उत्तरार्धम् - अध्यायः ४५
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥नारद उवाच॥
कथं शिला समुत्पन्ना ययाक्रान्तो गयासुरः ।
किं रूपं किं च माहात्म्यं तस्याः किं वद नाम च ॥१॥
।॥सनत्कुमार उवाच॥
आसीद्धर्म्मो महातेजाः सर्व्वविज्ञानपारगः ।
विश्वरुपा च तत्पत्नी भर्त्तृव्रतपरायणा ॥२॥
तस्यां धर्म्मव्रतायास्तु कन्या धर्म्मव्रता सती ।
सर्व्व लक्षणसम्पन्ना लक्ष्मीरिव गुणाधिका ॥३॥
तस्यां ये तु गुणा ह्यासंस्ते तिष्ठन्ति जगत्र्त्रये ।
धर्म्मो धर्म्मव्रतायास्तु त्रिषु लोकेषु मार्गयन् ॥४॥
नानु रूपं वरं लेभे धर्म्मोऽथ वरसिद्धये ।
तपः कुरु वरार्थं त्वं तथेत्युक्त्वा वनं ययौ ॥५॥
कन्या सा च तपस्तेपे सर्व्वेषां दुष्करञ्च यत् ।
वायुभक्षा श्वेतकल्पे युगानामयुतं पुरा ॥६॥
ब्रह्मणो मानसः पुत्रो मरीचिर्नाम विश्रुतः ।
पर्य्यटन्पृथिवीं सर्व्वां कन्यारत्नं ददर्श सः ॥७॥
रूपयौवनसम्पन्नां परमे तपसि स्थिताम् ।
पप्रच्छाथ मरीचिस्तां का त्वं कस्यापि तद्वद ॥८॥
रूपेणानेन मां भीरु विमोहयसि सुव्रते ।
ब्रह्मात्मजोऽहं विख्यातो मरीचिर्व्वेदपारगः ॥९॥
मरीचेर्व्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम् ।
अहं धर्म्मव्रता नाम धर्म्मपुत्री तपोऽन्विता ॥१०॥
पतिव्रतार्थं विप्रेन्द्र चरामि परमं तपः ।
धर्म्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्व्व्कम् ॥११॥
पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते ।
पतिव्रतेच्छया पृथ्वीं विचरामि ह्यहर्निशम् ॥१२॥
त्वञ्चेत्पतिव्रता जाता भजे त्वां भज मां वरम् ।
लोके न त्वादृशी कन्या मम तुल्यो न ते वरः ॥१३॥
धर्म्मव्रते धर्म्मपत्नी तस्मात्त्वं भव मेऽधुना ।
धर्म्मव्रता मुनिं प्राह धर्म्मं याचय सुव्रत ॥१४॥
तच्छ्रुत्वा धर्म्ममगमन्मुनिं धर्मो ददर्श ह ।
तेजःपुञ्जं वरं नत्वा आसनार्घ्यादिनार्च्चयत् ॥१५॥
किमर्तमागतः पृष्टो मरीचिर्धर्म्ममब्रवीत् ।
कन्यार्थं भ्रमता पृथ्वी दृष्टा ते कन्यका वरा ।
मह्यं कन्याञ्च तां देहि श्रेयस्तव भविष्यति ॥१६॥
अर्घ्यादिना समभ्यर्च्य धर्म्मं प्रोचे तथेति तम् ।
धर्म्मव्रतां समानीय दत्तवांस्तां मरीचये ॥१७॥
वरं च दत्तवांस्तस्मै तद्वाक्यं यत्तथा कृतम् ।
अग्निहोत्रेण सहितां स्वाश्रमं तां द्विजोऽनयत् ॥१८॥
रेमे मुनिस्तया सार्द्धं यथा विष्णुः श्रिया सह ।
पार्व्वत्या च यथा शम्भुः सरस्वत्या यथा ह्यजः ॥१९॥
जज्ञे पुत्रशतं तस्यां मरीचेर्विष्णुनोपमम् ।
मरीचिः फलपुष्पार्थं वनं गत्वा समागतः ॥२०॥
श्रान्तः कदाचित्तां पत्नीमुवाचेति पतिव्रताम् ।
भुक्त्वा तु शयनस्थस्य पादसंवाहनं कुरु ॥२१॥
धर्म्मव्रता तथेत्युक्त्वा शयनस्थस्य सा मुनेः ।
पादसंवाहनं चक्रे घृते नाभ्यज्य तत्परा ॥२२॥
निद्रायमाणेऽथ मुनौ ब्रह्मा तं देशमागतः ।
इत्येष दृष्ट्वा ब्रह्माणं मनसार्च्चयितुं प्रभुम् ॥२३॥
पादसंवाहनं कुर्य्यां किं पूज्योऽयं जगद्गुरुः ।
इत्याकुला समुत्तस्थौ मत्वा सा तं गुरोर्गुरुम् ॥२४॥
अर्घ्यपाद्यादिकं दत्त्वा ब्रह्माणं समपूजयत् ।
सत्कृतायान्तु शय्यायां विश्राममकरोदजः ॥२५॥
एतस्मिन्नन्तरे भर्त्ता समुत्तस्थौ च तल्पतः ।
धर्म्मव्रतामपश्यन्स विप्रः क्रुद्धः शशाप ताम् ॥२६॥
पादसंवाहनं त्यक्त्वायस्मादाज्ञां विहाय मे ।
गतान्यत्र ततः पापाच्छापदग्धा शिला भव ॥२७॥
भर्त्रा धर्म्मव्रता शप्ता मरीचिं प्राह सा रुषा ।
शयाने त्वयि संप्राप्ते ब्रह्मा त्वज्जनको गुरुः ॥२८॥
त्वयोत्थाय हि कर्त्तव्यं स्वगुरोः पूजनं सदा ।
मया तु धर्म्मचारिण्या तव कार्य्ये कृते मुने ॥२९॥
अदोषाहं यतः शप्ता तस्माच्छापं ददामि ते ।
त्वञ्च शापं महादेवाद्भर्त्तः प्राप्स्यस्यसंशयम् ॥३०॥
व्याकुलं तं पतिं दृष्ट्वा व्याकुलागात्प्रजापतिम् ।
नत्वा शयानं ब्रह्माणमग्निं प्रज्वाल्य चेन्धनैः ॥३१॥
गार्हपत्ये स्थिता चक्रे तपः परमदुष्करम् ।
तथा शप्तो मरीचिश्च तपस्तेपे सुदारुणम् ॥३२॥
पतिव्रतायास्तपसा मरीचेस्तपसा यथा ।
इन्द्रादयश्च सन्तप्ता गतास्ते शरणं हरिम् ॥३३॥
ऊचुः क्षीराम्बूदौ सुप्तं सन्तप्तास्तपसा हरे ।
पतिव्रतायाश्च मुनेस्त्रैलोक्यं रक्ष केशव ॥३४॥
इन्द्रादीनां वचः श्रुत्वा विष्णुर्धर्म्मव्रतां ययौ ।
एतस्मिन्नेव काले तु प्रबुद्धो भगवानजः ।
ऊचुर्धर्म्मर्वतां देवा अग्निस्थां तां सकेशवाः ॥३५॥
अग्निमध्ये तपः कर्त्तुं कस्य शक्तिः पतिव्रते ।
त्वया कृतं तत्परमं सर्व्वलोकभयङ्करम् ॥३६॥
वरं वरय धर्म्मज्ञे अस्मत्तो यदभीप्सितम् ।
विष्ण्वादीनां वचः श्रुत्वा देवान्धर्म्मव्रताब्रवीत् ॥३७
भर्तृशापमशक्ताहं निवर्त्तयितुमोजसा ।
दत्तो मरीचिना शापो मह्यं स ह्यपगच्छतु ॥३८॥
धर्म्मव्रतावचः श्रुत्वा प्रोचुरेतां सुराः पुनः ।
धर्म्मव्रते धर्म्मपुत्रि शापोऽयं परमर्षिणा ॥३९॥
दत्तस्ते न निराकर्त्तुं शक्यो देवद्विजातिभिः ।
तस्मादन्यं वरं ब्रूहि यतो धर्म्मस्य संस्थितिः ॥४०॥
भवेद्वै त्रिषु लोकेषु वेदोक्तस्य शुभव्रते ।
देवानां वचनं श्रुत्वा देवान्धर्म्मव्रताब्रवीत् ॥४१॥
भर्त्तुः शापान्मोचयितुं न शक्ताश्च यदामराः ।
मह्यं वरं प्रयच्छध्वमेवंविधमनुत्तमम् ॥४२॥
शिलाहं हि भविष्यामि ब्रह्माण्डे पावनी शुभा ।
नदीनदसरस्तीर्थदेवादिभ्योऽतिपावनी ॥४३॥
॥ऋष्यादिभ्यो मुनुभ्यश्च मुख्यदेवेभ्य एव च ।
त्रैलोक्ये यानि लिङ्गानि व्यक्ताव्यक्तात्मकान्यपि ।
तानि तिष्ठन्तु मद्देहे तीर्थरूपेण सर्व्वदा ॥४४॥
तीर्थान्यपि च सर्व्वाणि नक्षत्रप्रमुखास्तथा ।
तिष्ठन्तु देवाः सकला देव्यश्च मुनयस्तथा ॥४५॥
ब्रह्मा विष्णुश्च रुद्रश्च लक्षयित्वा पदं मयि ।
पञ्चाग्नयः कुमाराद्या बहुरुपेण संस्थिताः ॥४६॥
मूर्त्तामूर्त्तस्वरूपेण पदरूपेण देवताः ।
शिलायां क्रोशमात्रेण मूर्त्तिरूपाः स्थिता भुवि ॥४७॥
तां दृष्ट्वा सर्व्वलोकश्च महापातकनाशिनीम् ।
पूतो धर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥४८॥
शिलास्थितेषु तीर्थषु स्नात्वा कृत्वाथ तर्पणम् ।
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ॥४९॥
गदाधरो दृश्यतीर्थं सर्व्वतीर्थोत्तमोत्तमम् ।
स्थास्यन्ति च मरिष्यन्ति यान्तु ब्रह्मपुरीं नराः ।
वाराणसी प्रयागश्च पुरुषोत्तमसंज्ञकम् ॥५०॥
गङ्गासागरसंज्ञञ्च नित्यं तिष्ठतु फल्गुनि ।
गदाधराधिष्ठितं तत्सर्व्वतीर्थोत्तमोत्तमम् ।
मुक्तिर्भवेत् पितॄणां च मृतानां श्राद्धतः सदा ॥५१॥
जरायुजाण्डजा वापि स्वेदजा वापि चोद्भिदः ।
त्यक्त्वा देहं शिलायान्ते यान्तु विष्णुस्वरूपताम् ॥५२॥
यथार्च्चिते हरौ सर्व्वे यज्ञाः पूर्णा भवन्ति हि ।
तथा श्राद्धं तर्पणञ्च स्नानं चाक्षयमस्त्विह ॥५३॥
मम देहे सुरेशानां ये जपन्ति श्रुतादिकम् ।
अचिरेणापि ते सिद्धाः सिद्धिभाजो भवन्तु वै ॥५४॥
पितॄणां कुलसाहस्रमात्मना सहितं नरः ।
श्राद्धादिना समुद्धृत्य विष्णुलोकं नयेद्ध्रुवम् ॥५५॥
यावत्यो हि सरिच्छ्रेष्ठा गङ्गाद्याश्च ह्रदाः शुभाः ।
समुद्राद्याः सरोमुख्या मानसाद्याः सुरेश्वराः ।
नृणां श्राद्धं विदधतो मुक्तये निवसन्तु मे ॥५६॥
शरीरेण समायान्तु क्वचिन्नो यान्तु देवताः ।
एको विष्णुस्त्रिधामूर्त्तिर्यावत्सङ्कीर्त्यते बुधैः ॥५७॥
तावच्छिलायां सर्व्वाणि तीर्थानि सह दैवतैः ।
सदा तिष्ठन्तु मुनयो गन्धर्व्वाणां गणाश्च ये ॥५८॥
सर्व्वदेवस्वरूपा च नामेयं देवरूपिणी ।
यावत्तिष्ठति ब्रह्माण्डं तावत्तिष्ठतु वै शिला ।
मम देहेऽश्मरूपे च ये जपन्ति तपन्ति च ॥५९॥
जुहोत्यग्नौ च तेषां वै तदक्षय्योपतिष्ठताम् ।
अक्षयन्तु भवेच्छ्राद्धं जपहोमतपांसि च ।
शिलापर्व्वतरूपेण मयि तिष्ठतु सर्व्वदा ॥६०॥
पतिव्रतावचः श्रुत्वा देवाः प्रोचुः पतिव्रताम् ।
त्वया यत्प्रार्थितं सर्व्वं तद्भविष्यत्यसंशयम् ॥६१॥
गयासुरस्य शिरसि भविष्यसि यदा स्थिरा ।
तदा पादादिरूपेण स्थास्यामस्त्वयि सुस्थिराः ।
वरं शिलायै दत्त्वैवं तत्रैवान्तर्द्दधुः सुराः ॥६२॥
इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP