उत्तरभागः - अध्यायः २६
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.
शैलादिरुवाच ॥
अथवा देवमीशानं लिंगे संपूजयेच्छिवम् ॥
ब्राह्मणः शिवभक्तश्च शिवध्यानपरायणः ॥१॥
अग्निरित्यादिना भस्म गृहीत्वा ह्यग्निहोत्रजम् ॥
उद्धूलयेद्धि सर्वांगमापादतलमस्तकम् ॥२॥
आचामेद्ब्रह्मतीर्थेन ब्रह्मसूत्री ह्युदङ्मुखः ॥
अथोंनमः शिवायेति तनुं कृत्वात्मनः पुनः ॥३॥
देवं च तेन मंत्रेण पूजयेत्प्रणवेन च ॥
सर्वस्मादधिका पूजा अघोरेशस्य शूलिनः ॥४॥
सामान्यं यजनं सर्वमग्निकार्यं च सुव्रत ॥
मंत्रभेदः प्रभोस्तस्य अघोरध्यानमेव च ॥५॥
॥मंत्रः ॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः शर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥६॥
अघोरेभ्यः प्रशांतहृदयाय नमः ॥
अथ घोरेभ्यः सर्वात्मब्रह्मशिरसे स्वाहा ॥
घोरघोरतरेभ्यः ज्वालामालिनी शिकायै वषट् ॥
सर्वेभ्यः सर्वशर्वेभ्यः पिंगलकवचाय हुम् ॥
नमस्ते अस्तु रुद्ररूपेभ्यः नेत्रत्रयाय वषट् ॥
सहस्राक्षाय दुर्भेदाय पाशुपतास्त्राय हुं फट् ॥
स्नात्वाचाम्य तनुं कृत्वा समभ्युक्ष्यागमर्षणम् ॥
तर्पणं विधिना चार्घ्यं भानवे भानुपूजनम् ॥७॥
समं चाघोरपूजायां मंत्रमात्रेण भेदितम् ॥
मार्गशुद्धिस्तथा द्वारि पूजां वास्त्वधिपस्य च ॥८॥
कृत्वा करं विशोध्याग्रे स शुभासनमास्थितः ॥
नासाग्रकमले स्थाप्य दग्धाक्षः क्षुभिकाग्निना ॥९॥
वायुना प्रेर्य तद्भस्म विशोध्य च शुभां भसा ॥
शक्त्यामृतमये ब्रह्मकलां तत्र प्रकल्पयेत् ॥१०॥
अघोरं पंचधा कृत्वा पंचांगसहितं पुनः ॥
इत्थं ज्ञानाक्रियामेवं विन्यस्य च विधानतः ॥११॥
न्यासास्त्रिनेत्रसहितो हृदि ध्यात्वा वरासने ॥
नाभौ वह्निगतं स्मृत्वा भ्रूमध्ये दीपवत्प्रभुम् ॥१२॥
सांत्या बीजांकुरानंतधर्माद्यैरपि संयुते ॥
सोमसूर्याग्निसंपन्ने मूर्तित्रयसमन्विते ॥१३॥
वामादिभिश्च सहिते मनोन्मन्याप्यधिष्ठिते ॥
शिवासनेत्ममूर्तिस्थमक्षयाकार रूपिणम् ॥१४॥
अष्टत्रिंशत्कलादेहं त्रितत्त्वसहितं शिवम् ॥
अष्टादशभुजं देवं गजचर्मोत्तरीयकम् ॥१५॥
सिंहाजिनांबरधरमघोरं परमेश्वरम् ॥
द्वात्रिंशाक्षररूपेण द्वात्रिंश्च्छक्तिभिर्वृतम् ॥१६॥
सर्वाभरणसंयुक्तं सर्वदेवनमस्कृतम् ॥
कपालमालाभरणं सर्ववृश्चिकभूथमण् ॥१७॥
पूर्णोदुवदनं सौम्यं चंद्रकोटिसमप्रभम् ॥
चंद्ररेखाधरं शक्त्या सहितं नीलरूपिणम् ॥१८॥
हस्ते खड्गं खेटकं पाशमेकेरत्नैश्चित्रं चांकुशं नागकक्षाम् ॥
शरसनं पाशुपतं तथास्त्रं दंडं च खट्वांगमथापरे च ॥१९॥
तंत्रीं च घंटां विपुलं च शूलं तथापरे डामरुकं च दिव्यम् ॥
वज्रं गदां टंकमेकं च दीप्तं समुद्ररं हस्तमथास्य शंभोः ॥२०॥
वरदाभयहस्तं च वरेण्यं परमेश्वरम् ॥
भावयेत्पूजयेच्चापि वह्नौ होमं च कारेत् ॥२१॥
होमश्च पूर्ववत्सर्वो मंत्रभेदश्च कीर्तितः ॥
अष्टपुष्पादि गंधादि पूजास्तुतिनिवेदनम् ॥२२॥
अंतर्बलिं च कुंडस्य वाह्नेयेन विधानतः ॥
मंडलं विधिना कृत्वा मंत्रैरेतैर्यथाक्रमम् ॥२३॥
रुद्रेभ्यो मातृगणेभ्यो यक्षेभ्योऽसुरेभ्यो ग्रहेभ्यो राक्षसेभ्यो नागेभ्यो नक्षत्रेभ्यो विश्वगणेभ्यः क्षेत्रपालेभ्यः अथ वायुवरुणदिग्भागे क्षेत्रपालबलिं क्षिपेत् ॥
अर्घ्यं गंधं पुष्पं च धूपं दीपं च सुव्रताः ॥
नैवेद्यं मुखवासादि निवेद्यं वै यथाविधि ॥२४॥
विज्ञाप्यैवं विसृज्याथ अष्टपुष्पैश्च पूजनम् ॥
सर्वसामान्यमेतद्धि पूजायां मुनिपुंगवाः ॥२५॥
एवं संक्षेपतः प्रोक्तमघोरार्चादि सुव्रत ॥
अघोरार्चाविधानं च लिंगेवा स्थांडिलेऽपि वा ॥२६॥
स्थंडिलात्कोटिगुणितं लिंगार्चनमनुत्तमम् ॥
लिंगार्चनरतो विप्रो महापातकसंभवैः ॥२७॥
पापैरपि न लिप्येत पद्मपत्रमिवांभसा ॥
लिंगस्य दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम् ॥२८॥
अर्चनादधिकं नास्ति ब्रह्मपुत्र न संशयः ॥
एवं संक्षेपतः प्रोक्तमघोरार्चनमुत्तमम् ॥२९॥
वर्षकोटिशतेनापि विस्तरेण न शक्यते ॥३०॥
इति श्रीलिंगमहापुराणे उत्तरभागे षड्विंशतितमोऽध्यायः ॥२६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP