उत्तरभागः - अध्यायः २८
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.
सूत उवाच ॥
स्नात्वा देवं नमस्कृत्य देवदेवमुमापतिम् ॥
दिव्येन चक्षुषारुद्रां नीललोहितमीश्वरम् ॥१॥
दृष्ट्वा वरदं रुद्राध्यायेन शंकरम् ॥
देवोऽपि तुष्ट्या निर्वाणं राज्यांते कर्मणैव तु ॥२॥
तवा स्तीति सकृच्चोक्त्वा तत्रैवांतरधीयत ॥
स्वायंभुवो मनुर्देवं नमस्कृत्य वृषध्वजम् ॥३॥
आरुरोह महामेरुं महावृषमिवेश्वरः ॥
तत्र देवं हिरम्याभं योगैश्वर्यसमन्वितम् ॥४॥
सनत्कुमारं वरदमपश्यद्ब्रह्मणः सुतम् ॥
नमश्चकार वरदं ब्रह्मण्यं ब्रह्मरूपिणम् ॥५॥
कृतांजलिपुटो भूत्वा तुष्टाव च महाद्युतिः ॥
सोऽपि दृष्ट्वा मनुं देवो हृष्टरोमाभवन्मुनिः ॥६॥
सनत्कुमारः प्राहेदं घृणया च घृणानिधे ॥
सनत्कुमार उवाच ॥
दृष्ट्वा सर्वेश्वराच्छांताच्छंकरान्नीललोहितात् ॥७॥
लब्ध्वाभिषेकं संप्राप्तो विवक्षुर्वद यद्यपि ॥
तस्य तद्वचनं श्रुत्वा प्रणिपत्य कृतांजलिः ॥८॥
विज्ञापयामास कथं कर्मणा निर्वृतिर्विभो ॥
वक्तुमर्हसि चास्माकं कर्मणा केवलेन च ॥९॥
ज्ञानेन निर्वृतिः सिद्धा विभो मिश्रेण वा क्कचित् ॥
अथ तस्य वचः श्रुत्वा श्रुतिसारविदां निधिः ॥१०॥
सनत्कुमारो भगवान्कर्मणा निर्वृतिंक्रमात् ॥
मिश्रेण च क्रमादेव क्षणाज्ज्ञानेन वै मुने ॥११॥
पुराऽमानेन चोष्ट्रत्वमगमं नंदिनः प्रभोः ॥
शापात्पुनः प्रसादाद्धि शिवमभ्यर्च्य शंकरम् ॥१२॥
प्रसादान्नंदिनस्तस्य कर्मणैव सुतोह्यहम् ॥
श्रुत्वोत्तमां गतिं दिव्यामवस्थां प्राप्तवानहम् ॥१३॥
शिवार्चनप्रकारेण शिवधर्मेण नान्यथा ॥
राज्ञां षोडशदानानि नंदिना कथितानि च ॥१४॥
धर्मकामार्थमुक्त्यर्थं कर्मणैव महात्मना ॥
तुलादिरोहणाद्यानि श्रृणु तानि यतातथम् ॥१५॥
ग्रहणादिषु कालेषु शुभदेशेषु शोभनम् ॥
विंशद्धस्तप्रमाणेन मंडपं कूटमेव च ॥१६॥
यथाष्टादशहस्तेन कलाहस्तेन वा पुनः ॥
कृत्वा वेदिं तथा मध्ये नवहस्तप्रमाणतः ॥१७॥
अष्टहस्तेन वा कार्या सप्तहस्तेन वा पुनः ॥
द्विहस्ता सार्धहस्ता वा वेदिका चातिशोभना ॥१८॥
द्वादशस्तंभसंयुक्ता साधुरम्या भ्रमंतिका ॥
परितो नव कुंडानि चतुरस्राणि कारयेत् ॥१९॥
एंद्रिकेशानयोर्मध्ये प्रधानं ब्रह्मणः सुता ॥
अथवा चतुरस्रं च योन्याकारमतः परम् ॥२०॥
स्त्रीणां कुंडानि विप्रेंद्रा योन्याकाराणि कारयेत् ॥
अर्धचंद्रं त्रिकोणं च वर्तुलं कुंडमेव च ॥२१॥
षडस्रं सर्वतो वापि त्रिकोणं पद्मसन्निभम् ॥
अष्टास्रं सर्वमाने तु स्थंडिलं केवलं तु वा ॥२२॥
चतुर्द्वारसमोपेतं चतुस्तोरणभूषितम् ॥
दिग्गजाष्टकसंयुक्तं दर्भमालासमावृतम् ॥२३॥
अष्टमंगलसंयुक्तं वितानोपरिशोभितम् ॥
तुलास्तंभद्रुमाश्चात्र बिल्वादीनि विशेषतः ॥२४॥
बिल्वाश्वत्थपलाशाद्याः केवलं खादिरं तु वा ॥
येन स्तंभः कृतः पूर्वं तेन सर्वं तु कारयेत् ॥२५॥
अथवा मिश्रमार्गेण वेणुना वा प्रकल्पयेत् ॥
अष्टहस्तप्रमाणं तु हस्तद्वयसमायुतम् ॥२६॥
तुलास्तंभस्य विष्कंभोऽनाहतस्त्रिगुणोमतः ॥
द्वयंगुलेन विहीनं तु सुवृत्तं निर्व्रणं तथा ॥२७॥
उभयोरंतरं चैव षड्ढस्तं नृपते स्मृतम् ॥
द्वोयश्चतुर्हस्तकृतमंतरं स्तंभयोरपि ॥२८॥
षड्स्तमंतरं ज्ञेयं स्तंभयोरुपरि स्थितम् ॥
वितास्तिमात्रं विस्तारो विष्कंभस्तावदुत्तरम् ॥२९॥
स्तंभयोस्तु प्रमाणेन उत्तरद्वारसम्मितम् ॥
षट्त्रिंशन्मात्रसंयुक्तं व्यायामं तु तुलात्मकम् ॥३०॥
विष्कंभमष्टमात्रं तु यवपंटकसंयुतम् ॥
षट्त्रिंशन्मात्रनाभं स्यान्निर्माणाद्वर्तुलं शुभम् ॥३१॥
अग्रे मूले च मध्ये च हेमपट्टेन बंदयेत् ॥
पट्टमध्ये प्रकर्तव्यमवलंबनकत्रयम् ॥३२॥
ताम्रेण च प्रकर्तव्यमवलंबनकत्रयम् ॥
आरेण वा प्रकर्तव्यमायसं नैव कारयेत् ॥३३॥
मध्ये चोर्ध्वमुखं कार्यमवलंबः सुशोभनः ॥
रश्मिभिस्तोरणाग्रे वा बंधयेच्च विधानतः ॥३४॥
जिह्वामेकां तुलामध्ये तारेणं तु विधीयते ॥
उत्तरस्य च मध्ये च शंकुं दृढमनुत्तमम् ॥३५॥
वितानेनोपरि च्छाद्य दृढं सम्यक्प्रयोजयेत् ॥
संकोः सुषिरसंपन्नं वलयं कारयेन्मुने ॥३६॥
तुलामध्ये वितानेन तुलयालंबके तथा ॥
वलयेन प्रयोक्तव्यं कुंडलं वावलंबनम् ॥३७॥
सुदृढं च तुलामध्ये नवमांगुलमानतः ॥
पट्टस्यैव तु विस्तारं पंचमात्रप्रमाणतः ॥३८॥
अपरौ सुदृढौ पिंडौ शुभद्रव्येण कारयेत् ॥
शिक्याधस्तात्प्रकर्तव्यौ पंचप्रादेश विस्तरौ ॥
सहस्रेण तु कर्तव्यौ पलानां धारकावुभौ ॥३९॥
शतष्टकेन वा कुर्यात्पलैः षट्शतमेव वा ॥
चतुस्तालं च कर्तव्यो विस्तारोमद्यमस्तथा ॥४०॥
सार्धत्रितालविस्तारः कलशस्य विधियते ॥
बध्नीयात्पंचपात्रं तु त्रिमात्रं षट्कमुच्यते ॥४१॥
चतुर्द्वारसमोपेतं द्वारमंगुलमात्रकम् ॥
कुंडलैश्च समोपेतैः शुक्लशुद्धसमन्वितैः ॥४२॥
कुंडलेकुंडले कार्यं श्रृंखलापरिमंडलम् ॥
श्रृंखलाधारवलयमवलं बेन योजयेत् ॥४३॥
प्रादेशं वा चतुर्मात्रं भूमेस्त्यक्त्वावलंबयेत् ॥
घटौ पुरुषमात्रौ तु कर्तव्यौ शोभनावुभौ ॥४४॥
तौ वालुकाभिः संपूर्य शिवं तत्र विनिःक्षिपेत् ॥
द्विहस्तमात्रमवटे स्थापनीयौ प्रयत्नतः ॥४५॥
निःशेषं पूरयोद्विद्वान्वालुकाभिः समंततः ॥
येन निश्चलतां गच्छेत्तेन मार्गेण कारयेत् ॥४६॥
श्रूयतां परमं गुह्यं वेदिकोपरिमंडलम् ॥
अष्टमांगुलसंयुक्तं मंगलाकुरशोभितम् ॥४७॥
फलपुष्पसमाकीर्णं धूपदीपसमन्वितम् ॥
वेदिमध्ये प्रकर्तव्यं दर्पणोदरसन्निभम् ॥४८॥
आलिखेन्मंडलं पूर्वं चतुर्द्वारसमन्वितम् ॥
शोभोपशोभासंपन्नं कर्णिकाकेसरान्वितम् ॥४९॥
वर्णजातिसमोपेतं पंचवर्णं तु कारयेत् ॥
वज्रं प्रागंतरे भागे आग्नेय्यां शक्तिमुज्ज्वलाम् ॥५०॥
आलिखेद्दक्षिणे दंडं नैर्ऋत्यां खङ्गमालिखेत् ॥
पाशश्च वारुणे लेख्यो ध्वजं वै वायुगोचरे ॥५१॥
कौबेर्यां तु गदा लेख्या ऐशान्यां शूलमालिखेत् ॥
शूलस्य वामदेशेन चक्रं पद्मं तु दक्षिणे ॥५२॥
एवं लिखित्वा पश्चाच्च होमकर्मसमाचरेत् ॥
प्रधानहोमं गायत्र्या स्वाहा शक्राय वह्नेये ॥५३॥
यमाय राक्षसेशाय वरुणाय च वायवे ॥
कुबेरायेश्वरायाथ विष्णवे ब्रह्मणे पुनः ॥५४॥
स्वाहांतं प्रणवेनैव होतव्यं विधिपूर्वकम् ॥
स्वशाखाग्निमुखेनैव जयादिप्रतिसंयुतम् ॥५५॥
स्विष्टांतं सर्वकार्याणि कारयेद्विधिवत्तदा ॥
सर्वहोमाग्रहोमे च समित्पालाशमुच्यते ॥
एकविंशतिसंख्यातं मंत्रेणानेन होमयेत् ॥५६॥
अयंतइध्मआत्माजातवेदस्तेने ध्यस्ववर्धस्वचेद्धवर्धयचास्मान्प्रजयापशुभिर्ब्रह्मवर्चसेनान्नाद्येनसमेधयस्वाहा भूः स्वाहा भुवःस्वाहा स्वः
स्वाहा भूर्भुवः स्वस्तथैव च ॥
समिद्धोमश्च चरुणा घृतस्य च यथाक्रमम् ॥
शुक्लान्नपायसं चैव मुद्गान्नं चरवः स्मृताः ॥५७॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥५८॥
अग्न आयूंषि पवस आसुवोर्जमिषं च नः ॥
अरोबाधस्वदुच्छनाम् ॥
अग्निर्ऋषिः पवमानः पांचजन्यः पुरोहितः ॥
तमीमहे महागयम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ॥
दधद्रयिं मयि पोषम् ॥
प्रजापते न त्वदेतान्यन्यो विश्वाजातानि परिता बभूव ॥
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥
गायत्र्या च प्रधानस्य समिद्धोमस्तथैव व ॥
चरुणा च तथाज्यस्य शक्रदीनां च होमयेत् ॥५९॥
वज्रादीनां च होतव्यं सहस्रार्धं ततः क्रमात् ॥
ब्रह्म जज्ञेति मंत्रेण ब्रह्मणे विष्णवे पुनः ॥६०॥
नारायणाय विद्महे वासु देवाय धीमहि ॥
तन्नो विष्णुः प्रचोदयात् ॥
अयं विशेषः कथितो होममार्गः सुशोभनः ॥
दूर्वया क्षीरयुक्तेन पंचविंशत्पृथक्पृथक् ॥६१॥
त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् ॥
उर्वारुकमिव बंधनान्मृत्योर्मुक्षयि मामृतात् ॥६२॥
दूर्वाहोमः प्रशस्तोऽयं वासुहोमश्च सर्वथा ॥
प्रायश्चित्तमघोरेण सर्पिषा च शतंशतम् ॥६३॥
ब्रह्माणं दक्षिणे वामे विष्णुं विश्वगुरुं शिवम् ॥
मध्ये देव्या समं ज्ञेयमिंद्रादिगणसंवृतम् ॥६४॥
आदित्यं भास्करं भानुं रविं देवं दिवाकरम् ॥
उषां प्रभां तथा प्रज्ञां संध्यां सावित्रिमेव च ॥६५॥
पंचप्रकारविधिना खखोल्काय महात्मने ॥
विष्टरां सुभगां चैव वर्धनीं च प्रदक्षिणाम् ॥६६॥
आप्यायनीं च संपूज्य देवी पद्मासने रविम् ॥
प्रभूतं वाथ कर्तव्यं विमलं दक्षिणे तथा ॥६७॥
सारं पश्चिमभागे च आराध्यं चोत्तरे यजेत् ॥
मध्ये सुखं विजानीयात्केसरेषु यथाक्रमम् ॥६८॥
दीप्तां सूक्ष्मां जयां भद्रां विभूतिं विमलां क्रमात् ॥
अमोघां विद्युतां चैव मध्यतः सर्वतोमुखीम् ॥६९॥
सोममंगारकं चैव बुधं गुरुमनुक्रमात् ॥
भार्गवं च तथा मंदं राहुं केतुं तथैव च ॥७०॥
पूजयेद्धोमयेदेवं दापयेच्च विशेषतः ॥
योगिनो भोजयेत्तत्र शिवतत्त्वैकपारगान् ॥७१॥
दिव्याध्ययनसंपन्नान्कृत्वैवं विधिविस्तरम् ॥
होमे प्रवर्तमाने च पूर्वादिक्स्थानमध्यमे ॥७२॥
आरोहयेद्विधानेन रुद्राध्यायेन वै नृपम् ॥
दारयेत्तत्र भूपालं घटिकैकां विदानतः ॥७३॥
यजमानो जपेन्मंत्रं रुद्रगायत्रिसंज्ञकम् ॥
घटिकार्धं तदर्धं वा तत्रैवासनामारभेत् ॥७४॥
आलोक्य वारुणं धीमान्कूर्चहस्तः समाहितः ॥
नृपश्च भूषणैर्युक्तः खड्गखेटकधारकः ॥७५॥
स्वस्तिरित्यादिभिश्चादावंते चैव विशेषतः ॥
पुण्याहं ब्राह्मणैः कार्यं वेदवेदांगपारगैः ॥७६॥
जयमंगलशब्दादिब्रह्मघोषैः सुशोभनैः ॥
नृत्यवाद्यादिभिर्गीतैः सर्वशोभासमन्वितैः ॥७७॥
स्वमेवं चंद्रदिग्भागे सुवर्णं तत्र विक्षिपेत् ॥
तुलाधारौ समौ वृत्तौ तुलाभारः सदा भवेत् ॥७८॥
शतनिष्काधिकं श्रेष्ठं तदर्धं मध्यमं स्मृतम् ॥
तस्यार्धं च कनिष्ठं स्यात्त्रिविधं तत्र कल्पितम् ॥७९॥
वस्त्रयुग्ममथोष्णीषं कुंडलं कंठशोभनम् ॥
अंगुलीभीषणं चैव मणिबंधस्य भूषणम् ॥८०॥
एतानि चैव सर्वाणि प्रारंभे धर्मकर्मणि ॥
पाशुपतव्रतायाथ भस्मांगाय प्रदापयेत् ॥८१॥
पूर्वोक्तभूषणं सर्वं सोष्णीषं वस्त्रसंयुतम् ॥
दद्यादेतत्प्रयोक्तुभ्य आच्छादनपटं बुधः ॥८२॥
दक्षिणां च शतं सार्धं तदर्धं वा प्रदापयेत् ॥
योगिनां चैव सर्वेषां पृथङ्निष्कं प्रदापयेत् ॥८३॥
यागोपकरणं दिव्यमाचार्याय प्रदापयेत् ॥
इतरेषां यतीनां तु पृथङ्निष्कं प्रदापयेत् ॥८४॥
तुलारोह सुवर्णं च शिवाय विनिवेदयेत् ॥
प्रासादं मंडपं चैव प्राकारं भूषणं तथा ॥८५॥
सुवर्णपुष्पं पटहं खड्गं वै कोशमेव च ॥
कृत्वा दत्त्वा शिवायाथ किंचिच्छेषं च बुद्धिमान् ॥८६॥
आचार्येभ्यः प्रदातव्यं भस्मांगेभ्यो विशेषतः ॥
पयसा वाथ दध्ना वा सर्वद्रव्यैरथापि वा ॥
ब्रह्मकूर्चेन वा देवं पंचगव्येन चवा पुनः ॥८७॥
सहस्रकलशैस्तत्र सेचयेत्परमेश्वरम् ॥
घृतेन केवलेनापि देवदेवमुमापतिम् ॥८८॥
पयसा वाथ दध्ना वा सर्वद्रव्यैरथापि वा ॥
ब्रह्मकूर्चेन वा देवं पंचगव्येन वा पुनः ॥८९॥
गायत्र्या चैव गोमूत्रं गोमयं प्रणवेन वा ॥
आप्यायस्वेति वै क्षीरं दधिक्राव्णोति वै दधि ॥९०॥
तेजोसीत्याज्यमीशानमंत्रेणैवाभिषेचयेत् ॥
देवस्यत्वोति देवेशं कुशांबुकलशेन वै ॥९१॥
रुद्राध्यायेन वा सर्वं स्नापयेत्परमेश्वरम् ॥
सहस्रकलशं शंभोर्नाम्नां चैव सहस्रकैः ॥९२॥
विष्णुना कथितैर्वापि तंडिना कथितैस्तु वा ॥
दक्षेण मुनिमुख्येन कीर्तितैरथवा पुनः ॥९३॥
महापूजा प्रकर्तव्या महादेवस्य भक्तितः ॥
शिवार्चकाय दातव्या दक्षिणा स्वगुरोः सदा ॥९४॥
देहार्णवं च सर्वेषां दक्षिणा च यताक्रमम् ॥
दीनांधकृपणानां च बालवृद्धकृसातुरान् ॥९५॥
भोजयेच्च विधानेन दक्षिणामपि दापयेत् ॥९६॥
इति श्रीलिंगमहापुराणे उत्तरभागे तुलापुरुषदानविधावष्टाविंशत्तमोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP