सुभाषितरत्नकोशः - समाप्तनिधुवनचिह्नव्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
राजन्ति कान्तनखरक्षतयो मृगाक्ष्या लाक्षारसद्रवमुचः कुचयोर् उपान्ते ।
अन्तःप्रवृद्धमकरध्वजपावकस्य शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः २०.१ ॥६१२॥
राजशेखरस्य
जयन्ति कान्तास्तनमण्डलेषु विटार्पितान्य् आर्द्रनखक्षतानि ।
लावण्यसंभारनिधानकुम्भे मुद्राक्षराणीव मनोभवस्य २०.२ ॥६१३॥
क्वचित् ताम्बूलाङ्कः क्वचिद् अगरुपङ्काङ्कमलिनः क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तकपदः ।
वलीभङ्गाभोगेष्व् अलकपतिताकीर्णकुसुमः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः २०.३ ॥६१४॥
पीततुङ्गकठिनस्तनान्तरे कान्तदत्तम् अबला नखक्षतम् ।
आवृणोति विवृणोति चेक्षते लब्धरत्नम् इव दुःखितो जनः २०.४ ॥६१५॥
उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते ।
तिरयति शिशुलीलानर्तनच्छद्मताल- प्रचलवलयमालास्फालकोलाहलेन २०.५ ॥६१६॥
प्रदोषे दम्पत्योर् निजरुचि विभिन्ने प्रणयिनोर् विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने ।
रतौत्सुक्यात् ताम्यत्तरलमनसोः पर्यवसिते कृतार्थत्वे ऽन्योन्यं तदनु विदितौ किं न कुरुताम् २०.६ ॥६१७॥
पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते ।
किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि २०.७ ॥६१८॥
यद् रात्रौ रहसि व्यपेतविनयं दृष्टं रसात् कामिनोर् अन्योन्यं शयनीयम् ईहितरसव्याप्तिप्रवृत्तस्पृहम् ।
तत् सानन्दमिलद्दृशोः कथम् अपि स्मृत्वा गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम् २०.८ ॥६१९॥
किं भूषणेन रचितेन हिरण्मयेन किं रोचनादिरचितेन विशेषकेण ।
आर्द्राणि कुङ्कुमरुचीनि विलासिनीनाम् अङ्गेषु किं नखपदानि न मण्डलानि २०.९ ॥६२०॥
दम्पत्योर् निशि जल्पितं गृहशुकेनाकर्णितं यद् वचः प्रातस् तद् गुरुसन्निधौ निगदतस् तस्यैव तारं वधूः ।
हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोः पुरो व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् २०.१० ॥६२१॥
प्रयच्छाहारं मे यदि तव रहोवृत्तम् अखिलं मया वाच्यं नोच्चैर् इति गृहशुके जल्पति शनैः ।
वधूवक्त्रं व्रीडाभरनमितम् अन्तर्विहसितं हरत्य् अर्धोन्मीलन्नलिनमलिनावर्जितम् इव २०.११ ॥६२२॥
नखक्षतं यन् नवचन्द्रसन्निभं स्थितं कृशाङ्गि स्तनमण्डले तव ।
इदं तरीतुं त्रिवलीतरङ्गिणीं विराजते पञ्चशरस्य नौर् इव २०.१२ ॥६२३॥
हंहो कान्त रहोगतेन भवता यत् पूर्वम् आवेदितं निर्भिन्ना तनुर् आवयोर् इति मया तज् जातम् अद्य स्फुटम् ।
कामिन्या स्मरवेदनाकुलदृशा यः केलिकाले कृतः सो ऽत्यर्थं कथम् अन्यथा दहति माम् एव त्वदोष्ठव्रणः २०.१३ ॥६२४॥
अभिमुखपतयालुभिर् ललाटश्रमसलिलैर् अविधौतपत्रलेखः ।
कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः २०.१४ ॥६२५॥
मुरारेः
नखपदवलिनाभीसंधिभागेषु लक्ष्यः क्षतिषु च दशनानाम् अङ्गनायाः सशेषः ।
अपि रहसि कृतानां वाग्विहीनो ऽपि जातः सुरतविलसितानां वर्णको वर्णको ऽसौ २०.१५ ॥६२६॥
नवनखपदम् अङ्गं गोपयस्य् अंशुकेन स्थगयसि पुनर् ओष्ठं पाणिना दन्ददष्टम् ।
प्रतिदिशम् अपरस्त्रीसंगशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् २०.१६ ॥६२७॥
माघस्यैतौ
काश्मीरपङ्कखचितस्तनपृष्ठताम्र- पट्टावकीर्णदयितार्द्रनखाक्षराली ।
एणीदृशः कुसुमचापनरेन्द्रदत्त- तारुण्यशासनम् इव प्रकटीकरोति २०.१७ ॥६२८॥
दक्षस्य
अधरः पद्मरागो ऽयम् अनर्घः सव्रणो ऽपि ते ।
मुग्धे हस्तः किमर्थो ऽयम् अपार्थ इह दीयते २०.१८ ॥६२९॥
दरम्लानं वासो लुलितकुसुमालंकृति शिरः श्लथालोकं चक्षुः सरसनखलेखाङ्कितम् उरः ।
लसत्काञ्चीग्रन्थिस्फुरदरुणरत्नांशु जघनं प्रियाङ्गोप्न्मृष्टाङ्ग्या विषम् इदम् इयद् भावकनृणाम् २०.१९ ॥६३०॥
वल्लणस्य
प्रत्यूषे गुरुसंनिधौ गृहशुके तत् तद् रहोजल्पितं प्रस्तोतुं परिहासकारिणि पदैर् अर्धोदितैर् उद्यते ।
क्रीडाशारिकया निलीय निभृतं त्रातुं त्रपार्तां वधूं प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः २०.२० ॥६३१॥
तल्पे चम्पककल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणम् ।
आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः २०.२१ ॥६३२॥
सोन्नोकस्य
इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- तमिस्रामर्माणं किरणकणिकाम् अम्बरमणिः ।
इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितम् उरः २०.२२ ॥६३३॥
प्रभाते पृच्छन्तीर् अनुरहसिवृत्तं सहचरीर् नवोढा न व्रीडामुकुलितमुखीयं सुखयति ।
लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् चमत्कारो गूढं करजपदम् आसां कथयति २०.२३ ॥६३४॥
मुरारेर् एतौ
इति समाप्तनिधुवनचिह्नव्रज्या
N/A
References : N/A
Last Updated : November 11, 2016
TOP