उत्तरभागः - अध्यायः ५२
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.
ऋषय ऊचुः ॥
श्रुता वज्रेश्वरी विद्या ब्राह्मी शक्रोपकारिणी ॥
अनया सर्वकार्याणि नृपामामिति नः श्रुतम् ॥१॥
विनियोगं वदस्वास्या विद्याया रोमहर्षण ॥
सूत उवाच ॥
वश्यमाकर्षणं चैव विद्वेषणमतः परम् ॥२॥
उच्चाटनं स्तंभनं च मोहनं ताडनं तथा ॥
उत्सादनं तथा छेदं मारणं प्रतिबंधनम् ॥३॥
सेनास्तंभनकादीनि सावित्र्या सर्वमाचरेत् ॥
आगच्छ वरदे देवि भूम्यां पर्वतमूर्धनि ॥४॥
ब्राह्मणेब्यो ह्यनुज्ञाता गच्छ देवि यथासुखम् ॥
उद्वास्यानेन मंत्रेण गंतव्यं नान्यथा द्विजाः ॥५॥
प्रतिकार्यं तथा बाह्यं कृत्वा पश्यादिकां क्रियाम् ॥
उद्वास्य वह्निमाधाय पुनरन्यं यथाविधि ॥६॥
देवीमावाह्य च पुनर्जपेत्संपूजयेत्पुनः ॥
होमं च विधिना वह्नौ पुनरेव समाचरेत् ॥७॥
सर्वकार्याणि विधिना साधयेद्विद्यया पुनः ॥
जातीपुष्पैश्च वश्यार्थि जुहुयादयुतत्रयम् ॥८॥
घृतेन करवीरेण कुर्यादाकर्षणं द्विजाः ॥
विद्वेषणं विशेषेण कुर्याल्लांगलकस्य च ॥९॥
तैलेनोच्चाटनं प्रोक्तं स्तंभनं मधुना स्मृतम् ॥
तिलेन मोहनं प्रोक्तं ताडनं रुधिरेण च ॥१०॥
खरस्य च गजस्याथ उष्ट्रस्य च यथाक्रमम् ॥
स्तंभनं सर्षपेणापि पाटनं चाकुशेन च ॥११॥
माणोच्चाटने चैव रोहीबीजेन सुव्रताः ॥
बंधनंत्वहिपत्रेण सेनास्तंभमतः परम् ॥१२॥
कुनट्या नियतं विद्यात्पूजयेत्परमेश्वरीम् ॥
घृतेन सर्वसिद्धिः स्यात्पयसा वा विशुद्ध्यते ॥१३॥
तिलेन रोगनाशश्च कमलेन धनं भवेत् ॥
कांतिर्मधूकपुष्पेण सावित्र्या ह्ययुतत्रयम् ॥१४॥
जयादिप्रभृतीन्सर्वान् स्विष्टांतं पूर्ववत्स्मृतम् ॥
एवं संक्षेपतः प्रोक्तो विनियोगोतिविस्तृतः ॥१५॥
जपेद्वा केवलां विद्यां संपूज्य च विधानतः ॥
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥१६॥
इति श्रीलिंगमहापुराणे उत्तरभागे द्विपंचाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP