उत्तरार्धम् - अध्यायः ४२
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥शौनकादि॥ऋषय ऊचुः॥
॥सूत॥सूत महाभाग त्वया भगवता सता ।
व्यासप्रसादाधिगतशास्त्रसम्बोधनेन च ॥१॥
अष्टादशपुराणानि सेतिहासानि चानघ ।
उपक्रमोपसंहार विधिनोक्तानि कृत्स्नशः ॥२॥
चतुर्दशसहस्रं च मात्स्यं प्रोक्तमतिस्फुटम् ।
तत्संख्यकं भविष्यञ्च प्रोक्तं पञ्चशताधिकम् ॥३॥
मार्कण्डेयं महारम्यं प्रोक्तं नवसहस्रकम् ।
कथितं ब्रह्मवैवर्त्तमष्टादशसहस्रकम् ॥४॥
शतोत्तरञ्च ब्रह्माण्डं सूर्यसंख्यासहस्रकम् ।
अथ भागवतं दिव्यमष्टादशसहस्रकम् ॥५॥
सहस्राणि दशैवोक्तं पुराणं ब्रह्मनामकम् ।
अयुतश्लोकघटितं पुराणं वामनाभिधम् ॥६॥
तथैवायुत संख्यातं षट्शताधिकमादिकम् ।
त्रयोविंशतिसाहस्रमनिलं तद्गतं शुभम् ॥७॥
त्रयोविंशतिसाहस्रं नारदीयमुदाहृतम् ।
एकोनविंशसाहस्रं वैनतेयमुदाहृतम् ॥८॥
सहस्रपञ्चपञ्चाशत्प्रोक्तं पाद्मं सुविस्तरम् ।
सप्तदशसहस्रन्तु कूर्मं प्रोक्तं मनोहरम् ॥९॥
चतुर्विंशति साहस्रं सौकरं परमाद्भुतम् ।
एकाशीतिसहस्राणि स्कान्दमुक्तं सुविस्तृतम् ॥१०॥
एवमष्टादशोक्तानि पुराणानि बृहन्ति च ।
पुराणेष्वेषु बहवो धर्मास्ते विनिरूपिताः ॥११॥
रागिणाञ्च विरागाणां यतीनां ब्रह्मचारिणाम्
गृहस्थानां वनस्थानां स्त्रीशूद्राणां विशेषतः ॥१२॥
ब्राह्मणक्षत्रियविशां ये च सङ्करजातयः ।
गङ्गाद्या या महानद्यो यज्ञव्रततपांसि च ॥१३॥
अनेकविधदानानि यमाश्च नियमैः सह ।
योगधर्मा बहुविधाः सांख्या भागवतास्तथा ॥१४॥
भक्तिमार्गा ज्ञानमार्गा वैराग्यानिलनीरजाः ।
उपासनविधिश्चोक्तः कर्मसंशुद्धिचेतसाम् ॥१५॥
ब्राह्मं शैवं वैष्णवं च सौरं शाक्तं तथार्हतम् ।
षड्दर्शनानि चोक्तानि स्वभावनियतानि च ॥१६॥
एतदन्यच्च विविधं पुराणेषु निरुपितम् ।
अतः परं किमप्यस्ति न वा बोद्धव्यमुत्तमम् ॥१७॥
न ज्ञायेत यदि व्यासो गोपयेदथ वा भवान् ।
अत्र नः संशयं छिन्धि पूर्णः पौराणिको यतः ॥१८॥
॥सूत उवाच॥
श्रृणु शौनक वक्ष्यामि प्रश्रमेनं सुदुर्लभम् ।
अतिगोप्यतरं दिव्यमनाख्येयं प्रचक्षते ॥१९॥
पराशरसुतो व्यासः कृत्वा पौराणिकीं कथाम् ।
सर्ववेदार्थघटितां चिन्तयामास चेतसि ॥२०॥
वर्णाश्रमवतां धर्मो मया सम्यगुदाहृतः ।
मुक्तिमार्गा बहुविधा उक्ता वेदाविरोधतः ॥२१॥
जीवेश्वरब्रह्मभेदो निरस्तः॥सूत्रनिर्णये ।
निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ॥२२॥
अक्षरं परमं ब्रह्म परमात्मा परं पदम् ।
यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ॥२३॥
आचरन्ति महाप्राज्ञा धारणाञ्च पृथग्विधाम् ।
आसनं प्राणरोधश्च प्रत्याहारश्च धारणा ॥२४॥
ध्यानं समाधिरेतानि यमैश्च नियमैः सह ।
अष्टाङ्गानि यदर्थञ्च चरन्ति मुनिपुङ्गवाः ॥२५॥
यदर्थं कर्म कुर्वन्ति वेदाज्ञामात्रतत्पराः ।
परार्पणधिया सम्यग् निष्कामाः कलिलोज्झिताः ॥२६॥
यज्ज्ञप्तये निराकर्त्तुं पापाचरणमात्मनः ।
गङ्गादितीर्थचर्याणि निषेवन्ते शुचिव्रताः ॥२७॥
तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम् ।
नित्यं सर्वगतं स्थाणु कूटस्थं कूटविर्जितम् ॥२८॥
सर्वेन्द्रियचराभासं प्राकृतेन्द्रियवर्जितम् ।
दिक्कालाद्यनवच्छिन्नं नित्यं चिन्मात्रमव्ययम् ॥२९॥
अध्यास्तं सर्पवद्यत्र विश्वमेतत्प्रकाशते ।
विश्वस्मिन्नपि चान्वेति निर्विकारश्च रज्जुवत् ॥३०॥
सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम् ।
तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ॥३१॥
सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः ।
यस्माद्भवन्ति ब्रह्माण्ड कोटयो न भवन्ति च ॥३२॥
यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ ।
भवेतां या परा शक्तिर्यदाधारतया स्थिता ॥३३॥
यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम् ।
यदज्ञानाज्जगद्भाति यस्मिन् ज्ञाते जगन्न हि ॥३४॥
असत्यं यज्जडं दुःखमवस्त्विति निरूपितम् ।
विपरीतमतो यद्वै सच्चिदानन्दमूर्त्तिकम् ॥३५॥
जीवे जाग्रति विश्वाख्यं स्वप्ने यत्तैजसं स्मृतम् ।
सुषुप्तौ प्राज्ञसंज्ञं तत्सर्वावस्थासु संस्मृतम् ॥३६॥
यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमस्ति च ।
त्वक् त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ॥३७॥
बुद्धिर्ज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम् ।
यन्नेशिरि समभ्येतुं ज्ञातुं च परमार्थतः ॥३८॥
रज्जावहिर्मरौ वारि नीलिमा गगने यथा ।
असद्विश्वमिदं भाति यस्मिन्नज्ञानकल्पितम् ॥३९॥
घटावच्छिन्न एवायं महाकाशो विभिद्यते ।
कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसंज्ञिकम् ॥४०॥
मायया चित्रकारिण्या विचित्रगुणशीलया ।
ब्रह्माण्डं चित्रमतुलं यस्मिन् भित्ताविवार्पितम् ॥४१॥
धावतोऽन्यानतिक्रान्तं वदतो वागगोचरम् ।
वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ॥४२॥
अक्षरान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।
इत्येवं श्रूयते वेदे बहुधापि विचारिते ॥४३॥
अक्षरस्यात्मनश्चापि स्वात्मरूपतया स्थितम् ।
परमानन्दसन्दोहरूपमानन्द विग्रहम् ॥४४॥
लीलाविलासरसिकं बल्लवीयूथमध्यगम् ।
शिखिपिच्छकिरीटेन बास्वद्रत्नचितेन च ॥४५॥
उल्लसद्विद्युदाटोपकुण्डलाभ्यां विराजितम् ।
कर्णोपान्तचरन्नेत्रखञ्जरीटमनोहरम् ॥४६॥
कुञ्जकुञ्जप्रियावृन्दविलासरतिलम्पटम् ।
पीताम्बरधरं दिव्यं चन्दनालेपमण्डितम् ॥४७॥
अधरामृत संसिक्तवेणुनादेन वल्लवीः ।
मोहयन्तञ्चिदानन्दमनङ्गमदभञ्जनम् ॥४८॥
कोटिकामकलापूर्णं कोटिचन्द्रांशुनिर्मलम् ।
त्रिरेखकम्ठविलसद्रत्नगुञ्जामृगा कुलम् ॥४९॥
यमुनापुलिने तुङ्गे तमालवनकानने ।
कदम्बचम्पकाशोकपारिजातमनोहरे ॥५०॥
शिखिपारावतशुकपिककोलाहलाकुले ।
निरोधार्थं गवामेव धावमानमितस्ततः ॥५१॥
राधाविलासरसिकं कृष्णाख्यं पुरुषं परम् ।
श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ॥५२॥
एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते ।
गोलोकसंज्ञिके कृष्णो दीव्यतीति श्रुतं मया ॥५३॥
नातः परतरं किञ्चिन्निगमागमयोरपि ।
तथापि निगमो वक्ति ह्यक्षरात् परतः परः ॥५४॥
गोलोकवासी भगवानक्षरात्पर उच्यते ।
तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ॥५५॥
उद्दिष्टो वेद वचनैर्विशेषो ज्ञायते कथम् ।
श्रुतेर्वार्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ॥५६॥
श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः ।
विचारयामास चिरं न प्रपेदे यथातथम् ॥५७॥
॥सूत उवाच॥
विचारयन्नपि मुनिर्नाप वेदार्थनिश्चयम् ।
वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ॥५८॥
तथापि महतीमार्त्तिं सतां हृदयतापिनीम् ।
पुनर्विचारयामास कं व्रजामि करोमि किम् ॥५९॥
पश्यामि न जगत्यस्मिन्सर्वज्ञं सर्वदर्शनम् ।
अज्ञात्वाऽन्यतमं लोके सन्देहविनिवर्त्तकम् ॥६०॥
मेरोः कुहरिणीं गत्वा चचार परमं तपः ।
यत्र कार्त्तस्वरक्फूर्जज्ज्योत्स्नाजालैर्निरन्तरम् ॥६१॥
सदा प्रबाधते विष्वक्तमःस्तोमं दृशन्तुदम् ।
चकास्ते यत्र परमं कान्तारमतिसुन्दरम् ॥६२॥
नानाद्रुमलत ---त्पक्षिनिनादितम् ।
क्षुत्पिपासाभयक्रोधतापग्लानिविवर्जितम् ॥६३॥
जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः ।
जातरूपशिलानद्धतटसञ्चारपाक्ष ॥६४॥
युक्तमम्भोज पवनैः सेव्यमानं समन्ततः ।
शिवैरध्यासितम्भावैर्हिंस्रैः सत्त्वैः समुज्झितम् ॥६५॥
निर्जनं दिव्यलतिकाप्रियखण्डवराजितम् ।
शूकैः पारावतै र्हृद्यैरुन्मदन्मत्तकोकिलम् ॥६६॥
उत्पतत्पद्मरजसां पटलामोददिङ्मुखम् ।
तत्रापि काञ्चिनी दिव्या गुहा परमशोभना ॥६७॥
तां प्रविश्य जिता हारो जितचित्तो जितासनः ।
सस्मार वेदांश्चतुरस्तदेकाग्रमना मुनिः ॥६८॥
त्रयी जगाम शरदां शतस्य स्मरतोऽस्य हि ।
प्रादुरासंस्ततो वेदाश्चत्वारश्चारुदर्शनाः ॥६९॥
स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः ।
कुशमुष्टिकराम्भोजा मृगत्वङ्मण्डितांसकाः ॥७०॥
स्वरैः षोडशभिः क्लृप्त वदनाः प्रणवान्तराः ।
कचवर्गोद्भवैर्वर्णैः पञ्चावयवपाणयः ॥७१॥
पवर्गदक्षचरणा वामपादास्तवर्गतः ।
आतरन्त्यन्तवर्णाश्च येषां कुक्षिद्वयात्मकौ ॥७२॥
नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः ।
अग्निदक्षांशरुचिरा धराग्रीवा भृतासकाः ॥७३॥
अन्तस्थसन्धिसंस्थाना वैखरीवाग्विजृम्भिताः ।
अपश्यन्मथुरामेषां हृदयाम्भोजकल्पिताम् ॥७४॥
हरेर्भगवतः साक्षादाविर्भावस्थली हि सा ।
काशीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ॥७५॥
लिङ्गदेशे ततः काञ्चीमवन्तीं नाभिमण्डले ।
कण्ठस्थां द्वारकामेषां प्रयागं प्राणगं तथा ॥७६॥
सव्यापसव्ययोस्तेषां गड्गाऽपि यमुना नदी ।
मध्ये सरस्वती साक्षाद्गयाक्षेत्रं तथानने ॥७७॥
हनुग्रीवामध्यगतं प्रभासक्षेत्रमुत्तमम् ।
बदर्य्याश्रममेतेषां ब्रह्मरन्ध्रे ददर्श ह ॥७८॥
पौण्ड्रवर्धननेपालपीठं नयनयोर्युगे ।
पीठं पूर्णगिरिंनाम ललाटे समदृश्यत ॥७९॥
कण्ठे च मथुरापीठं काञ्चीपीठं कटिस्थितम् ।
जालन्धरं तथा पीठं स्तनदेशेष्वदृश्यत ॥८०॥
भृगुपीठं कर्णदेशे ह्ययोध्यां नासिकापुटे ।
ब्रह्मरन्ध्रे स्थितं ब्राह्यं शैवं सीमन्तसीमनि ॥८१॥
शाक्तं जिह्वाग्र धिषणं वैष्णवं हृदयाम्बुजे ।
सौरं चक्षुःप्रदेशस्थं बौद्धञ्छायासु सङ्गतम् ॥८२॥
सौत्रामणिं कण्ठदेशे पशुबन्धमथोरसि ।
वाजपेयं कटितटे ह्यग्निहोत्रं तथानने ॥८३॥
अश्वमेधं कटितटे नरमेधमथोदरे ।
राजसूयं शिरोदेशे आवसथ्यं तथाऽधरे ॥८४॥
ऊर्द्द्वोष्ठे दक्षिणाग्निञ्च गार्हपत्यं मुखान्तरे ।
हव्यं श्रुतौ मन्त्रभेदांस्तथा रोमस्ववस्थितान् ।
भृत्यैरिव महाराजं पुराणैर्न्यायमिश्रितैः ॥८५॥
संहिताभिश्च तन्त्रैश्च पृथक्पृथगुपासितान् ।
कर्म ज्ञानोपासनाभिर्जनानुग्रहकारकान् ॥८६॥
दृष्ट्वा सुविस्मितमना मुनिः कृष्णो बभूव तान् ।
ब्रह्मतेजोमयान्दिव्यांस्तपतोऽर्कानिवच्युतान् ।
ज्लतोऽग्नी निवोदर्कान्कोटीन्दुसमदर्शनान् ॥८७॥
ववन्दे सहसोत्थाय दण्डवत्पतितो मुनिः ।
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहमितीरयन् ॥८८॥
अद्य मे सफलं जन्म अद्य मे सफलं मनः ।
अद्य मे सफलञ्चायुर्यद्भवन्तोऽक्षिगोचराः ॥८९॥
अलौकिकंलौकिकञ्च यत् किञ्चिदपि विद्यते ।
न तद्वोऽविदितं वेद्यं भूत भव्यं भवच्च यत् ॥९०॥
न प्रवृत्तिफला यूयं दर्शयन्तोऽपि तान्सदा ।
यदृच्छाकरसङ्कोचविधानायेह रागिणाम् ॥९१॥
प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा निधीतरौ ।
न मृषारागविषयौ तत्सङ्कोचविधिक्षयौ ॥९२॥
अतो लोकहितैर्नूनं परमार्थनिरूपणे ।
स्वोक्ताः स्वर्गादिविषयाः नश्वरा इति निन्दिताः ॥९३॥
अधिकारिविभेदेन कर्मज्ञानोपदेशतः ।
त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्त्तिभिः ॥९४॥
अतोऽहं प्रष्टुमिच्छमि भवन्तश्चेत्कृपालवः ।
कर्मणां फलमादिष्टं सर्गः कामैकचेतसाम् ॥९५॥
ईशार्पितधियां पुंसां कृतस्यापि च कर्मणः ।
चित्तशुद्धिस्ततो ज्ञानं मोक्षश्च तदनन्तरम् ॥९६॥
मोक्षो ब्रह्मैक्यमित्येवं सच्चिदानन्दमेव यत् ।
सर्वं समाप्यते तस्मिञ्ज्ञाते यद्धि कृताकृतम् ॥९७॥
यन्निःसङ्गं चिदाकाशं ज्ञानरूपमसंवृतम् ।
निरीहमचलं शुद्धमगुणं व्यापकं स्मृतम् ॥९८॥
विकारेषु विनश्यत्सु निर्विकारं न नश्यति ।
यथान्धतमसा व्याप्तलोकस्य रविरोजसा ॥९९॥
लोहस्येव मणिस्तद्वदरणिश्चानले यथा ।
यदाभासेन सा सत्तां प्रतिपद्य विजृम्भते ॥१००॥
जीवेश्वरादिरूपेण विश्वाकारेण चाप्यहो ।
तस्यामपि प्रलीनायां कूटस्थञ्च यदेकलम् ॥१०१॥
भवद्भिरेवं निर्णीतं तत्तथैव न संशयः ।
तथापि मम जिज्ञासा वर्त्तते केवलं हृदि ॥१०२॥
अतोऽपि परमं किञ्चिद्वर्त्तते किल वा न वा ।
तद्वदन्तु महाभागा भवन्तस्तत्त्वदर्शनाः ॥१०३॥
यच्छ्रवः फलमेवेह जनुषो मे कृतार्थता ।
एवं ब्रुवन्तमनघं व्यासं सत्यवतीसुतम् ।
साधु साध्विति सङ्कीर्त्य प्रत्यूचु र्निगमा वचः ॥१०४॥
वेदा ऊचुः॥
साधु साधु महाप्राज्ञा विष्णुरात्मा शरीरिणाम् ।
अजोऽपि जन्म सम्पद्य लोकानुग्रहमीहसे ॥१०५॥
अन्यथा ते न घटते संसारकर्म्मबन्दनम् ।
अस्पृष्टो मायया देव्या कदाचिज्ज्ञानगूहया ॥१०६॥
बिभर्षि स्वेच्छया रूपं स्वेच्छयैव निगूहसे ।
अस्मत्सम्मत एवार्थो भवता सम्प्रदर्शितः ॥१०७॥
पुराणेष्वितिहासेषु॥सूत्रेष्वपि च नैकधा ।
अक्षरं ब्रह्म परमं सर्वकारणकारणम् ॥१०८॥
तस्यात्मनोऽप्यात्म भावतया पुष्पस्य गन्धवत् ।
रसवद्वा स्थितं रूपमवेहि परमं हि तत् ॥१०९॥
अनुभूतं तदस्माभिर्जाते प्राकृतिके लये ।
अक्षरात्परतस्तस्माद्यत्परं केवलो रसः ।
न च तत्र वयं शक्ताः शब्दातीते तदात्मकाः ॥११०॥
इति श्रीमहापुराणे वायुप्रोक्ते व्याससंशयापनोदनं नाम द्विचत्वारिंशोऽध्यायः ॥४२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP