उत्तरभागः - अध्यायः ८
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.
सुत उवाच ॥
अष्टाक्षरो द्विजश्रेष्ठा नमो नारायणेति च ॥
द्वादशाक्षरमंत्रश्च परमः परमात्मनः ॥१॥
मंत्र षडक्षरो विप्राः सर्ववेदार्थसंचयः ॥
यश्चोंनमः शिवायेति मंत्रः सर्वार्थसाधकः ॥२॥
तथा शिवतरायेति दिव्यः पंचाक्षरः शुभः ॥
मयस्कराय चेत्येवं नमस्ते शंकराय च ॥३॥
सप्ताक्षरोयं रुद्रस्य प्रधानपुरुषस्य वै ॥
ब्रह्मा च भगवान्विष्णुः सर्वे देवाः सवासवाः ॥४॥
मंत्रैरेतैर्द्विजश्रेष्ठा मुनयश्च यजंति तम् ॥
शंकरं देवदेवशं मयस्करमजोद्भवम् ॥५॥
शिवं च शंकरं रुद्रं देवदेवमुमापतिम् ॥
प्राहुर्नमः शिवायोति नमस्ते शंकराय च ॥६॥
मयस्कराय रुद्राय तथा शिवतराय च ॥
जप्त्वा मुच्येत वै विप्रो ब्रह्महत्यादिभिः क्षणात् ॥७॥
पुरा कश्चिद्द्विजः शक्तो धुंधुमूक इति श्रुतः ॥
आसीत्तृतीये त्रेतायामावर्त्ते च मनोः प्रभोः ॥८॥
मेघवाहनकल्पे वै ब्रह्मणः परमात्मनः ॥
मेघो भूत्वा महादेवं कृत्तिवाससमीश्वरम् ॥९॥
बहुमानेन वै रुद्रं देवदेवो जनार्दनः ॥
खिन्नोऽतिभाराद्रुद्रस्य निःश्वासोच्छ्वासवर्जितः ॥१०॥
विज्ञाप्य शितिकंठाय तपश्चक्रेंबुजेक्षणः ॥
तपसा परमैश्वर्यं बलं चैव तथाद्भुतम् ॥११॥
लब्धवान्परमेशानाच्छंकरात्परमात्मनः ॥
तस्मात्कल्पस्तदा चासीन्मेघवाहनसंज्ञया ॥१२॥
तस्मिन्कल्पे मुनेः शापद्धुंधुमूकसमुद्भवः ॥
धुंधुमूकात्मजस्तेन दुरात्मा च बभूव सः ॥१३॥
धुंधुमूकः पुरासक्तो भार्यया सह मोहितः ॥
तस्यां वै स्थापितो गर्भः कामासक्तेन चेतसा ॥१४॥
अमावास्यामहन्येव मुहूर्ते रुद्रदैवते ॥
अंतर्वत्नी तदा भार्या भुक्ता तेन यथासुखमा ॥१५॥
असूत सा च तनयं विशल्याख्या प्रयत्नतः ॥
रुद्रे मुहुर्ते मंदेन वीक्षिते मुनिसत्तमाः ॥१६॥
मातुः पितुस्तथारिष्टं स संजातस्तथात्मनः ॥
ऋषी तमूचतुर्विप्रा धुंधुमूकं मिथस्तदा ॥१७॥
मित्रावरुणानामनौ दुष्पुत्र इति सत्तमौ ॥
वसिष्ठः प्राह नीचोऽपि प्रभावाद्वै बृहस्पतेः ॥१८॥
पुत्रस्तवासौ दुर्बुद्धिरपि मुच्यति किल्बिषात् ॥
दुःखितो धुंदुमूकोऽसौ दृष्ट्वा पुत्रमस्थितम् ॥१९॥
जातकर्मादिकं कृत्वा विधिवत्स्वयमेव च ॥
अध्यापयामास च तं विधिनैव द्विजोत्तमाः ॥२०॥
तेनाधीनं यथान्यायं धौंधुमूकेन सुव्रताः ॥
कृतोद्वाहस्तदा गत्वा गुरुशुश्रुषणे रतः ॥२१॥
अनेनैव मुनिश्रेष्ठा धौंधुमूकेन दुर्मदात् ॥
भुक्त्वान्यां वृषलीं दृष्ट्वा स्वभार्यावाद्दिवानिशम् ॥२२॥
एकशय्यासनगतो धौंधुमूको द्विजाधमः ॥
तथा चचार दुर्बुद्धिस्त्यक्त्वा धर्मगतिं पराम् ॥२३॥
माध्वी पीता तया सार्धं तेन रागविवृद्धये ॥
केनापि कारणेनैव तामुद्दिस्य द्विजोत्तमाः ॥२४॥
निहता सा च पापेन वृषली गतमंगला ॥
ततस्तस्यास्तदा तस्य भ्रातृभिर्निहतः पिता ॥२५॥
माता च तस्य दुर्बुद्धेर्धौन्धुमूकस्य शोभना ॥
भार्या च तस्य दुर्बुद्धेः श्यालास्ते चापि सुव्रताः ॥२६॥
राज्ञा क्षणादहो नष्ट कुलं तस्याश्च तस्य च ॥
गत्वासौ धौंधुमूकश्च येन केनापि लीलया ॥२७॥
दृष्ट्वा तु तं मुनिश्रेष्ठं रुद्रजाप्यपरायणम् ॥
लब्ध्वा पाशुपतं तद्वै पुरा देवान्महेश्वरात् ॥२८॥
लब्ध्वा पंचाक्षरं चैव षडक्षरमनुत्तमम् ॥
पुनः पंचाक्षरं चैव जप्त्वा लक्षं पृथक् पृथक् ॥२९॥
व्रतं कृत्वा च विधिना दिव्यं द्वादशमासिकम् ॥
कालधर्मं गतः कल्पे पूजितश्च यमेन वै ॥३०॥
उद्धृता च तथा माता पिता श्यालाश्च सुव्रताः ॥
पत्नी च सुभगा जाता सुस्मिता च पतिव्रता ॥३१॥
ताभिर्विमानामारुह्य देवैः सेंद्रैरभिष्टुतः ॥
गाणपत्यमनु प्राप्य रुद्रस्य दयितोऽभवत् ॥३२॥
तस्मादष्टाक्षरांन्मंत्रात्तथा वै द्वादशाक्षरात् ॥
भवेत्कोटिगुणं पुण्यं नात्र कार्या विचारणा ॥३३॥
तस्माज्जपेद्धियो नित्यं प्रागुक्तेन विधानतः ॥
शक्तिबीजसमायुक्तं स याति परमां गतिम् ॥३४॥
एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम् ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥३५॥
स याति ब्रह्मलोकं तु रुद्रजाप्यमनुत्तमम् ॥३६॥
इति श्रीलिंगमहापुराणे उत्तरभागे अष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP