उत्तरार्धम् - अध्यायः ४१
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥ऋषय ऊचुः॥
॥सूत सुमहदाख्यानं भवता परिकीर्तितम् ।
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ॥१॥
पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् ।
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥२॥
अत्यद्भुतानि कर्म्माणि विधिमान्धर्म्मनिश्चयः ।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥३॥
तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा ।
मनःकर्मसुखं सौते प्रीणात्याभूतसम्भवम् ॥४॥
एवमाराध्य ते॥सूतं सत्कृत्य च महर्षयः ।
पप्रच्छुः सत्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ॥५॥
कथं॥सूत महाप्राज्ञ पुनं सर्गः प्रपत्स्यते ।
बन्धेषु सम्प्रलीनेषु गुणसाम्ये तमोमये ॥६॥
विकारेष्वविसृष्टोषु ह्यव्यक्ते चात्मनि स्थिते ।
अप्रवृत्तौ ब्रह्मणस्तु महासायुज्यगैस्तदा ।
कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ॥७॥
एवमुक्तस्ततः॥सूतस्तदासौ लोमहर्षणः ।
व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् ॥८॥
अहं वौ वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते ।
पूर्ववत्स तु विज्ञेयः समासात्तं निबोधत ॥९॥
दृष्टं चैवानुमेयञ्च तर्कं वक्ष्यामि युक्तितः ।
तस्माद्वाचो निवर्त्तन्ते ह्यप्राप्य मनसा सह ॥१०॥
अव्यक्तवत् परोक्षत्वाद्घ्रहणं तद्दुरासदम् ।
विकारैः प्रतिसंदृष्टे गुणसाम्ये निवर्त्तते ॥११॥
प्रधानं पुरुषाणाञ्च साधर्म्म्येणैव तिष्ठति ।
धर्म्माधर्म्मौ प्रलीयेते अव्यक्तौ प्राणिनां सदा ॥१२॥
सत्त्वमात्रात्मको धर्म्मो गुणसत्त्वे प्रतिष्ठितः ।
तमोमात्रात्मकोऽधर्म्मो गुणे तमसि तिष्ठति ॥१३॥
अविभागवतावेतौ गुणसाम्यस्थितावुभौ ।
सर्वकार्य्ये बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ॥१४॥
अबुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान् गुणान् ।
एवं तानभिमानेन प्रपत्स्येत पुरस्तदा ॥१५॥
यदा प्रवर्त्तितव्यन्तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः ।
भोज्यभोक्तृत्वसम्बन्धं प्रपत्स्येते युतावुभौ ॥१६॥
तस्माच्छरणमव्यक्तं साम्ये स्थित्वा गुणात्मकान् ।
क्षेत्रज्ञाधिष्ठितं तच्च वैषम्यं भजते तु तत् ॥१७॥
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः ।
क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ॥१८॥
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् ।
क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रपत्स्यते ॥१९॥
ब्रह्माण्डे प्रथमः सोऽथ भविता चेश्वरः पुनः ।
ततो ज्ञेयस्य कृत्स्नस्य सर्वभूतपतिः शिवः ॥२०॥
ईश्वरः सर्व्वमुक्तानां ब्रह्मा ब्रह्ममयो महान् ।
आदि देवः प्रधानस्यानुग्रहाय प्रवक्ष्यते ॥२१॥
अनाद्यौ स्वयमुत्पन्नावुभौ सूक्ष्मौ तु तौ स्मृतौ ।
अनादिसंयोगयुतौ सर्वक्षेत्रज्ञमेव च ॥२२॥
अबुद्धि पूर्वकं युक्तौ मशकौ तु वरौ तदा ।
अप्रत्ययमनाद्यं च स्थितावुदकमप्स्यशः ॥२३॥
प्रवृत्ते पूर्वतः पूर्वं पुनः सर्गे प्रपत्स्यते ।
अज्ञागुणैः प्रवर्त्तन्ते रजःसत्त्वतमात्मकम् ॥२४॥
प्रवृत्तिकाले रजसाभिपन्नमहत्त्वभूतादिविशेष्यताञ्च ।
विशेषतां चेन्द्रियताञ्च यान्ति गुणावसाने पतिभिर्मनुष्याः ॥२५॥
सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् ।
रजःसत्त्वतमा व्यक्ता विधर्म्माणः परस्परम् ॥२६॥
आद्यन्ते संप्रपत्स्यन्ते क्षेत्रतज्ज्ञास्तु सर्वशः ।
संसिद्धकार्य्यकरणा उत्पद्यन्तेऽभिमानिनः ॥२७॥
सर्वे सत्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च ।
प्र॥सूते या च सुवहाः साधिकाश्चाप्यसाधिका ॥२८॥
संसरन्तस्तु ते सर्वे स्तानप्रकरणैः सह ।
कार्य्याणि प्रतिपत्स्यन्ते उत्पद्यन्ते पुनः पुनः ॥२९॥
गुणमात्रात्मकाश्चैव धर्म्माधर्म्मौ परस्परम् ।
आरप्सन्तीह चान्योन्यं वरेणानुग्रहेण च ॥३०॥
सर्वे तुल्याः प्रसृष्टार्थं सर्ग्गदौ यान्ति विक्रियाम् ।
गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ॥३१॥
गुणास्ते यानि सर्वाणि प्राक् दृष्टेः प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृष्टमानाः पुनः पुनः ॥३२॥
हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥३३॥
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु ।
विप्रयोगाश्च भूतानां युणोभ्यः संप्रवर्त्तते ॥३४॥
इत्येष वो मया ख्यातः पुनः सर्गः समासतः ।
समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥३५॥
अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात् ।
प्रधान पुरुषाभ्यान्तु जायते च महेश्वरः ॥३६॥
स पुनः सम्भावयिता जायते ब्रह्मसंज्ञितः ।
सृजते स पुनर्लोकानभिमानगुणात्मकान् ॥३७॥
अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः ।
युगपत् सम्प्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च ।
भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते ॥३८॥
विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् ।
कीर्त्तितं वो यथा पूर्वं तथैवाभ्युपधार्य्यताम् ॥३९॥
एतच्छ्रुत्वा नैमिषेयास्तदानीं लोकोत्पत्तिं संस्थितिं च व्ययञ्च ।
तस्मिन् सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥४०॥
यथा यूयं विधिवद्देवतादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ।
त्यक्त्वा देहानायुषोऽन्ते कृतार्थान्पुण्याँल्लोकान्प्राप्य यथेष्टं चरिष्यथ ॥४१॥
एते ते नैमिषेया वै इष्ट्वा सृष्ट्वा च वै तदा ।
जग्मुश्चावभृधस्नाताः स्वर्गं सर्वे तु सत्रिणः ॥४२॥
विप्रास्तथा यूयमपि चेष्ट्वा बहुविधैर्मखैः ।
आयुषोऽन्ते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥४३॥
प्रक्रिया प्रथमे पादे कथावस्तुपरिग्रहः ।
अनुषङ्ग उपोद्वात उपसंहार एव च ॥४४॥
एवमेतच्चतुष्पादं पुराणं लोकसम्मतम् ।
उवाच भगवान् साक्षाद्वायुर्लोकहिते रतः ॥४५॥
नैमिषे सत्रमासाद्य मुनिभ्यो मुनिसत्तमाः ।
तत्प्रसादादसंदिग्धं भूतोत्पत्तिलयानि च ॥४६॥
प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम् ।
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ॥४७॥
इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम् ।
श्रृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ॥४८॥
स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः ।
ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ॥४९॥
तेषां कीर्त्तिमतां कीर्त्तिं प्रजेशानां महात्मनाम् ।
प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥५०॥
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मतम् ।
कृष्णद्वैपायनेनोक्तं पुराणं ब्रह्मवादिना ॥५१॥
मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम् ।
देवतानामृषीणाञ्च भूरिद्रविणतेजसाम् ।
स सर्वैर्मुच्यते पापैः पुण्यञ्च महदाप्नुयात् ॥५२॥
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ॥५३॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षयं सार्वकामीयं पितॄंस्तच्चोपतिष्ठति ॥५४॥
यस्मात्पुरा ह्यनन्तीदं पुराणं तेन चोच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥५५॥
तथैव त्रिषु वर्णेषु ये मनुष्याः प्रधानतः ।
इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् ॥५६॥
यावन्त्यस्य शरीरेषु रोमकूपाणि सर्वशः ।
तावत्कोटि सहस्राणि वर्षाणां दिवि मोदते ।
ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ॥५७॥
सर्व्वपापहरं पुण्यं पवित्रञ्च यशस्वि च ।
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ॥५८॥
तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः ।
बृहस्पतिस्तु प्रेवाच सवित्रे तदनन्तरम् ॥५९॥
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः ।
इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥६०॥
सारस्वतस्त्रिधाम्ने च त्रिधामा च शरद्वते ।
शरद्वतस्त्रिविष्टाय सोऽन्तरिक्षाय दत्तवान् ॥६१॥
वर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च ।
त्रय्यारुणो धनञ्जये स च प्रादात्कृतञ्जये ॥६२॥
कृत ञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ ।
गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ॥६३॥
निर्यन्तरस्तु प्रोवाच तथा वाजश्रवाय च ।
स ददौ सोमशूष्माय स ददौ तृणबिन्दवे ॥६४॥
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये ।
शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥६५॥
पराशराज्जातुकर्णस्तस्माद्द्वैपायनः प्रभुः ।
द्वैपायनात्पुनश्चापि मया प्राप्तं द्विजोत्तमाः ॥६६॥
शांशपायन उवाच॥
मया वै तत्पुनः प्रोक्तं पुत्रायामितबुद्धये ।
इत्येव वाचा ब्रह्मादिगुरुणा समुदाहृता ॥६७॥
नमस्कार्य्यश्च गुरवः प्रयत्नेन मनीषिभिः ।
धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥६८॥
पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा ।
नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ॥६९॥
नाश्रद्दधानाविदुषे नापुत्राय कथञ्चन ।
नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥७०॥
अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमन्तर्गतञ्च ।
वह्निं वक्रं चन्द्र सूर्य्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुम् ॥७१॥
वायो वेदांश्चान्तरिक्षं शरीरं क्षितिं पादौ तारका रोमकूपान् ।
सर्वाणि चाङ्गानि तथैव तानि विद्यास्सर्वा यस्य पुच्छं वदन्ति ॥७२॥
तं देवदेवं जननं जनानां सर्व्वेषु लोकेषु प्रतिष्ठितञ्च ।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥७३॥
इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिवर्णनं नाम एकचत्वारिंशोऽध्यायः ॥४१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP