उत्तरार्धम् - अध्यायः ४३
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥वायुरुवाच॥
अत ऊर्द्ध्वं प्रवक्ष्यामि गयामाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्रसंशयः ॥१॥
॥सूत उवाच॥
सनकाद्यैर्म्महाभागैर्देवर्षिः स च नारदः ।
॥सनत्कुमारं पप्रच्छ प्रणम्य विधिपूर्व्वकम् ॥२॥
नारद उवाच॥
॥सनत्कुमार मे ब्रूहि तीर्थं तीर्थोत्तमोत्तमम् ।
तारकं सर्वभूतानां पठतां श्रृण्वतां तथा ॥३॥
॥सनत्कुमार उवाच॥
वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्वतारकम् ।
गयातीर्थं सर्वदेशे तीर्थेभ्योऽप्यधिकं श्रृणु ॥४॥
गयासुरस्तपस्तेपे ब्रह्मणा क्रतवेऽर्थितः ।
प्राप्तस्य तस्य शिरसि शिलां धर्मो ह्यधारयत् ॥५॥
तत्र ब्रह्माऽकरोद्यागं स्थितश्चापि गदाधरः ।
फल्गुतीर्थादिरूपेण निश्चलार्थमहर्निशम् ।
गयासुरस्य विप्रेन्द्रब्रह्माद्यैर्दैवतैः सह ॥६॥
कृतयज्ञो ददौ ब्रह्मा ब्राह्मणेभ्यो गृहादिकम् ।
स्वेतकल्पे तु वाराहे गयायागमकारयत् ॥७॥
गयानाम्ना गया ख्याता क्षेत्रं ब्रह्नमभिकांक्षितम् ।
कांक्षन्ति पितरः पुत्रान्नरकाद्भयभीरवः ॥८॥
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ।
पद्भ्यामपि जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति ॥९॥
गयां गत्वान्नदाता यः पितरस्तेन पुत्रिणः ।
पक्षत्रयनिवासी च पुनात्यासप्तमं कुलम् ।
नो चेत्पञ्चदशाहं वा सप्तरात्रिं त्रिरात्रिकम् ॥१०॥
महाकल्पकृतं पापं गयां प्राप्य विनश्यति ।
पिण्डं दद्याच्च पित्रादेरात्मनोऽपि तिलैर्विना ॥११॥
ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।
पापंतत्सङ्गजं सर्व्वं गयाश्राद्धाद्विनश्यति ॥१२॥
आत्मजोऽप्यन्यजो वापि गयाभूमौ यदा तदा ।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥१३॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्व्विधा ॥१४॥
ब्रह्मज्ञानेन किं कार्य्यं गोगृहे मरणेन किम् ।
वासेन किं कुरुक्षेत्रे यदि पुत्रो गयां व्रजेत् ॥१५॥
गयायां सर्व्वकालेषु पिण्डं दद्याद्विचक्षणः ।
अधिमासे जन्मदिने चास्तेऽपि गुरुशुक्रयोः ॥१६॥
न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पतौ ।
तथा दैवप्रमादेन प्रहतेषु व्रणेषु च ।
पुनः कर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥१७॥
सकृद्गयाभिगमनं सकृत्पिण्डस्य पातनम् ।
दुर्लभं किं पुनर्न्नित्यमस्मिन्नेव व्यवस्थितिः ॥१८॥
प्रमादान्म्रियते क्षेत्रे ब्रह्मादेर्मुक्तिदायके ।
ब्रह्मज्ञानाद्यथा मुक्तिर्लभ्यते नात्र संशयः ॥१९॥
कीटकादिमृतानाञ्च पितॄणां तारणाय च ।
तस्मात्सर्व्वप्रयत्नेन कर्त्तव्यं सुविचक्षणैः ॥२०॥
ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्च्चयेत् ।
तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सह देवताः ॥२१॥
मुण्डनं चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ।
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥२२॥
दण्डंप्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः ।
दण्डं न्यस्ता विष्णुपदे पितृभिः सह मुच्यते ॥२३॥
न दण्डी किल्बिषं धत्ते पुण्यं वा परमार्थतः ।
अतः सर्व्वां क्रियां त्यक्त्वा विष्णुं ध्यायति भावुकः ॥२४॥
संन्यसेत्सर्व्वकर्म्माणि वेदमेकं न संन्यसेत् ।
मुण्डं कुर्य्याच्च पूर्व्वेऽस्मिन्पश्चिमे दक्षिणोत्तरे ॥२५॥
सार्द्धं क्रोशद्वयं मानं गयेति ब्रह्मणेरितम् ।
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥२६॥
तन्मध्ये सर्व्वतीर्थानि त्रैलोक्ये यानि सन्ति वै ।
श्राद्धकृद्यो गयाक्षेत्रे पितॄणामनृणो हि सः ॥२७॥
शिरसि श्राद्धकृद्यस्तु कुलानां शतमुद्धरेत् ।
गृहाच्चलितमात्रेण गयायां गमनं प्रति ।
स्वर्गा रोहणसोपानं पितॄणाञ्च पदे पदे ॥२८॥
पदे पदेऽश्वमेधस्य यत्फलं गच्छतो गयाम् ।
तत्फलञ्च भवेन्नूनं समग्रं नात्र संशयः ॥२९॥
पायसेनापि चरुणा सक्तुना पिष्टकेन वा ।
तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ॥३०॥
तिलकल्केन खण्डेन गुडेन सघृतेन वा ।
केवलेनैव दध्ना वा ऊर्जेन मधुनाऽथ वा ॥३१॥
पिण्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत ।
इज्यते वार्त्तवं भोज्यं हविष्यान्नं मुनीरितम् ॥३२॥
एकतः सर्व्ववस्तूनि रसवन्ति मधूनि हि ।
स्मृत्वा गदाधराङघ्र्यब्जं फल्गुतीर्थाम्बु चैकतः ॥३३॥
पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम् ।
दक्षिणा चान्न सङ्कल्पस्तीर्थश्राद्धेष्वयं विधिः ॥३४॥
नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः ।
सकारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ॥३५॥
अन्यत्रावाहिताः काले पितरो यान्त्यमुं प्रति ।
तीर्थे सदा वसन्त्येते तस्मादावाहनं न हि ॥३६॥
तीर्थश्राद्धं प्रयच्छद्भिः पुरुषैः फलकाङ्क्षिभिः ।
कामं क्रोधं तथा लोभं त्यक्त्वा कार्य्या क्रियाऽनिशम् ॥३७॥
ब्रह्मचार्य्यकभोजी च भूशायी सत्यवाक्छुचिः ।
सर्व्वभूतहिते रक्तः स तीर्थफलमश्नुते ॥३८॥
तीर्थान्यनुसरन्धीरः पाषण्डं पूर्व्वतस्त्यजेत् ।
पाषण्ढः स च विज्ञेयो यो भवेत्कामकारतः ॥३९॥
तीर्थेषु ये नरा धीराः कर्म्म कुर्व्वन्ति तद्घताः ।
यथा ब्रह्मविदो वेद्यं वस्तु चानन्यचेतसः ।
प्रविशन्ति परेशाख्यं ब्रह्म ब्रह्मपरायणाः ॥४०॥
यास्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता ।
साऽवतीर्णा गयाक्षेत्रे पितॄणां तारणाय वै ।
स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत् ॥४१॥
तथाऽक्षयवटं गत्वा विप्रान्सन्तोषयिष्यति ।
ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्च्चयेत् ।
तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सह देवताः ॥४२॥
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते ।
सान्निध्यं सर्व्वतीर्थानां गयातीर्थं ततो वरम् ॥४३॥
मीने मेषे स्थिते सूर्य्ये कन्यायां कार्मुके घटे ।
दुर्ल्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥४४॥
मकरे वर्त्तमाने च ग्रहणे चन्द्रसूर्य्ययोः ।
दुर्ल्लभं त्रिषु लोकेषु गयाश्राद्धं सुदुर्ल्लभम् ॥४५॥
गयायां पिण्डदानेन यत्फलं लभते नरः ।
न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥४६॥
इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम त्रिचत्वारिंशोऽद्यायः ॥४३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP