वं कर्णतालं द्विपः शष्पस्तम्बरसान् नियच्छति शिखी मध्येशिखण्डं शिरः ।
मिथ्या लेढि मृणालकोटिरभसाद् दंष्ट्राङ्कुरं शूकरो मध्याह्ने महिषश् च वाञ्छति निजच्छायामहाकर्दमम् ३१.९ ॥९८९॥
विशन्तीनां स्नातुं जघनपरिवेशैर् मृगदृशां यद् अम्भः सम्प्राप्तं प्रमदवनवाप्यास् तटभुवम् ।
गभीरे तन् नाभीकुहरपरिणाहे ऽध्वनि सकृत् कुहुंकारस्फारं रचयति च नादं नमति च ३१.१० ॥९९०॥
राजशेखरस्य
विष्वङ् मुर्मुरनर्म बिभ्रति पथां गर्भेष्व् अदभ्राः पटु- ज्योतिर् मुक्तनिरभ्रदीधितिघटानिर्धूपिता धूलयः ।
मेघच्छायधियाभिधावति पुरो निर्दग्धदूर्वावनं पान्थः किं च मरीचिवीचिषु पयःपूरभ्रमः क्लामति ३१.११ ॥९९१॥
ध्वान्तानीलवनाद्रिकोटरगृहेष्व् अध्यासते कोकिलाः पान्थाः पोतवद् आपिबन्ति कलुषं धान्याः प्रतप्तं पयः ।
तल्लाम्भो वनतामसोल्लनिवहस्याशक्तसूर्यस्रुति- व्रातस्फीतवराहसैरिभसभास्वस्थैणयूथाच् च्युतम् ३१.१२ ॥९९२॥
धूमो ऽटन्न् अटवीषु चाटुपटलानाटीकयत्य् उच्छलत्- पांशुप्रांशुभराभिर् आभिर् अभितो वातोर्मिभिर् वर्त्मनः ।
उत्सर्पद्दवधूमविभ्रमभरः किं च प्रतीचीर् अपः कुर्वन्त्य् अच्छमरीचिवीचिनिचयभ्रान्त्या ह्रदान्ते मृगाः ३१.१३ ॥९९३॥
बुद्धाकरगुप्तस्य
मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु स्थूलत्वाज् जलरङ्गुनिर्जितभयः पुच्छाग्ररोमावलीः ।
लीलाताण्डवडम्बरैर् अवकिरन् पानीयपूर्णोदरस् तुण्डाग्रात् क्षणपीतवारिगुडिकाम् उद्गीर्य संलीयते ३१.१४ ॥९९४॥
इति मध्याह्नव्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP