उत्तरार्धम् - अध्यायः १६
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥बृहस्पतिरुवाच॥
अतः परं प्रवक्ष्यामि दानानि च फलानि च ।
श्राद्धकर्म्माणि मेध्यानि वर्जनीयानि यानि च ॥१॥
हिमप्रपतने कुर्य्यादाहरेद्वा हिमन्ततः ।
अग्निहोत्रमतः पुण्यं परमं हि ततः स्मृतम् ॥२॥
नक्तन्तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् ।
सर्व्वस्वेनापि कर्त्तव्यं क्षिप्रं वै राहुदर्शने ॥३॥
उपरागे न कुर्य्याद्यः पङ्के गौरिव सीदति ।
कुर्वाणस्तूद्धरेत्पापान्मग्नान्नौरिव सागरे ॥४॥
विश्वदेवञ्च सौम्यञ्च बहुमांसपरं हविः ।
विषाणं वर्जयेत्खाड्गमसूयानाशनाय वै ॥५॥
त्वष्टा वै वार्य्यमाणस्तु देवेशेन महात्मना ।
पिबञ्छचीपतेः सोमं पृथिव्यामपतत्पुरा ॥६॥
श्यामाकास्तु तथोत्पन्नाः पित्रर्थमपि पूजिताः ।
विप्रुषस्तस्य नासाभ्यामसक्ताभ्यां तथैव च ॥७॥
श्लेष्माणः शीतला हृद्या मधुराश्च तथेक्षवः ।
श्यामाकैरिक्षुभिश्चैव पितॄणां सार्व्वकामिकम् ।
कुर्य्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ॥८॥
श्यामाका हस्तिनामा च पटोलं बृहतीफलम् ।
अगस्त्यस्य शिखा तीव्रा कषायाः सर्व्व एव च ॥९॥
एवमातीनि चान्यानि स्वादूनि मधुराणि च ।
नागरं चात्र वै देयं दीर्घमूलकमेव च ॥१०॥
वंशीकरीराः सुरसाः सर्ज्जकं भूस्तृणानि च ।
वर्जनीयानि वक्ष्यामि श्राद्धकर्म्मणि नित्यशः ॥११॥
लशुनं गृञ्जनञ्चैव पलाण्डुः पिण्डमूलकम् ।
करम्भाद्यानि चान्यानि हीनानि रसगन्धतः ॥१२॥
श्राद्धकर्म्मणि वर्ज्यानि कारणञ्चात्र वक्ष्यते ।
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ॥१३॥
व्रणेभ्यो विस्फुरन्तो वै पतिता रक्तबिन्दवः ।
तत एतानि वर्ज्यानि श्राद्धकर्म्मणि नित्यशः ॥१४॥
अथ वेदोक्तनिर्यासान् लवणान्यूषरणानि च ।
श्राद्ध कर्म्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ॥१५॥
दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम् ।
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ॥१६॥
आविकं मार्गमौष्ट्रं च सर्व्वमेकशफं च यत् ।
माहिषञ्चामरञ्चैव पयो वर्ज्यं विजानता ॥१७॥
अतः परं प्रवक्ष्यामि वर्ज्यान् देशान् प्रयत्नतः ।
न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ॥१८॥
वन्यमूलफलाहारैः श्राद्धं कुर्य्यात्तु श्रद्धया ।
राष्ट्रमिष्टमवाप्नोति स्वर्गं मोक्षं यशस्करम् ॥१९॥
अनिष्ट शब्दसङ्कीर्णं जन्तुव्याप्तमथापि वा ।
पूतिगन्धां तथा भूमिं श्राद्धकर्म्मणि वर्जयेत् ॥२०॥
नद्यः सागरपर्य्यन्ता द्वारं दक्षिणपूर्व्वतः ।
त्रिशङ्कुं वर्जयेद् देशं सर्व्वं द्वादशयोजनम् ॥२१॥
उत्तरेण महानद्या दक्षिणेन च कैकटात् ।
देशस्त्रैशङ्कवो नाम वर्जितः श्राद्धकर्म्मणि ॥२२॥
कारङ्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च ।
प्रनष्टाश्रमधर्म्माश्च वर्ज्या देशाः प्रयत्नतः ॥२३॥
नग्नादयो न पश्येयुः श्राद्धमेव व्ययस्थितम् ।
गच्छन्ति तैस्तैर्दृष्टानि न पितॄन्न पितामहान् ॥२४॥
॥शंयुरुवाच॥
नग्नादीन् भगवन् सम्यङ्ममाद्य परिपृच्छतः ।
कथय द्विजमुख्याग्र विस्तरेण यथातथम् ॥२५॥
एवमुक्तो महातेजा ॥बृहस्पतिरुवाच तम् ।
सर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम् ॥२६॥
परित्यजति यो मोहात्ते वै नग्ना द्विजोत्तमाः ।
प्रलीयते नरो यः स्यान्निरालम्बश्च यो वृषः ॥२७॥
वृषं यश्च परित्यज्य मोक्षमन्यत्र मार्गति ।
वृषो वेदसमस्तस्मिन् यो वै सम्यङ्न पश्यति ॥२८॥
ब्राह्मणाः क्षत्रिया वैश्या वृषलाश्चैव सर्व्वशः ।
पुरा देवासुरे युद्धे निर्जितैरसुरैस्तदा ॥२९॥
पाषण्डवैकृतस्थाने नैषा सृष्टिः स्वयम्भुवा ।
द्विश्राद्धकश्च निर्ग्रन्थाः शाक्या पुष्टिकलंशकाः ॥३०॥
ये धर्म्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः ।
वृथाजटी वृथामुद्री वृथानग्नश्च यो द्विजः ॥३१॥
वृथाव्रती वृथा जापी ते वै नग्नादयो जनाः ।
कुलन्धमा निषादाश्च तथा पुष्टिविनाशकाः ॥३२॥
कृतकर्म्माक्षितास्त्वेते कुपथाः परिकीर्त्तिताः ।
एभिर्निर्वृत्तं दृष्टं वा श्राद्धं गच्छन्ति मानवाः ॥३३॥
ब्रह्मघ्नश्च कृतघ्नश्च नास्तिका गुरुतल्पगाः ।
दस्यवश्च नृशंसाश्च दर्शनेनैव वर्जिताः ॥३४॥
ये चान्ये पाप कर्म्माणः सर्व्वांस्तान् परिवर्जयेत् ।
देवदेवर्षिनिन्दायां रतांश्चैव विशेषतः ॥३५॥
असुरान् यातुधानांश्च दृष्टमेभिर्व्रजन्त्युत ।
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ॥३६॥
वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम्॥
॥पितर ऊचुः॥
वेदाः कृतयुगे पूज्यास्त्रेतायां तु सुरास्तथा ॥३७॥
युद्धानि द्वापरे नित्यं पाषण्डाश्च कलौ युगे ।
अपमानापवित्रश्च कुक्कुटो ग्रामसूकरः ॥३८॥
श्वा चैव दर्शनादेव हन्ति श्राद्धं न संशयः ।
शाव॥सूतकसंस्पृष्टो दीर्घरोगिभिरेव च ॥३९॥
मलिनैः पतितैश्चैव न द्रष्टव्यं कथञ्चन ।
अन्नं पश्येयुरेते वै नैतत्स्याद्धव्यकव्ययोः ॥४०॥
तत्संस्पृष्टं प्रधानार्थं संस्कारश्वापदो भवेत् ।
हविषां संहतानां तु पूर्व्वमेव विवर्जितम् ।
मृत्संयुक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ॥४१॥
सिद्धार्थकैः कृष्णतिलैः कार्य्यं वाप्यवकीरणम् ।
गुरुसूर्य्याग्निवस्तूनां दर्शनं वापि यत्नतः ॥४२॥
आसनारूढमानेषु पादोपहतमेव च ।
अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ॥४३॥
असितं परिदुष्टं च तथैवाग्रावलेहितम् ।
शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम् ॥४४॥
पिण्याकमथितं चैव तथा तिलयवादिषु ।
सिद्धाक्षताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥४५॥
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ।
सन्ति वेदविरोधेन केचिद्विज्ञानमानिनः ॥४६॥
अजज्ञपतयो नाम ते श्राद्धस्य यथा रजः ।
दधि शाकं तथाऽभक्ष्याः शुक्तं चैव विवर्जितम् ॥४७॥
वार्ताकुं वर्जयेद्दद्यात्सर्वानभिषवानपि ।
सैन्धवं लवणं यच्च तथा मानससम्भवम् ॥४८॥
पवित्रं परमं ह्येतत् प्रत्यक्षमपि वर्त्तते ।
अग्नौ निक्षिप्य बध्नीयाद्धस्तौ प्रक्षिप्य यत्नतः ॥४९॥
गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम् ।
द्रव्याणां प्रोक्षणं कार्य्यं तथैवावपनं पुनः ॥५०॥
निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम् ।
अरिष्टतुमुले बिल्वं त्विङ्गुदश्वदनान्यपि ॥५१॥
विदलानाञ्च सर्व्वेषां धर्मवच्छौचमिष्यते ।
तथा दन्तास्थिदारूणां श्रृङ्गाणाञ्चावलेखनम् ॥५२॥
सर्वेषां मृन्मयानान्तु पुनर्दाह उदाहृतः ।
मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ॥५३॥
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
स्याच्छौचं सर्ववालानामाविकानाञ्च सर्वशः ॥५४॥
आवि कानाञ्च सर्व्वेषां मृद्भिरद्भिर्विधीयते ।
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं पुनः ॥५५॥
तथा कार्प्पासिकानाञ्च भस्मना समुदाहृतम् ।
फलपुष्प शलाकानां प्लावनञ्चाद्भिरिष्यते ॥५६॥
संमार्जनं प्रोक्षणञ्च भूमेश्चैवोपलेपनम् ।
निष्क्रम्य बाह्यतो ग्रामाद्वायुपूता वसुन्धरा ॥५७॥
धनुष्मत्पक्षिणाञ्चैव मृद्भिः शौचं विधीयते ।
एवमेष समुद्दिष्टः शौचानां विधिरुत्तमः ।
अतः परं प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥५८॥
प्रातर्गृहात्पश्चिमदक्षिणेन इषुक्षेपञ्चाक्षमात्रं पदञ्च ।
कुर्य्यात्पुरीषं शिरोवगुण्ठ्य न च स्पृशेत्तत्र शिरः करेण ॥५९॥
शुष्कैस्तृणैर्वा काष्ठैर्वा पत्रैर्वेणुदलेन वा ।
मृण्मयैर्भाजनैर्वापि तिरोधाय वसुन्धराम् ॥६०॥
उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः ।
दिवा उदङ्मुखः कुर्य्याद्रात्रौ वै दक्षिणामुखः ॥६१॥
दक्षिणेन च हस्तेन गृह्णीयाद्वै कमण्डलुम् ।
शौचञ्च वामहस्तेन गुदे तिस्रस्तु मृत्तिकाः ॥६२॥
दश चापि पुनर्दद्याद्वामहस्तक्रमेण तु ।
द्वाभ्यां वापि पुनर्दद्याद्धस्तानां पञ्च मृत्तिकाः ॥६३॥
मृदा प्रक्षाल्य पादौ च आचम्य च यथाविधि ।
आपस्त्याज्यास्त्रयश्चैव सूर्य्याग्निपवनाम्भसाम् ॥६४॥
कुर्य्यात् सन्निहितं नित्यं प्राज्ञस्तीर्थे कमण्डलुम् ।
असत्कार्यं कार्यमेतैर्यथावत्पादधावनम् ॥६५॥
आचमनं द्वितीयेन देवकार्यं ततः परम् ।
उपवास स्त्रिरात्रन्तु दुष्टहस्ते ह्युदाहृतः ॥६६॥
विप्रकृष्टेन कृच्छ्रेण प्रायश्चित्तमुदाहृतम् ।
स्पृष्ट्वा श्वानं श्वपाकं वा तप्तकृच्छ्रं समाचरेत् ॥६७॥
मानुषास्थीनि संस्पृश्य उपोष्यं शुद्धिकारणम् ।
त्रिरात्रमुक्तं सस्नेहमेकरात्रमतोऽन्यथा ॥६८॥
कारस्कराः पुलिन्दाश्च तथान्धशबरादय ।
पीत्वा चापोभूतिलये गत्वा चैव युगन्धराम् ॥६९॥
सिन्धोरुत्तरपर्य्यन्तं तथा दिव्यन्तरे शतम् ।
पापदेशाश्च ये केचित्पापरध्युषिता जनैः ॥७०॥
शिष्टैश्च वर्जिता ये च ब्राह्मणैर्वेदपारगैः ।
गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते ॥७१॥
मनोव्यक्तिरथाग्निश्च काले चैवोपलेपनम् ।
विख्यापनञ्च शौचानां नित्यमज्ञानमेव च ॥७२॥
अतोन्यथा तु यः कुर्य्यान्मोहाच्छौचस्य सङ्करम् ।
पिशाचान् यातुधानांश्च फलं गच्छत्यसंशयम् ॥७३॥
शौचमश्रद्दधानश्च म्लेच्छजातिषु जायते ।
अयज्ञाश्चैव पापो वा तिर्य्यग्योनिगतोऽपि वा ॥७४॥
शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः ।
शुचिकामा हि देवा वै देवैरेतदुदाहृतम् ॥७५॥
बीभत्समशुचिञ्चैव वर्जयन्ति सुराः सदा ।
त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मणः ॥७६॥
ब्रह्मण्यायातिथेयाय शौचयुक्ताय धीमते ।
पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः ॥७७॥
तैस्तैः प्रीताः प्रयच्छन्ति पितरो योगवर्द्धनाः ।
मनसा कांक्षितान् कामांस्त्रैलोक्यप्रभवानिति ॥७८॥
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP