उत्तरार्धम् - अध्यायः ४८
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥सनत्कुमार उवाच॥
गयायात्रां प्रवक्ष्यामि श्रृणु नारद मुक्तिदाम् ।
निष्कृतिः श्राद्धकर्तॄणां ब्रह्मणा गीयते पुरा ॥१॥
उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कार्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम् ॥२॥
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ॥३॥
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः ।
अहङ्कारविमुक्तो यः स तीर्थफलमश्नुते ॥४॥
यस्य हस्तौ च पादौ च मनश्चापि सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥५॥
ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी ।
तत्र तोयं समुत्पाट्य स्नातव्यं निर्मले जले ॥६॥
देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा यथाविधिः ।
स्ववेदशाखागदितमर्घ्यावाहनवर्जितम् ॥७॥
अपरेऽह्नि शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वते ।
ब्रह्मकुण्डे ततः स्नात्वा देवादींस्तर्पयेत्सुधीः ॥८॥
कुर्य्याच्छ्राद्धं सपिण्डानां प्रयतः प्रेतपर्वते ।
प्राचीनावीतिना भाव्यं दक्षिणाभिमुखः सुधीः ॥९॥
कव्यबालोऽनलः सोमो यमश्चैवार्य्यमा तथा ।
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥१०॥
आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह ।
मदीयाः पितरो ये च कुले जाताः सनाभयः ॥११॥
तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम् ।
ते सर्वे तृप्तिमायान्तु श्राद्देनानेन शाश्वतीम् ॥१२॥
आचम्योक्ताव च पञ्चाङ्गं प्राणायामं प्रयत्नतः ।
पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे ॥१३॥
एवञ्च विधिवच्छ्राद्धं कृत्वा पूर्वं यताक्रमम् ।
पितॄनावाह्य चाभ्यर्च्य मन्त्रैः पिण्डप्रदो भवेत् ॥१४॥
तीर्थे प्रेतशिलादौ च चरुणा सघृतेन वा ।
प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक्पृथक् ।
तैर्मन्त्रैरथ संपूज्य पञ्चगव्यैश्च देवताम् ॥१५॥
यावत्तिला मनुष्यैश्च गृहीता पितृकर्मसु ।
गच्छन्ति तावदसुराः सिंहत्रस्ता यथा मृगाः ॥१६॥
अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि ।
मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥१७॥
वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम् ।
पाद्यपूर्वं समारभ्य दक्षिणाग्रकुशैः क्रमात् ।
पित्रादीनां समास्तीर्य शेषं गृह्योक्तमाचरेत् ॥१८॥
दद्युः श्राद्धं सपिण्डानां तेषां दक्षिणभागतः ।
कुशानास्तीर्यं विधिना सकृद्दत्वा तिलोदकम् ॥१९॥
गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन यत्नतः ।
सक्तुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम् ।
सम्बन्धिनस्तिलाद्भिश्च कुशेष्वावाहयेत्ततः ॥२०॥
आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥२१॥
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥२२॥
पिता पितामह श्चैव तथैव प्रपितामहः ।
माता पितामही चैव तथैव प्रपितामही ॥२३॥
मातामहस्तत्पिता च प्रमातामहकादयः ।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥२४॥
मुष्टिमात्रप्रमाणञ्च ह्यार्द्रामलकमात्रकम् ।
शमीफत्रप्रमाणं वा पिण्डं दद्याद्गयाशिरे ।
उद्धरेत्सप्तगोत्राणि कुलानि शतमुद्धरेत् ॥२५॥
पितुर्मातुः स्वभार्याया भगिन्या दुहितुस्तथा ।
पितृष्वसुर्मातृष्वसुः सप्त गोत्राः प्रकीर्त्तिताः ॥२६॥
चतुर्विंशतिविंशश्च षोडश द्वादशैव हि ।
रुद्रादिवसवश्चैव कुलान्येकोत्तरं शतम् ॥२७॥
नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः ।
न कारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ॥२८॥
पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम् ।
दक्षिणा चान्नसङ्कल्पं तीर्थश्राद्धेष्वयंविधिः ॥२९॥
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
आवाहयिष्ये तान्सर्वान्दर्भपृष्ठे तिलोदकैः ॥३०॥
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते ।
आवाहयिष्ये तान्त्सर्वान् दर्भपृष्ठे तिलोदकैः ॥३१॥
इत्येतैर्मन्त्रैः सजलैस्तिलैर्दर्भेषु ध्यानवान् ।
आवाह्याभ्यर्च्य तेभ्यश्च पिण्डान्दद्याद्यथाक्रमम् ॥३२॥
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥३३॥
मातामहकुले ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥३४॥
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥३५॥
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥३६॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे ।
विद्युच्चोरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥३७॥
दावदाहे मृता ये च सिंहव्याग्रहताश्च ये ।
दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेभ्यः पिण्डं ददाम्यहम् ॥३८॥
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये ।
आत्मापघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥३९॥
अरण्ये वर्त्मनि वने क्षुधया तृषया हताः ।
भूतप्रेतपिशाचाद्यैस्तेभ्यः पिण्डं ददाम्यहम् ॥४०॥
रौरवे चान्धतामिस्रे काल॥सूत्रे च ये गताः ।
तेषामुद्धरणार्ताय इमं पिण्डं ददाम्यहम् ॥४१॥
असिपत्रवने घोरे कुम्भीपाकेषु ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥४२॥
अनेकयातनासंस्थाः प्रेतलोकञ्च ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥४३॥
अनेकयातनासंस्था ये नीता यमकिङ्करैः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥४४॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥४५॥
पशुयोनि गता येच पक्षिकीटसरीसृपाः ।
अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ॥४६॥
जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्म्मणा ।
मानुष्यं दुर्ल्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥४७॥
दिव्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः ।
मृता असंस्कृता ये च तेब्यः पिण्डं ददाम्यहम् ॥४८॥
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम ।
ते सर्व्वे तृप्तिमायान्तु पिण्डेनानेन सर्व्वदा ॥४९॥
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥५०॥
पितृवंशे मृता ये च मातृवंशे च ये मृताः ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥५१॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥५२॥
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥५३॥
आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः ।
कुलद्वये ये मम दासभूता भृत्या स्तथैवाश्रितसेवकाश्च ॥५४॥
मित्राणि शिष्याः पशवश्च वृक्षा दृष्टा ह्यदृष्टाश्च कृतोपकाराः ।
जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ॥५५॥
एतैश्च सर्व्वमन्त्रैस्तु स्त्रीलिङ्गान्तं समूह्य च ।
पिण्डान्दद्याद्यथापूर्व्वं स्त्रीणां मात्रादिकक्रमात् ॥५६॥
स्वगोत्रे परगोत्रे वा दम्पत्योः पिण्डपातनम् ।
अपृथङ् निष्फलं श्राद्धं पिण्डञ्चोदकतर्पणम् ॥५७॥
पिण्डपात्रे तिलान्क्षिप्त्वा पूरयित्वा शुभोदकैः ।
परिषिच्य त्रिधा सर्वान् प्रणिपत्य समापयेत् ॥५८॥
पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् ।
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ।
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥५९॥
आगतोऽस्मि गयां देव पितृकार्य्ये गदाधर ।
त्वमेव साक्षी भगवन्ननृणोऽहमृणत्रयात् ॥६०॥
सर्व्वस्थानेषु चैवं स्यात् पिण्डदानन्तु नारद ।
प्रेतपर्व्वतमारभ्य कुर्य्यात्तीर्थेषु च क्रमात् ॥६१॥
तिलमिश्रांस्ततः सक्तून्निःक्षिपेत्प्रेतपर्व्वते ।
अपसव्येन देवर्षे दक्षिणाभिमुखेन च ॥६२॥
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम ।
ते सर्व्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः ॥६३॥
आब्रह्मस्तम्बपर्य्यन्तं यत्किञ्चित्सचराचरम् ।
मया दत्तेन तोयेन तृप्तिमायान्तु सर्व्वशः ॥६४॥
प्रेतत्वाच्च विमुक्ताः स्युः पितरस्तस्य नारद ।
प्रेतत्वं तस्य माहात्म्यात्कुले चापि न जायते ॥६५॥
नाम्ना प्रेतशिला ख्याता गयाशिरसि मुक्तये ।
तीर्थमन्त्रादिरूपेण स्थित श्चादिगदाधरः ॥६६॥
इति श्रीवायुपुराणे वायुप्रोक्ते गयामाहात्म्यं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP