संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
माहात्म्यव्रज्या

सुभाषितरत्नकोशः - माहात्म्यव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


तद् ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् ते द्वीपान्तरमालिनो जलधयः क्वापि क्वचिद् भूभृतः ।
आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् दूरे पूरणम् अस्य शून्यम् इति यन् नामापि नाछादितम् ३६.१ ॥११९३॥
केशटस्य

आपीयमानम् असकृद् भ्रमरायमाणैर् अम्भोधरैः स्फुरितवीचिसहस्रपत्रम् ।
क्षीराम्बुराशिम् अवलोकय शेषनालम् एकं जगत्त्रयसरःपृथुपुण्डरीकम् ३६.२ ॥११९४॥

विष्णुर् बभार भगवान् अखिलां धरित्रीं तं पन्नगस् तम् अपि तत्सहितं पयोधिः ।
कुम्भोद्भवस् तु तम् अपीयत हेलयैव सत्यं न कश्चिद् अवधिर् महतां महिम्नः ३६.३ ॥११९५॥

किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः ।
त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ३६.४ ॥११९६॥
वाचस्पतेः

एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमान् अभूद् अच्युतः ३६.५ ॥११९७॥
मुञ्जराजस्य

आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् यत् कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।
एकस्याश्रयघस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोयव्ययः ३६.६ ॥११९८॥
केशटस्य

निपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् दधानो ऽन्तर्दाहं स्रज इव स चौर्वो ऽस्ति दहनः ।
तथा सर्वस्वार्थे बहुविमथितो येन स हरिः स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः ३६.७ ॥११९९॥
धराधरस्य
दधानो

अन्यः को ऽपि स कुम्भसम्भवमुनेर् आस्तां शिखी जाठरो यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः ।
वन्द्यं तज्जठरं स मीनमकरग्राहावलिस् तोयधिः पश्चात् पार्श्वम् अपूरितान्तरवियद् यत्र स्वनन् भ्राम्यति ३६.८ ॥१२००॥
वाशटस्य

श्वासोन्मूलितमेरुर् अम्बरतलव्यापी निमज्जन् मुहुर् यत्रासीच् छिशुमारविभ्रमकरः क्रीडावराहो हरिः ।
सीमा सर्वमहाद्भुतेषु स तथा वारांपतिः पीयते पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये ३६.९ ॥१२०१॥
वाचस्पतेः

उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रो ऽप्य् अलं भुवनमण्डलमण्डनाय ।
सूर्याद् ऋते न तद् उदेति न चास्तम् एति येनोदितेन दिनम् अस्तमितेन रात्रिः ३६.१० ॥१२०२॥

उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः ।
शौर्यं यच् च न तद्गिरां पथि ननु व्यक्तं हि तत् कर्मभिः सत्यं ब्रह्मतपोनिधेर् भगवतः किं नाम लोकान्तरम् ३६.११ ॥१२०३॥

इतो वसति केशवः पुरम् इतश् च तद्विद्विषाम् इतश् च शरणागताः शिखरिपक्षिणः शेरते ।
इतश् च वडवानलः सह समस्तसंवर्तकैर् अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः ३६.१२ ॥१२०४॥

तत् तावद् एव शशिनः स्फुरितं महीयो यावन् न तिग्मरुचिमण्डलम् अभ्युदैति ।
अभ्युद्गते सकलधामनिधौ च तस्मिन्न् इन्दोः सिताम्रपटलस्य च को विशेषः ३६.१३ ॥१२०५॥

अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता ।
पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीम् अन्तर् जलधिवसुधाम् उत्तुलयति ३६.१४ ॥१२०६॥

तेषां तृषः परिणमन्ति न यत्र तत्र नान्यस्य वारिविभवो ऽपि च तादृग् अस्ति ।
विश्वोपकारजननीव्यवसायसिद्धिम् अम्भोमुचां जलधयो यदि पूरयन्ति ३६.१५ ॥१२०७॥

किं वाच्यो महिमा महाजलनिधेर् यत्रेन्द्रवज्राहति- त्रस्तो भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः ।
मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्- छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ३६.१६ ॥१२०८॥
वल्लणस्य

किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः ।
आश्चर्यं कलशोद्भवः स जलधिर् यस्यैकहस्तोदरे गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ३६.१७ ॥१२०९॥

विस्तारो यदि नेदृशो न यदि तद् गाम्भीर्यम् अम्भोनिधेर् न स्याद् वा यदि सर्वसत्त्वविषयस् तादृक् कृपानुग्रहः ।
अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ३६.१८ ॥१२१०॥
केशटस्य

उद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम् ।
किं चास्माज् जठरानलाद् इव नवस् तत्कालवान्तिक्रमान् निर्यातः स पुनर् यमाय पयसाम् अन्तर्गतो वाडवः ३६.१९ ॥१२११॥
श्रीदशरथस्य

यस्मिन्न् आपस्त् तदधिकरणस्यास्य वह्नेर् निवृत्तिः संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव ।
अस्त्य् अन्यो ऽपि प्रलयरजनीसंनिपाते ऽप्य् अनिद्रो यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति ३६.२० ॥१२१२॥
केशटस्य

इति माहात्म्यव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP