उत्तरार्धम् - अध्यायः १५
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥बृहस्पतिरुवाच॥
सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽन्ययाः ।
योगात्मानो महात्मानो विपाप्मानो महौजसः ॥१॥
प्रेत्य च स्वर्गलाभाय कामैश्वर्यं सुविस्तरम् ।
येषां चाप्यनुगृह्णन्ति मोक्षप्राप्तिक्रमेण तु ॥२॥
तानि वक्ष्याम्यहं सौम्याः सरांसि सरितस्तथा ।
तीर्थानि चैव पुण्यानि देशाञ्जैलांस्तथाश्रमान् ॥३॥
पुण्यो यस्त्रिषु लोकेष्वमरकण्टकपर्वतः ।
पर्वतः प्रवरः पुण्यः सिद्धचारणसेवितः ॥४॥
यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च ।
तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ॥५॥
यत्र मृत्योर्गतिर्नास्ति तथैवासुररक्षसाम् ।
न भयं चैव वाऽलक्ष्मीर्यावद्भूमिर्धरिष्यति ॥६॥
तेजसा यशसा चैव भ्राजते स नगोत्तमः ।
श्रृङ्गमाल्यवतो नित्यं वह्निः संवर्तको यथा ॥७॥
मृदवश्च सुगन्धाश्च हेमाभाः प्रियदर्शनाः ।
शान्ताः कुशा इति ख्याताः पिबन्दक्षिणनर्मदाम् ॥८॥
दृष्टवान् स्वर्गसोपानं भगवानङ्गिराः पुरा ।
अग्निहोत्रे महातेजाः प्रस्तरार्थकुशोत्तमान् ॥९॥
तेषु दर्भेषु यः पिण्डानमरकण्टकपर्वते ।
दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ॥१०॥
तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्द्धनम् ।
अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ॥११॥
तत्र ज्वालारसः पुण्यो दृश्यतेऽद्यापि सर्वशः ।
सशल्यानां च सत्त्वानां विशल्यकरणी नदी ॥१२॥
प्राग्दक्षिणा तु सावर्त्ता वापी सा पर्वतोत्तमे ।
कलिङ्गदेशपार्श्वार्द्धे पितॄणां प्रीतिवर्द्धनम् ॥१३॥
सिद्धक्षेत्रमृषिश्रेष्टा यदुक्तं परमं भुवि ।
सम्मतो देवदैत्यानां श्लोकमप्युशना जगौ ॥१४॥
धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम् ।
पितॄन्सन्तर्पयिष्यन्ति श्राद्धे पितृपरायणाः ॥१५॥
अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः ।
सकृदेवार्चितास्तत्र स्वर्गममरकण्टके ॥१६॥
महेन्द्रपर्वते रम्ये पुण्यं शक्रनिषेवितम् ।
तत्रारुह्य भवेत् प्रीतिः श्राद्धं चैव महत्फलम् ॥१७॥
बिल्वाधःशिखरे युक्ता दिव्यं चक्षुः प्रवर्त्तते ।
अदृश्यं चैव भूतानां देववच्चरते महीम् ॥१८॥
सप्तगोदावरे चैव गोकर्णे च तपोवने ।
अश्वमेधफलं तत्र स्नात्वा च लभतेनरः ॥१९॥
धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः ।
रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ॥२०॥
गोकर्णे वर्णितं विप्रैर्नस्तिकानां निदर्शनम् ।
अब्राह्मणस्य सावित्री पठतः सम्प्रणश्यति ॥२१॥
देवर्षिभवने श्रृङ्गे सिद्धचारणसेविते ।
आरुह्य तं तु नियमात्ततो यान्ति त्रिविष्टपम् ॥२२॥
दिव्यैश्वन्दनवृक्षैश्च पादपैरुपशोभितम् ।
आपः स्वादनसम्पृक्ता वहन्ति सततंयतः ॥२३॥
नदी प्रवर्त्तते ताभ्यस्ताम्रपर्णीति नामतः ।
योषेव समहाखेदा दक्षिणं याति सागरम् ॥२४॥
नद्यास्तस्यास्तु या आपो मूर्च्छमाना महोदधौ ।
शङ्खा भवन्ति मुक्ताश्च जायन्ते शङ्खमुक्तिकाः ॥२५॥
उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम् ।
आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ॥२६॥
चन्दनेभ्यः प्रयुक्तानां शङ्खानां मौक्तिकस्य च ।
पाप कर्तॄनपि पितॄंश्तारयन्ति यथा श्रुतिः ॥२७॥
चन्द्रतीर्थे कुमार्य्यान्तु कावेर्य्यां प्रभवेऽक्षये ।
श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ॥२८॥
एकस्था यत्र दृश्यन्ते वृक्षा ह्योशिरपर्वते ।
पालाशाः खादिरा बिल्वा प्लक्षाश्वत्थविकङ्कताः ॥२९॥
एतद्धि मण्डलं सिद्धं यज्ञीयं द्विजसत्तमाः ।
अस्मिन् मुक्त्वा जनोऽङ्गानि क्षिप्रं यात्यमरावतीम् ॥३०॥
कर्माणि स्वप्रयुक्तानि सिध्यन्ति प्रभवात्यये ।
दुष्प्रसक्तानि पितृषु प्रयुक्तानि भवन्त्युत ॥३१॥
पितॄणां दुहिता पुण्या नर्मदा सरितां वरा ।
तत्र श्राद्धानि दत्तानि अक्षयाणि भवन्त्युत ॥३२॥
माठरस्य वने पुण्ये सिद्धचारणसेविते ।
अन्तर्द्धानं न गच्छन्ति सत्तास्तस्मिन्महागिरौ ॥३३॥
विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनम् ।
पापधारां न पश्यन्ति धारां पश्यन्ति साधवः ॥३४॥
तस्यां न दृश्यते पापं केषाञ्चित् पापकर्मणाम् ।
स्पष्टा भवति सा धारा प्रायशः शुभकर्मणाम् ॥३५॥
कौशलायां मतङ्गस्य वापी पापनिषूदनी ।
स्नातास्तस्यां दिवं यान्ति कामचारविहङ्गमाः ॥३६॥
कुमारकोशलातीर्थे पर्वते पालपञ्जरे ।
पाण्डु कूले समुद्रान्ते पण्डारकवने तथा ॥३७॥
विमले च विपापे च सत्कृत्य प्रभवेऽभये ।
भीवृक्षे गृध्रकूटे च जम्बूमार्गे च नित्यशः ॥३८॥
असितस्य गुरोः पुण्ये योगाचार्यस्य धीमतः ।
तत्रापि श्राद्धमानन्त्यमसितायाञ्च नित्यशः ॥३९॥
पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम् ।
महोदधौ प्रभासे च तस्मादेवं विनिर्द्दिशेत् ॥४०॥
देविकायां वृषो नाम कूपः सिद्धनिषेवितः ।
समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः ॥४१॥
योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतैः ।
दद्याच्छ्राद्धन्तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥४२॥
अक्षयं सार्वकामीयं श्राद्धं प्रीणाति वै पितॄन् ।
जातवेदः शिला तत्र साक्षादग्नेः सनातनी ॥४३॥
यस्त्वाग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते ।
अग्निः शान्तः पुनर्जातस्तस्मिन्दत्तं तदक्षयम् ॥४४॥
दशाश्वमदिके तीर्थे तीर्थे पञ्चाश्वमेधिके ।
यथोद्दिष्टं फलं तेषां क्रतूनां नात्र संशयः ॥४५॥
ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम् ।
श्राद्धं तत्र तदाक्षय्यं दत्त्वा स्वर्गे च मोदते ॥४६॥
श्राद्धं कुम्भे विमुच्यन्ति ज्ञेयं पापनिषूदनम् ।
श्राद्धं तत्राक्षयं प्रोक्तं जप्यहोमतपांसि च ॥४७॥
अझतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन् ।
दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम् ।
पृथिव्यामक्षयं दत्तं निरुजा यत्र पाण्डवाः ॥४८॥
योगेश्वरैः सदा जुष्टं सर्वपापबहिष्कृतैः ।
दद्याच्छ्राद्धन्तु यस्तस्मिस्तस्य वक्ष्यामि यत्फलम् ॥४९॥
अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा ।
अस्मिँल्लोके वशी यः स्यात्प्रेत्य स्वर्गे स मोदते ॥५०॥
प्रायशः प्रवरः पुण्यः शिवो नाम ह्रदस्तथा ।
तत्र व्याससरः पुण्यं दिव्यं ब्रह्मसरस्तथा ॥५१॥
उज्जन्तः पर्वतः पुण्यो वसिष्ठस्य महात्मनः ।
ऋग्यजुःसामशिरसः कापोतः पुष्पसाह्वयः ।
आख्यातः पञ्चमो वेदः सृष्ट्वा ह्येतेषु ब्रह्मणा ॥५२॥
गत्वैतान् मुच्यते पापाद्द्विजो वह्निः सनातनः॥
श्राद्धञ्चानन्त्यमेतेषु जप्य होमतपांसि च ॥५३॥
पुण्डरीके महातीर्थे पुण्डरीकसमं फलम् ।
ब्रह्मतीर्थे महातीर्थे अश्वमेधफलं लभेत् ॥५४॥
सिन्धुसागरसम्भेदे तदा पञ्चनदेऽक्षयम् ।
कीरकात्मा ततः पुण्यो मण्डवायां च पर्वते ॥५५॥
देयं सप्तह्रदे श्राद्धं मानसे च विशेषतः ।
महाकूटे च वन्दे च गिरौ त्रिरौ त्रिककुदे तथा ॥५६॥
सन्ध्यायां च महावेद्यां दृश्यते महदद्भुतम् ।
अश्रद्दधानान्नाभ्येति साभ्येति च धृतव्रतान् ॥५७॥
जातवेदः शिला तत्र साक्षादग्नेः सनातनी ।
श्राद्धानि चाग्निकार्यं च तत्र कुर्यात् सदाक्षयम् ॥५८॥
संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः ।
तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिना ॥५९॥
कृतात्मा वाऽकृतात्मा वा यत्र विज्ञायते नरः ।
स्वर्ग्यमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम् ।
वैराण्युत्सृज्य तस्मिस्तु दिवं सप्तर्षयो गताः ॥६०॥
अद्यापि तानि दृश्यन्ते वैराण्येव गतानि तु ।
स्नात्वा स्वर्गमवाप्नोति तस्मिस्तीर्थोत्तमे नरः ॥६१॥
ख्यातमायतनं तत्र नन्दिसिद्ध निषेवितम् ।
नन्दीश्वरस्य या मूर्त्तिर्दुराजारैर्न दृश्यते ॥६२॥
दृश्यन्ते काञ्चना यूपाः सञ्चिष्ये भास्करोदये ।
कृत्वा प्रदक्षिणं ते तु गच्छन्त्यन्तर्हिता दिवम् ॥६३॥
सर्वतश्च कुरुक्षेत्रं सुतीर्थञ्च विशेषतः ।
पुण्यं ॥सनत्कुमारस्य योगेशस्य महात्मनः ।
कीर्त्त्यते च तिलान्दत्त्वा पितॄणां वै सदाऽक्षयम् ॥६४॥
ओजसे चाक्षयं श्राद्धं धर्मराजनिवेशने ।
श्राद्धं दत्तममावस्यां विधिना च यथाक्रमम् ॥६५॥
पुनः सन्निहितानां वै कुरुक्षेत्रे विशेषतः ।
अर्चयेद्वा पितॄंस्तत्र सत्पुत्रस्त्वनृणो भवेत् ॥६६॥
विनशने सरस्वत्यां प्लक्षप्रश्रवणे तथा ।
व्यासतीर्थे सरस्वत्यां ब्रह्मक्षेत्रे विशेषतः ॥६७॥
देयमोङ्कारपठनैः श्राद्धमक्षयमिच्छता ।
सर्वतश्चैव गङ्ग्यां मैनाके च नगोत्तमे ॥६८॥
यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते ।
अत्युष्णाश्चातिशीताश्च आपस्तत्र निदर्शनम् ॥६९॥
यमस्य भगिनी पुण्या मार्त्तण्डदुहिता तथा ।
तत्राक्षयं तदा श्राद्धं पितृभिः पूर्वकीर्त्तितम् ॥७०॥
ब्रह्मानुगह्रदे स्नात्वा सद्यो भवति ब्राह्मणः ।
तस्मिन् हि श्राद्धमानन्त्यं जपहोमतपांसि च ॥७१॥
स्थाणुभूतश्चरंस्तत्र वसिष्ठो वै महातपाः ।
अद्यापि यत्र दृश्यन्ते पादपा मणिचर्च्चिताः ॥७२॥
तुला तु दृश्यते यत्र धर्माधर्मप्रदर्शिनी ।
यया वै तुलितं विप्रैस्तीर्थानां फलमुत्तमम् ॥७३॥
पितॄणां दुहिता योगा गन्धकालीति विश्रुता ।
चतुर्थो ब्रह्मणश्चांशः पराशरकुलोद्वहः ॥७४॥
व्यस्य त्वेकं चतुर्द्धा तु वेदं धीमान् महामुनिः ।
महायोगं महात्मानं यो व्यासं जनयिष्यति ॥७५॥
अच्छोदकं नाम सरो यत्राच्छोदा समुच्छ्रिता ।
मत्स्ययोनौ पुनर्जाता नियोगाद्वारणेन तु ॥७६॥
तस्या यत्राश्रमः पुण्यः पुण्यकृद्भिर्निषेवितः ।
सकृद्दत्तं तु वै श्राद्धमक्षयं समुदाहृतम् ।
तस्यां योग समाधाने दत्तं युगपदुद्भवेत् ॥७७॥
कुबेरतुङ्गे व्यामोच्चे व्यासतीर्थे तथैव च ।
पुण्यः स ब्राह्मणो दद्याछ्राद्धमानन्त्यमक्षयम् ॥७८॥
सिद्धैस्तु सेविता नित्यं दृश्यते नाकृतात्मभिः ।
अनिवर्त्तनं तु नन्दायां वेद्यां प्रागुत्तरे दिशि ॥७९॥
सिद्धक्षेत्रं तु वै जुष्टं यत्प्राप्य न निवर्त्तते ।
महालये पदं न्यस्तं महादेवेन धीमता ॥८०॥
देव्यालये तपस्तप्त्वा एकपादेन ईश्वरः ।
नीहारश्च युगं दिव्यमुमातुङ्गे स्थितं जलम् ॥८१॥
उमा तुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये ।
काद्रवत्यां च शाण्डिल्यां गुहायां वामनस्य च ॥८२॥
गत्वा चैतानि पूतः स्याच्छ्राद्धमक्षयमेव च ।
जपो होमस्तथा ध्यानं यत्किचित्सुकृतं भवेत् ॥८३॥
ब्रह्मचर्यं यजन्ते वै गुरुभक्ताः शतं समाः ।
एवमादीनि सद्यस्तां स्नात्वा प्राप्नोति सत्फल्म् ॥८४॥
कुमारधारा तत्रैव दृष्टा पापप्रणाशनी ।
यानासनं च तत्रैव सद्यः स्याद्यत् प्रदृश्यते ॥८५॥
शैलकीर्त्तिपुराभ्याशे कामानाप्नोति पुष्कलान् ।
अदृश्यः सर्वभूतानां देववच्चरते महीम् ॥८५॥
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥८६॥
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥८७॥
अक्षयं तु भवेच्छ्राद्धं शालग्रामसमन्ततः ।
दृष्ट्या न दृश्यते तत्र प्रत्यक्षमकृतात्मना ॥८८॥
प्रत्यादेशो ह्यशिष्टानां शिष्टानां च निवेशनम् ।
तत्र चैव ह्रदे पुण्ये दिव्यो वै नागराड् यतः ॥८९॥
पिण्डं गृह्णाति हिसतां न गृह्णात्यसतां हि सः ।
अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते ॥९०॥
प्रत्यक्षं दृश्यते धर्मस्तीर्थयोरनयोर्द्वयोः ।
देवदारुवने चापि चारयेस्तं निदर्शनम् ॥९१॥
विधूतानि तु पापानि दृश्यन्ते सुकृतात्मना ।
भागीरथ्यां प्रयागे च नित्यमक्षय्यमुच्यते ॥९२॥
कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले ।
वाराणस्यां नगर्यां तु देयं श्राद्धं तु यत्नतः ॥९३॥
तस्यां योगेश्वरो नित्यं तत्तस्यां दत्तमक्षयम् ।
दत्त्वा चैतेषु पूतः स्याच्छ्राद्धमानन्त्यमेव च ॥९४॥
तपो होमस्तथा ध्यानं यत् किञ्चित्सुकृतं भवेत् ।
लौहित्ये वैतरण्यां वै स्वर्णवेद्यां तथैव च ॥९५॥
सकृदेव समुद्रान्ते दृश्यते पुण्यकर्मभिः ।
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ॥९६॥
गयायां गृध्रकूटे च श्राद्धं दत्तं महाफलम् ।
हिमञ्च पतते तत्र समन्तात् पञ्चयोजनम् ॥९७॥
भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् ।
मतङ्गस्य पदं तत्र दृश्यते मांस चक्षुषा ॥९८॥
ख्यापितं धर्म्मसर्व्वस्वं लोकस्यास्य निदर्शनम् ।
एवं पञ्चवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ।
यस्मिन्पाण्डुविशालेति तीर्थं सद्यो निदर्शनम् ॥९९॥
तुलामानैस्तथा चापैः शास्त्रैश्च विविधैस्तथा ।
उन्मज्जन्ति तथा लग्ने ये वै पापकृतो जनाः ॥१००॥
तृतीयायां तथा पादे निःस्वरे पावमण्डले ।
महाह्रदे वै कौशिक्यां दत्तं श्राद्धं महाफलम् ॥१०१॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
बहून्दवेयुगांस्तप्त्वा तपस्तीव्रं सुदुश्चरम् ॥१०२॥
अल्पेनाप्यत्र कालेन नरो धर्म्मपरायणः ।
पाप्मानमुत्सृजत्याशु जीर्णत्वचमिवोरगः ॥१०३॥
सिद्धानां प्रीतिजननैः पापा नाञ्च भयङ्करैः ।
लेलिहानैर्महाभोगै रक्षितन्तु दिवानिशम् ॥१०४॥
नाम्ना कनकनन्दीति तीर्थं त्रैलोक्यविश्रुतम् ।
उदीच्यां मुण्डपृष्ठस्य देवर्षि गणसेवितम् ।
तत्र स्रात्वा दिवं यान्ति कामचारा विहङ्गमाः ॥१०५॥
दत्तं चापि तथा श्राद्धमक्षयं समुदाहृतम् ।
ऋणैस्त्रिभिस्तदा स्नात्वा निक्षिणोति नरोत्तमः ॥१०६॥
तीरे तु सरसस्तत्र देवस्यायतनं महत् ।
आरुह्य तज्जपंस्तत्र सिद्धो याति दिवं ततः ॥१०७॥
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ।
तत्र गत्वा पुरश्रेष्ठं दृश्यते महदद्भुतम् ॥१०८॥
तस्मिन्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् स लभते दिव्यान् मोक्षोपायं च नित्यशः ॥१०९॥
मानसे सरसि श्रेष्ठे दृश्यते महदद्भुतम् ।
दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते ॥११०॥
गङ्गा त्रिपथगा देवी सोमपादाच्च्युता भुवि ।
आकाशे दृश्यते तत्र तोरणं सूर्य्यसन्निभम् ॥१११॥
जाम्बूनदमयं दिव्यं स्वर्गद्वारमिवायतम् ।
यतः प्रवर्त्तते भूयः पूर्व्वसागरमन्तिमम् ॥११२॥
पावनी सर्व्वभूतानां धर्मज्ञानां विशेषतः ।
चन्द्रभागा च सिन्धुश्च उभौ मानससन्निभौ ।
सागरं पश्चिमं याति दिव्यसिन्धुर्नदीवरः ॥११३॥
पर्व्वतो हिमवान्नाम नानाधातुविभूषितः ।
योजनानां सहस्राणि आयतोऽशीतिरुच्यते ॥११४॥
सिद्धचारणसङ्कीर्णः सिद्धचारणसेवितः ।
तत्र पुष्करिणी रम्या सुषुम्ना नाम विश्रुता ॥११५॥
दशवर्षसहस्राणि तत्र जातस्तु जीवति ।
श्राद्धं भवति चानन्त्यं तस्यां दत्तं महोदयम् ।
तारयेच्च यदा श्राद्धं दशपूर्व्वान्दशापरान् ॥११६॥
सर्व्वं पुण्यं हिमवतो गङ्गा पुण्या च सर्व्वतः ।
समुद्रगाः समुद्राश्च सर्व्वे पुण्याः समन्ततः ॥११७॥
एवमादिषु सर्व्वेषु श्राद्धं निर्वर्त्तयेद्बुधः ।
पूतो भवति स्नात्वा नु दत्त्वा दत्त्वा तथैव च ॥११८॥
शैलसानुषु तुङ्गेषु कन्दरेषु गुहासु च ।
उपह्वरनितम्बेषु तथा प्रस्रवणेषु च ॥११९॥
पुलिनेष्वापगानां च तथैव प्रभवे युगे ।
महोदधौ गवां गोष्ठे सङ्गमेषु वनेषु च ॥१२०॥
असंसृष्टोपलिप्तासु हृद्यासु सुरभीषु च ।
गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ॥१२१॥
कुर्य्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ।
प्रदक्षिणं दिशं गत्वा सर्व्वकामचिकीर्षवः ॥१२२॥
एवमेतेषु सर्व्वेषु श्राद्धं कुर्य्यादतन्द्रितः ।
एवमेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् ॥१२३॥
त्रैवर्ण्ये विहिते स्थाने धर्म्मवर्णाश्रमे तथा ।
कोपस्थानस्य संत्यागात्प्राप्यते पितृपूजनम् ॥१२४॥
तीर्थान्यनुसरन् धीरः श्रद्दधानो जितेन्द्रियः ।
कृतपापश्च शुद्ध्येत किं पुनः शुभकर्म्मकृत् ॥१२५॥
तिर्यग्योनिं न गच्छेच्च कुदेशे न च जायते ।
स्वर्गी भवति वै विप्रो मोक्षोपायं च विन्दति ॥१२६॥
अश्रद्दधानाः पाप्मानो नास्तिकाः स्थितसंशयाः ।
हेतुद्रष्टा च पञ्चैते न तीर्थफलमश्र्नुते ॥१२७॥
गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् ।
ध्यानं तीर्थपरं तस्माद्ब्रह्मतीर्थं सनातनम् ॥१२८॥
उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम् ।
उपवासनिबद्धा हि प्राणैरिह पुनः पुनः ॥१२९॥
प्राणापानौ समौ कृत्वा विषयाणीन्द्रियाणि च ।
बुद्धिं मनसि संयम्य सर्व्वेषां तु निवर्त्तनम् ॥१३०॥
प्रत्याहारं पुनर्विद्धि मोक्षोपायमसंशयम् ।
इन्द्रियाणां मनो घोरं बुद्ध्यादीनां प्रवर्त्तनम् ॥१३१॥
अनाहारात्क्षयं याति विद्यादनशनं तपः ।
निग्रहाद्बुद्धिमनसो रम्या बुद्धिस्तु जायते ॥१३२॥
क्षीणेषु सर्व्वपापेषु क्षीणेष्वेवेन्द्रियेषु च ।
परिनिर्वाति शुद्धात्मा यथा वह्निर्निरिन्धनः ॥१३३॥
कारणेभ्यो गुणेभ्योऽथ व्यक्ताव्यक्तस्य कृत्स्नशः ।
वियोजयति क्षेत्रज्ञं तेभ्यो योगेन योगवित् ॥१३४॥
तस्य नास्ति गतिस्थानं व्यक्ताव्यक्तं न संशयः ।
आसन्नः सदसन्नैव नैव किञ्चित् स्थित इति ॥१३५॥
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तीर्थयात्रा नाम पञ्चदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP