संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः २२

उत्तरभागः - अध्यायः २२

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


शैलादिरुवाच ॥
स्नानयागादिकर्माणि कृत्वा वै भस्करस्य च ॥
शिवस्नानं ततः कुर्याद्भस्मस्नानं शिवार्चनम् ॥१॥

षष्ठेन मृदमादाय भक्त्या भूमौन्यसेन्मृदम् ॥
द्वितीयेन तथाभ्युक्ष्य तृतीयेन च शोधयेत् ॥२॥

चतुर्थेनैव विभजेन्मलमेकेन शोधयेत् ॥
स्नात्वा षष्ठेन तच्छेषां मृदं हस्तगतां पुनः ॥३॥

त्रिधा विभज्य सर्वं च चतुर्भिर्मध्यमं पुनः ॥
षष्ठेन सप्तवाराणि वामं मूलेन चालभेत् ॥
दशवारं च षष्ठेन दिशो बंधः प्रकीर्तितः ॥४॥

वामेन तीर्थं सव्येन शरीरमनुलिप्य च ॥
स्नात्वा सर्वैःस्मरन् भानुमभिषेकं समाचरेत् ॥५॥

श्रृंगेण पर्णपुटकैः पालाशेन दलेन वा ॥
सौरै रेभिश्च विविधैः सर्वासिद्धिकरैः शुभैः ॥६॥

सारौणि च प्रवक्ष्यामि बाष्कलाद्यानि सुव्रत ॥
अंगानि सर्वदेवेषु सारभूतानि सर्वतः ॥७॥

ॐ भूः ॐभुवः ॐस्वः ॐ महः ॐ जनः ॐ तपः ॐसत्यम् ॐ ऋतम् ॐ ब्रह्मा।
नवाक्षरमयं मंत्रं बाष्कलं परिकीर्तितम् ॥
न क्षरतीति लोकानि ऋतमक्षरमुच्यते ॥
सत्यमक्षरीमत्युक्तं प्रणवादिनमोंतकम् ॥८॥

ॐ भूर्भवः सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥
ॐ नमः सूर्याय खखोल्काय नमः ॥९॥

मूलमंत्रमिदं प्रोक्तं भास्करस्य महात्मनः ॥
नवाक्षरेण दीप्तास्यं मूलमंत्रेण भास्करम् ॥१०॥

पूजयेंद्रगमंत्राणि कथयामि यताक्रमम् ॥
वेदादिभिः प्रभूताद्यं प्रणवेन च मध्यमम् ॥११॥

ॐ भूः ब्रह्म हृदयाय ॐ भुवः विष्णुशिरसे ॐस्वः रुद्रशिखायै ॐभूर्भूवः स्वः ज्वालामालिनीशिखयै ॐ महः महेश्वराय कवचाय ॐजनः शिवाय नेत्रेभ्यः
ॐ तपः तापकाय अस्त्राय फट् मंत्राणि कथितान्येवं सौराणि विविधानि च ॥
एतैः श्रृंगादिभिः पात्रैः स्वात्मानमाभेषेटयेत् ॥१२॥

ताम्रकुंभेन वा विप्रः क्षत्रियो वैश्य एव च ॥
सकुसेन सपुष्पेण मंत्रैः सर्वै समाहितः ॥१३॥

रक्तवस्त्रपरीधानः स्वाचामेद्विधिपूर्वकम् ॥
सूर्यश्चोति दिवा रात्रौ चाग्निश्चेति द्विजोत्तमः ॥१४॥

आपः पुनंतु मध्याह्ने मंत्राचमनमुच्यते ॥
षष्ठेन शुद्धिं कृत्वैव जपेदाद्यमनुत्तमम् ॥१५॥

वौषडंतं तथा मूलं नवाक्षरमनुत्तमम् ॥
करशाखां तथांगुष्ठमध्यमानामिकां न्यसेत् ॥१६॥

तले च तर्जन्यंगुष्ठं मुष्टिभागानि विन्यसेत् ॥
नवाक्षरमयं देहं कृत्वांगैरपि पावितम् ॥१७॥

सूर्योऽहमिति संचिंत्य मंत्रैरेतैर्यथाक्रमम् ॥
वामहस्तगतैरद्भिर्गंधसिद्धार्थकान्वितैः ॥१८॥

कुशपुंजेन चाभ्युक्ष्य मूलाग्रैरष्टधा स्थितैः ॥
आपो हिष्ठादिभिश्चैव शेषमाघ्राध वै जलम् ॥१९॥

वामनासापुटेनैव देहे संभावयेच्छिवम् ॥
अर्घ्यमादाय देहस्थं सव्यनासापुटेन च ॥२०॥

कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥
तर्पयेत्सर्वदेवेभ्य ऋषिभ्यश्च विशेषतः ॥२१॥

भूतेभ्यश्च पितृभ्यश्च विधिनार्घ्यं च दापयेत् ॥
व्यापिनिं च परां ज्योत्स्नां संध्यां सम्यगुपासयेत् ॥२२॥

प्रातर्मध्याह्नसायाह्ने अर्घ्यं चैव निवेदयेत् ॥
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥२३॥

सुवृत्तं कल्पयेद्भूमौ प्रार्थयेत द्विजोत्तमाः ॥
प्राङ्मुखस्ताम्रपात्रं च सगंधं प्रस्थापूरितम् ॥२४॥

पूरयेद्गंधतोयेन रक्तचंदनकेन च ॥
रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥२५॥

दूर्वापामार्गगव्येन केवलेन घृतेन च ॥
आपूर्य मूलमंत्रेण नवाक्षरमयेन च ॥
जानुभ्यां धरणीं गत्वा देव देवं नमस्य च ॥२६॥

कृत्वा शिरसि तत्पात्रमर्घ्य मूलेन दापयेत् ॥
अश्वमेधायुतं कृत्वा यत्फलं परिकीर्तितम् ॥२७॥

तत्फलं लभते दत्त्वा सौरार्घ्यं सर्वसंमतम् ॥
दत्त्वैवार्घ्यं यजेद्भक्त्या देवदेवं त्रियंबकम् ॥२८॥

अथवा भास्करं चेष्ट्वा आग्नेयं स्नानमाचरेत् ॥
पूर्ववद्वै शिवस्नानं मंत्रमात्रेण भेदितम् ॥२९॥

दंतधावनपूर्वं च स्नानं सौरं च शांकरम् ॥
विघ्नेशं वरुणं चैव गुरुं तीर्थं समर्चयेत् ॥३०॥

बद्ध्वा पद्मासनं तीर्थे तथा तीर्थं समर्चयेत् ॥
तीर्थं संगृह्य विधिना पूजास्थानं प्रविश्य च ॥३१॥

मार्गेणार्घ्यपवित्रेण तदाक्रम्य च पादुकम् ॥
पूर्ववत्करविन्यासं देहविन्यासमाचरेत् ॥
तीर्थं संगृह्य विधिना पूजास्थानं प्रविस्य च ॥३२॥

अर्घ्यस्य सादनं चैव समासात्परिकीर्तितम् ॥
बद्ध्वा पद्मासनं योगी प्राणायामं समभ्यसेत् ॥३३॥

रक्तपुष्पाणि संगृह्य कमलाद्यानि भावयेत् ॥
आत्मनो दक्षिणे स्थाप्य जलभांडं च वामतः ॥३४॥

ताम्रपात्राणि सौराणि सर्वकामार्थसिद्धये ॥
आर्घ्यपात्रं समादाय प्रक्षाल्य च यथाविधि ॥३५॥

पूर्वोक्तेनांबुना सार्धं जलभांडे तथैव च ॥
अस्त्रोदकेन चैवार्घ्यमर्घ्यद्रव्यसमन्वितम् ॥३६॥

संहितामंत्रितं कृत्वा संपूज्य प्रथमेन च ॥
तुरीयेणावगुंठ्यैव स्थापयेदात्मनो परि ॥३७॥

पाद्यमाचमनीयं च गंधपूष्पसमन्वितम् ॥
अंभसा शोधिते पात्रे स्तापयेत्पूर्ववत्पृथक् ॥
संहितां चैव विन्यस्य कवचेनावगुंठ्यच ॥३८॥

अर्घ्याबुना समभ्युक्ष्य द्रव्याणि च विशेषतः ॥
अंभसा शोधिते पात्रे स्थापयेत्पूर्वनमस्कृतम् ॥३९॥

आदित्यो वै तेज ऊर्जोबलं यशो विविर्धति ॥
इत्यादिना नमस्कृत्य कल्पयेदासनं प्रभोः ॥४०॥

प्रभूतं विमलं सारमाराव्यं परमं सुखम् ॥
आग्नोय्यादिषु कोणेषुमध्यमांतं हृदान्यसेत् ॥४१॥

अंगं प्रविन्यसेच्चैव बीजमंकुरमेव च ॥
नालं सुषिसंयुक्तं सूत्रकंटकसंयुतम् ॥४२॥

दलं दलाग्रं सुश्वेतं हेमाभं रक्तमेव च ॥
कर्णिकाकेसरोपेतं दीप्ताद्यैः शक्तिभिर्वृतम् ॥४३॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमलाक्रमात् ॥
अघोरा विकृता चैव दीप्ताद्याश्चाष्टशक्तयः ॥४४॥

भास्कराभमुखाः सर्वाः। कृतांजलिपुटाः शुभाः ॥
अथवा पद्महस्ता वा सर्वाभरणभूषिताः ॥४५॥

मध्यतो वरदां देवीं स्थापयेत्सर्वमुखीम् ॥
आवाहयेत्ततो देवीं भास्करं परमेश्वरम् ॥४६॥

नवाक्षरेण मंत्रेण बाष्कलोक्तेन भास्करम् ॥
आवाहने च सान्निध्यमनेनैव विधीयते ॥४७॥

मुद्रा च पद्ममुद्राख्या भस्करस्य महात्मनः ॥
मूले नार्घ्यं ततो दद्यात्पाद्यमाचमनं पृथक् ॥४८॥

पुनरर्घ्यप्रदानेन बाष्कलेन यताविधि ॥
रक्तपद्मानि पुष्पाणि रक्तचंदनमेव च ॥४९॥

दीपधूपादिनैवेद्यं मुखावासादिरेव च ॥
तांबूलवर्तिदीपाद्यं बाष्कलेन विधीयते ॥५०॥

आग्नोय्यां च तथैशान्यां नैर्ऋत्यां वायुगोचरे ॥
पूर्वस्यां पश्चिमे चैव पट्प्रकारं विधीयते ॥५१॥

नेत्रांतं विधिनाऽभ्यर्च्य प्रणवादिनमोंतकम् ॥
कर्णिकायां प्रविन्यस्य रूपकध्यानमाचरेत् ॥५२॥

सर्वे विद्युत्प्रभाः शांता रौद्रमस्त्रं प्रकीर्तितम् ॥
दंष्ट्राकरालवदनं ह्यष्टमूर्ति भयंकरम् ॥५३॥

वरदं दक्षिणं हस्तं वामं पद्मविभूषितम् ॥
सर्वाभरणसंपन्ना रक्तस्रगनुलेपनाः ॥५४॥

रक्तांबरधराः सर्वा मूर्तयस्तस्य संस्थिताः ॥
समंडलो महादेवः सिंदूरारुणविग्रहः ॥५५॥

पद्महस्तोऽमृतास्यश्च द्विहस्तनयनः प्रभुः ॥
रक्ताभरणसंयुक्तो रक्तस्रगनुलेपनः ॥५६॥

इत्थंरूपधरं ध्यायेद्भास्करं भुवनेश्वरम् ॥
पद्मबाह्ये शुभं चात्र मंडलेषु समंततः ॥५७॥

सोममंगारकं चैव बुधं बुद्धिमतांवरम् ॥
बृहस्पतिं महाबुद्धिं रुद्रपुत्रं च भार्गवम् ॥५८॥

शनैश्चरं तथा राहुं केतुं धूम्रं प्रकीर्तितम् ॥
सर्वे द्विनेत्रा द्विभुजा राहुश्चोर्ध्वशरीरधृक् ॥५९॥

विवृत्तास्योंजलिं कृत्वा भ्रुकुटीलेक्षणः ॥
शनैश्चरश्च दंष्ट्रास्यो वरदाभयहस्तधृक् ॥६०॥

स्वैःस्वैर्भावैः स्वनाम्ना च प्रणवादिनमोंतकम् ॥
पूजनीयाः प्रयत्नेन धर्मकामार्थसिद्धये ॥६१॥

सप्तसप्तगणांश्चैव बहिर्देवस्य पूजयेत् ॥
ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः ॥६२॥

ग्रामण्यो यातुधानाश्च तथा यक्षाश्च मुख्यतः ॥
सप्ताश्वान् पूजयेदग्रे सप्तच्छंदोमयान् विभोः ॥६३॥

वालखिल्यगणं चैव निर्माल्यग्रहणं विभोः ॥
पूजयेदासनं सूर्तेर्देवतामपि पूजयेत् ॥६४॥

अर्घ्यं च दापयेत्तेषां पृथगेव विधा नतः ॥
आवाहने च पूजांते तेषामुद्वासने तथा ॥६५॥

सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥
बाष्कलं च जपेदग्रे धशांशेन च योजयेत् ॥६६॥

कुंडं च पश्चिमे कुर्याद्वर्तुलं चैव मेखलम् ॥
चतुरंगुलमानेन चोत्सेधाद्विस्तरादपि ॥६७॥

एकहस्तप्रमाणेन नित्ये नैमित्तिके तथा ॥
कृत्वाश्वत्थदलाकारं नाभिं कुंडे दशांगुलम् ॥६८॥

तदर्धेन पुरस्तात्तु गजोष्ठसदृशं स्मृतम् ॥
गलमेकांगुलं चैव शेषंद्विगुणविस्तरम् ॥६९॥

तत्प्रमाणेन कुंडस्य त्यक्त्वा कुर्वीत मेखलाम् ॥
यत्नेन साधयित्वैव पश्चाद्वोमं च कारयेत् ॥७०॥

षष्ठेनोल्ले खनं कुर्यात्प्रोक्षयेद्वारिणा पुनः ॥
आसनं कल्पयेन्मध्ये प्रथमेन समाहितः ॥७१॥

प्रभावतीं ततः शक्तिमाद्येनैव तु वुन्यसेत् ॥
बाष्कलेनैव संपूज्य गंधपुष्पादिभिः क्रमात् ॥७२॥

बाष्कलेनैव मंत्रेण क्रियां प्रति यजेत्पृथक् ॥
मूलमंत्रेण विधिना पश्चात्पूर्णाहुतिर्भवेत् ॥७३॥

क्रमादेवं विधानेन सूर्याग्निर्जनितो भवेत् ॥
पूर्वोक्तेन विधानेन प्रागुक्तं कमलं न्यसेत् ॥७४॥

मुखोपरि समभ्यर्च्य पूर्ववद्भास्करं प्रभुम् ॥
दशैवाहुतयो देया बाष्कलेन महामुने ॥७५॥

अंगानां च तथैकैकं संहिताभिः पृथक् पुनः ॥
जयादिस्विष्टपर्यंतमिध्मप्रक्षेपमेव च ॥७६॥

समान्यं सर्वमार्गेषु पारंपर्यक्रमेण च ॥
निवेद्य देवदेवाय भास्करायामितात्मने ॥७७॥

पूजाहोमादिकं सर्वं दत्त्वार्घ्यं च प्रदाक्षिणम् ॥
अंगैः संपूज्य संक्षिप्य हृद्युद्वास्य नमस्य च ॥७८॥

शिवपूजां ततः कुर्याद्धर्मकामार्थसिद्धये ॥
एवं संक्षेपतः प्रोक्तं यजनं भास्करस्य विवर्जितः ॥
सर्वैश्वर्यसमोपेतस्तेजसाप्रतिमश्च सः ॥७९॥

यः सकृद्वा यजेद्देवं देवदेवं जगद्गुरुम् ॥
भास्करं परमात्मानं स याति परमां गतिम् ॥८०॥

सर्वपापविनिर्मुक्ताः सर्वपाप विवर्जितः ॥
सर्वैश्वर्यसमोपेतस्तेजसाप्रतिमश्च सः ॥८१॥

पुत्रपौत्रादिमित्रैश्च समंततः ॥
भुक्त्वैव विपुलान् भोगानिहैव धन धान्यवान् ॥८२॥

यानवाहनसंपन्नो भूषणैर्विविधैरपि ॥
कालं गतोपि सूर्येण मोदते कालमक्षयम् ॥८३॥

पुनस्तस्मादिहागत्य राजा भवति धर्मिकः ॥
वेदवेदांगसंपन्नो ब्राह्मणो वात्र जायते ॥८४॥

पुनः प्राग्वासनायोगाद्धार्मिको वेदपारगः ॥
सूर्यमेव समभ्यर्च्य सूर्यसायुज्यमाप्नुयात् ॥८५॥

इति श्रीलिंगमहापुराणे उत्तरभागे द्वाविंशतितमोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP