संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ४७

उत्तरभागः - अध्यायः ४७

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सूत उवाच ॥
इति निशम्य कृतांजलय स्तदा दिवि महामुनयः कृतनिश्चयाः ॥
शिवतरं शिवमीश्वरमव्ययं मनसि लिंगमयं प्रणिपत्य ते ॥१॥

सकलदेवपतिर्भगवानजो हरिरशेषपतिर्गुरुणा स्वयम् ॥
मुनिवराश्च गणाश्च सुरासुरा नरवराः शिवलिंगमयाः पुनः ॥२॥

श्रुत्वैवं मुनयः सर्वे षट्कुलीयाः समाहिताः ॥
संत्यज्य सर्वं देवस्य प्रतिष्ठां कर्तुमुद्यताः ॥३॥

अपृच्छन्सूतमनघं हर्षगद्गदया गिरा ॥
लिंगप्रतिष्ठां विपुलां सर्वे ते शंसितव्रताः ॥४॥

सूत उवाच ॥
प्रतिष्ठां लिंगमूर्तेर्वो यथावदनुपूर्वशः ॥
प्रवक्ष्यामि समासेन धर्मकामार्थमुक्तये ॥५॥

कृत्वैव लिंगं विधिना भुवि लिंगेषु यत्नतः ॥
लिंगमेकतमं शैलं ब्रह्मविष्णुशिवात्मकम् ॥६॥

हेमरत्नमयं वापि राजतं ताम्रजं तु वा ॥
सवेदिकं ससूत्रं च सम्यग्विस्तृतमस्तकम् ॥७॥

विशोध्य स्थापयेद्भक्त्या सवेदिकमनुत्तमम् ॥
लिंगवेदी उमा देवी लिंगं साक्षान्महेश्वरः ॥८॥

तयोः सपूजनादेव देवी देवश्च पूजितौ ॥
प्रतिष्ठया च देवेशो देव्या सार्धं प्रतिष्ठितः ॥९॥

तस्मात्सवेदिकं लिंगं स्थापयेत्स्थापकोत्तमः ॥१०॥

मूले ब्रह्मा वसति भगवान्मध्यभागे च विष्णुः सर्वेशानः ॥
पशुपतिरजो रुद्रमूर्तिर्वरेण्यः ॥
तस्माल्लिंगं गुरुतरतरं पूजयेत्स्थापयेद्वा यस्मात्पूज्यो गणपतिरसौ देवमुख्यैः समस्तैः ॥११॥

गंधैः स्रग्धूपदीपैः स्नपनहुतबलिस्तोत्रमंत्रोपहारैर्नित्यं येऽभ्यर्चयांति त्रिदशवरतनुं लिंगमूर्तिं महेशम् ॥
गर्भाधानादिनाशक्षयभयरहिता देवगंधर्वमुख्यैः सिद्धैर्वंद्याश्च पूज्या गणवरनमितास्ते भवंत्यप्रमेयाः ॥१२॥

तस्माद्भक्त्योपचारेण स्थापयेत्परमेश्वरम् ॥
पूजयेच्च विशेषेण लिंगं सर्वार्थसिद्धये ॥१३॥

समर्च्य स्थापयेल्लिंगं तीर्थमध्ये शिवासने ॥
कूर्चवस्त्रादिभिर्लिंगमाच्छाद्य कलशैः पुनः ॥१४॥

लोकपालादिदैवत्यैः सकूर्चैः साक्षतैः शुभैः ॥
उत्कूर्चैः स्वस्तिकाद्यैश्च चित्रतंतुकवेष्टितैः ॥१५॥

वज्रादिकायुदोपेतैः सवस्त्रैः सपिधानकैः ॥
लक्षयेत्परितो लिंगमीशानेन प्रतिष्ठितम् ॥१६॥

धूपदीपसमोपेतं वितानविततांबरम् ॥
लोकपालध्वजैश्चैव गजादिमहिषादिभिः ॥१७॥

चित्रितैः पूजितैश्चैव दर्भमाला च शोभना ॥
सर्वलक्षणसंपूर्णा तया बाह्ये च वेष्टयेत् ॥१८॥

ततोधिवासयेत्तोये धूपदीपसमन्विते ॥
पंचाहं वा त्र्यहंवाथ एकरात्रमधापि वा ॥१९॥

वेदाध्ययनसंपन्नो नृत्यगीतादिमंगलैः ॥
किंकिणीरवकोपेतं तालवीणारवैरपि ॥२०॥

ईक्षयेत्कालमव्यग्रो यजमानः समाहितः ॥
उत्थाप्य स्वस्तिकं ध्यायेन्मंडपे लक्षणान्विते ॥२१॥

संस्कृते वेदिसंयुक्ते नवकुंडेन संवृते ॥
पूर्वोक्त विधिना युक्ते सर्वलक्षणसंयुते ॥२२॥

अष्टमंडलसंयुक्ते दिग्ध्वजाष्टकसंयुते ॥
पूर्वोक्तलक्षणोपेतैः कुंडैः प्रागादितः क्रमात् ॥२३॥

प्रधानं कुंडमीशान्यां चतुरस्रं विधीयते ॥
अथवा पंचकुंडैकं स्थंडिलं चैकमेव च ॥२४॥

यज्ञोपकरणैः सर्वैः शिवार्चायां हि भूषणैः ॥
वेदिमध्ये महाशय्यां पंचतूलीप्रकल्पिताम् ॥२५॥

कल्पयेत्कांचनोपेतां सितवस्त्रावगुंठिताम् ॥
प्रकल्प्यैवं शिवं चैव स्थापयेत्परमेश्वरम् ॥२६॥

प्राक्शिरस्कं न्यसेल्लिंगमीशानेन यथाविधि ॥
रत्नन्यासे कृते पूर्व केवलं कलशं न्यसेत् ॥२७॥

लिंगमाच्छाद्य वस्त्राभ्यां कूर्चेन च समंततः ॥
रत्नन्यासे प्रसक्तेऽथ वामाद्या नव शक्तयः ॥२८॥

नवरत्नं हिरण्याद्यैः पंचगव्येन संयुतैः ॥
सर्वदान्यसमोपेतं शिलायामपि विन्यसेत् ॥२९॥

स्थापयेद्ब्रह्मलिंगं हि शिवगायत्रिसंयुतम् ॥
केवलं प्रणवेनापि स्थापयेच्छिवमव्ययम् ॥३०॥

ब्रह्मजज्ञानमंत्रेण ब्रह्मभागं प्रभोस्तथा ॥
विष्णुगायत्रिया भागं वैष्णवं त्वथ विन्यसेत् ॥३१॥

सूत्रे तत्त्वत्रयोपेते प्रणवेन प्रविन्यसेत् ॥
सर्वं नमः शिवायेति नमो हंसः शिवाय च ॥३२॥

रुद्राध्यायेन वा सर्वं परिमृज्य च विन्यसेत् ॥
स्थापयेद्ब्रह्मभिश्चैव कलशान्वै समंततः ॥३३॥

वेदिमध्ये न्यसेत्सर्वान्मूर्वोक्तविधिसंयुतान् ॥
मध्यकुंभे शिवं देवीं दक्षिणे परमेश्वरीम् ॥३४॥

स्कंदं तयोश्च मध्ये तु स्कंदकुंभे सुचित्रिते ॥
ब्रह्माणं स्कंदकुंभे वा ईशकुम्भे हरिं तथा ॥३५॥

अथवा शिवकुंभे च ब्रह्मांगानि च विन्यसेत् ॥
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥३६॥

ब्रह्माण्येवं समासेन हृदयादीनि चांबिका ॥
वेदिमध्ये न्यसेत्सर्वान्पूर्वोक्तविधिसंयुतान् ॥३७॥

वर्धन्यां स्थापयेद्देवीं गंधतोयेन पूर्य च ॥
हिरण्यं रजतं रत्नं शिवकुंभे प्रविन्यसेत् ॥३८॥

वर्धन्यामापि यत्नेन गायत्र्यंगैश्च सुव्रताः ॥
विद्येश्वरान्दिशं कुंभे ब्रह्मकूर्चेन पूरिते ॥३९॥

अंनतेशादिदेवांश्च प्रणवादिनमोंतकम् ॥
नववस्त्रं प्रतिघटमष्टकुंभेषु दापयेत् ॥४०॥

विद्येश्वराणां कुंभेषु हेमरत्नादि विन्यसेत् ॥
वक्त्रक्रमेण होतव्यं गायत्र्यंगक्रमेण च ॥४१॥

जयादिस्विष्टपर्यंतं सर्वं पूर्ववदाचरेत् ॥
सेचयेच्छिवकुंभेन वर्धन्या वैष्णवेन च ॥४२॥

पैता महेन कुंभेन ब्रह्मभागं विशेषतः ॥
विद्येश्वराणां कुंभैश्च सेचयेत्परमेश्वरम् ॥४३॥

विन्यसेत्सर्वमंत्राणि पूर्ववत्सुसमाहितः ॥
पूजयेत्स्नपनं कृत्वा सहस्रादिषु संभवैः ॥४४॥

दक्षिणा च प्रदातव्या सहस्रपणमुत्तमम् ॥
इतरेषां तदर्धं स्यात्तदर्धं वा विधीयते ॥४५॥

वस्त्राणि च प्रधानस्य क्षेत्रभूषणगोधनम् ॥
उत्सवश्च प्रकर्तव्यो होमयगबलिः क्रमात् ॥४६॥

नवाहं वापि सप्ताहमेकाहं च त्र्यहं तथा ॥
होमश्च पूर्ववत्प्रोक्तो नित्यमभ्यर्च्य शंकरम् ॥४७॥

देवानां भास्करादीनां होमं पूर्ववदेव तु ॥
अभ्यंतरे तथा बाह्ये वह्नौ नित्यं समर्चयेत् ॥४८॥

य एवं स्थापयेल्लिंगं स एव परमेश्वरः ॥
तेन देवगणा रुद्रा ऋषयोऽप्सरसस्तथा ॥४९॥

सथापिताः पूजिताश्चैव त्रैलोक्यं सचराचरम् ॥५०॥

इति श्रीलिंगमहापुराणे उत्तरभागे लिंगस्थापनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP