उत्तरार्धम् - अध्यायः ४०
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥सूत ऊवाच॥
प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयम्भुवः ।
ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥१॥
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ।
अव्यक्तान्ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥२॥
परं तदनुकल्पानामपूर्णे कल्पसङ्क्षये ।
उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥३॥
अन्ते द्रुमस्य यम्प्राप्ते पश्चिमस्य मनोस्तदा ।
अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते ॥४॥
सम्प्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते ।
प्रत्याहारे तदा तस्मिन् भूततन्मात्रसंक्षये ॥५॥
महदादेर्विकारस्य विशेषान्तस्य संक्षये ।
स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसञ्चरे ॥६॥
आपो ग्रसन्ति वै पूर्व्वं भूमेर्गन्धात्मकं गुणम् ।
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ।
प्रविष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ॥७॥
आपस्तदा प्रनष्टा वै वेगवत्यो महास्वनाः ।
सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ॥८॥
अपामस्ति गुणो यस्तु ज्योतिषे लीयते रसः ।
नश्यन्त्यापस्तदान्ते च रसतन्मात्रसङ्क्षयात् ॥९॥
तेजसा संहृतरसा ज्योतिष्ट्वं प्राप्नुवन्त्युत ।
ग्रस्ते च सलिले तेजः सर्व्वतोमुखमीक्ष्यते ॥१०॥
अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलन्तदा ।
सर्वमापूर्य्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ॥११॥
अर्चिर्भिः सन्तते तस्मिंस्तिर्यगूर्द्ध्वमधस्ततः ।
ज्योतिषोऽपि गुणं रूपं वायुरन्ति प्रकाशकम् ।
प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ॥१२॥
प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ।
उपशाम्यति तेजो हि वायुना धूयते महत् ॥१३॥
निरालोके तदा लोके वायुभूते च तेजसि ।
ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः ॥१४॥
ऊर्द्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश ।
वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ॥१५॥
प्रशाम्यति तदा वायुः खन्तु तिष्ठत्यनावृतम् ।
अरूपमरसस्पर्घमगन्धं न च मूर्तिमत् ॥१६॥
सर्वमापूरयन्नादैः सुमहत्तत्प्रकाशते ।
परिमण्डलन्तत्सुषिरमाकाशं शब्दलक्षणम् ॥१७॥
शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति ।
तन्तु शब्दगुणन्तस्य भूतादिं ग्रसते पुनः ॥१८॥
भूतेन्द्रियेषु युघपद्भूतादौ संस्थितेषु वै ।
अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ॥१९॥
भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः ।
महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ॥२०॥
बुद्धिर्मनश्च लिङ्गश्च महानक्षर एव च ।
पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्वचिन्तकाः ॥२१॥
सम्प्रलीनेषु भूतेषु गुणसाम्ये तमोमये ।
स्वात्मन्येव स्थिते चैव कारणे लोककारणे ॥२२॥
विनिवृत्ते तदा सर्गे प्रकृत्यावस्थितेन वै ।
तदाद्यन्तपरोक्षत्वा ददृष्टत्वाच्च कस्यचित् ॥२३॥
अनाख्यानादबोधत्वादज्ञानाज्ज्ञानिनामपि ।
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥२४॥
भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते ।
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मिके ॥२५॥
अनिर्द्देश्या प्रवृत्तिर्वै स्वात्मिका कारणे न तु ।
एवं सप्तादयोऽभ्यस्तात्क्रमात्प्रकृतयस्तु वै ॥२६॥
प्रत्याहारे तदा सर्गे प्रविश्यन्ति परस्परम् ।
येनेदमावृतं सर्वं मण्डलन्तु प्रलीयते ॥२७॥
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।
उदकावरणं यच्च ज्योतिषां लीयते तु तत् ॥२८॥
यत्तैजसं चावरणमाकाशं ग्रसते तु तत् ।
यद्वायव्यं चावरणमाकाशं ग्रसते तु तत् ॥२९॥
आकाशावरणं यच्च भूतादिर्ग्रसते तु तत् ।
भूतादिं ग्रसते चापि महान्वै बुद्धि लक्षणः ॥३०॥
महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम् ।
एतौ संहारविस्तारौ ब्रह्माव्यक्तौ ततः पुनः ॥३१॥
सृजते ग्रसते चैव विकारान्सर्गसंयमे ।
संहारकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥३२॥
गत्वा जवञ्जवीभावे स्थानेष्वेषु प्रसंयमान् ।
प्रत्याहारे वियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥३३॥
अव्यक्तं क्षेत्रमित्याहुर्ब्रह्म क्षेत्रज्ञ उच्यते ।
साधर्म्यवैधर्म्मकृतसंयोगोऽनादिमांस्तयोः ॥३४॥
एवं सर्गेषु विज्ञेयं क्षेत्रज्ञेष्विह ब्राह्मणाः ।
ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक्पृथक् ॥३५॥
विषयाविषयत्वञ्च क्षेत्रक्षेत्रज्ञयोः स्मृतम् ।
ब्रह्मा तु विषयो ज्ञेयोऽविषयः क्षेत्रमुच्यते ॥३६॥
क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते ।
बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥३७॥
अव्यूहा शङ्कराच्चैव ज्योतिर्वच्च व्यवस्थितः ।
यस्मात्प्रतिशरीरं हि सुखदुःखोपलब्धिता ।
तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ॥३८॥
यदा प्रवर्त्तते चैषां भेदानां चैव संयमाः ।
स्वभावकारिताः सर्वे कालेन महता तदा ॥३९॥
निवर्त्तते तदा तस्य स्थितिरागः स्वयम्भुवः ।
सहसा योज्यकैः सर्वैर्ब्रह्मलोक निवासिभिः ॥४०॥
विनिवृत्ते तदा रागे स्थितावात्मनिवासिनाम् ।
तत्कालवासिनां तेषां तदा तद्दोषदर्शिनाम् ॥४१॥
उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम् ।
भोज्यभोक्तृत्वनानात्वे तेषां तद्भवदर्शिनाम् ॥४२॥
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः ।
प्रकृतौ करणा नीताः सर्वे नानाप्रदर्शिनः ॥४३॥
स्वात्मन्येवावतिष्ठन्ते प्रशान्ता दर्शनात्मकाः ।
शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ॥४४॥
तत्रैव परिनिर्वाणाः स्मृता नागामिनस्तु ते ।
निर्गुणत्वानिरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ॥४५॥
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयम्भुवः ।
भिद्यन्ते सर्वभूतानां करणानि प्रसंयमे ॥४६॥
इत्येष संयमश्चैव तत्त्वानां करणैः सह ।
तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्त्तको द्विजाः ॥४७॥
॥सूत उवाच॥
धर्माधर्मौ तपो ज्ञानं शुभे सत्यानृते तथा ।
ऊर्द्ध्व भावो ह्यधोभावो सुखदुःखे प्रियाप्रिये ॥४८॥
सर्वमेतत्प्रयातस्य गुणमात्रात्मकं स्मृतम् ।
निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ॥४९॥
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति ।
योन्यवस्था स्वभावे च देहिनां तु निषिच्यते ॥५०॥
जन्तूनां पापपुण्यन्तु प्रकृतौ यत्प्रतिष्ठितम् ।
अव्यक्त स्थानि तान्येव पुण्यपापानि जन्तवः ।
ये जयन्ति पुनर्देहे देहान्यत्वे तथैव च ॥५१॥
धर्माधर्मौ तु जन्तूनां गुणमात्रात्मकावुभौ ।
करणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ॥५२॥
सुचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः ।
सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः ।
संयुज्यन्ते वियुज्यन्ते करणैः सञ्चरन्ति च ॥५३॥
राजसी तामसी चैव सात्विकी चैव वृत्तयः ।
गुणमात्राः प्रवर्त्तन्ते पुरुषाधिष्ठितास्त्रिधा ॥५४॥
ऊर्द्ध्वं देवात्मकं सत्त्वमधोभागात्मकं तमः ।
तयोः प्रवर्त्तकं मद्ये इहैवावर्त्तकं रजः ॥५५॥
इत्येवं परिवर्त्तन्ते त्रयः स्रोतोगुणात्मकाः ।
लोकेषु सर्वभूतानां तन्न कार्यं विजानता ॥५६॥
अविद्याप्रत्ययारम्भा आरभ्यन्ते हि मानवैः ।
एतास्तु गतयस्तिस्रः शुभाः पापात्मिकाः स्मृताः ॥५७॥
तम साभिभवाज्जन्तुर्याथातथ्यं न विन्दति ।
अतत्द्दर्शनात्सोऽथ त्रिविधं बध्यते ततः ॥५८॥
प्राकृतेन च बन्धेन तथा वैकारिकेन च ।
दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्त्तते ॥५९॥
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः ।
अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ॥६०॥
अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः ।
येषामेते मनोदोषा ज्ञानदोषा विपर्य्ययात् ॥६१॥
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम् ।
अज्ञानं तमसो मूलं कर्म्मद्वयफलं रजः ।
कर्म्मजस्तु पुनर्देहो महादुःखं प्रवर्त्तते ॥६२॥
श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणतस्तथा ।
पुनर्भवकरी दुःखा कर्म्मणां जायते तु सा ॥६३॥
सतृष्णोऽभिहितो बालः स्वकृतैः कर्म्मणः फलैः ।
तैलपालीकवज्जीवस्तत्रैव परि वर्त्तते ॥६४॥
तस्मात्स्थूलमनर्थानामज्ञानमुपदिश्यते ।
तं शक्तमवधार्य्यैकं ज्ञाने यत्नं समाचरेत् ॥६५॥
ज्ञानाद्विजयते सर्वं त्यागाद्बुद्धिर्विरज्यते ।
वैराग्याच्छुद्ध्यते चापि शुद्धः सत्त्वेन मुच्यते ॥६६॥
अत ऊर्द्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम् ।
अभिषङ्गाय यो यस्माद्विषयोऽप्यवशात्मनः ॥६७॥
अनिष्टमभिषङ्गं हि प्रीतितापविषादनम् ।
दुःखलाभे न तापञ्च सुखानुस्मरणं तथा ॥६८॥
इत्येष वैषयो रागः सम्भूत्याः कारणं स्मृतम् ।
ब्रह्मादौ स्थावरान्ते वै संसारे ह्याधिभौतिके ।
अज्ञानपूर्वकं तस्मादज्ञानन्तु विवर्जयेत् ॥६९॥
यस्य चार्षं न प्रमाणं शिष्टाचारं तथैव च ।
वर्णाश्रमविरोधी यः शिष्टशास्त्रविरोधकः ॥७०॥
एष मार्गो हि निरधितिर्यग्योनौ च कारणम् ।
तिर्यग्योनिगतञ्चैव कारणं स निरुच्यते ॥७१॥
विविधा यातना स्थाने तिर्यग्योनौ च षड्विधे ।
कारणे विषये चैव प्रतिघातस्तु सर्वशः ॥७२॥
अनैश्वर्य्यन्तु तत्सर्वं प्रतिघातात्मकं स्मृतम् ।
इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ॥७३॥
सत्त्वस्थमात्रकं चित्तं यथा सत्त्वप्रदर्शनात् ।
तत्त्वानाञ्च तथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ॥७४॥
सत्त्वक्षेत्रज्ञनानात्वमेतज्ज्ञानार्थदर्शनम् ।
नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योगमुच्यते ॥७५॥
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ।
संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ॥७६॥
निःसम्बन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते ।
स्वात्मव्यवस्थितश्चापि विरूपाख्येन लिख्यते ॥७७॥
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञानमोक्षयो ।
स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ॥७८॥
पूर्वं वियोगो ज्ञानेन द्वितीयो रागसंक्षयात् ।
लिङ्गाभावात्तु कैवल्यं कैवत्यात्तु निरञ्जनम् ॥७९॥
निरञ्जनत्वाच्छुद्धस्तु ततो नेता न विद्यते ।
तृष्णाक्षयात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ॥८०॥
निमित्तमप्रतीघाते इष्टशब्दादिलक्षणे ।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥८१॥
क्षेत्रज्ञेष्ववसज्यन्ते गुणमात्रात्मकानि तु ।
अत उर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ॥८२॥
दिव्ये च मानुषे चैव विषये पञ्चलक्षणे ।
अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ॥८३॥
तापप्रीतिविषादानां कार्य्यन्तु परिवर्जनम् ।
एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ॥८४॥
अनित्यमशिवं दुःखमिति बुद्ध्यानुचिन्त्य च ।
विशुद्धं कार्य्यकरणं सत्वाभ्येति तरान्तु यः ॥८५॥
परिपव्ककषायो हि कृत्स्नान्दोषान्प्रपश्यति ।
ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ॥८६॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ॥८७॥
प्राणस्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च ।
शैत्यात्प्रकुपितो वायुरूर्द्ध्वन्तु क्रमते ततः ॥८८॥
स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः ।
समासात्संवृते ज्ञाने संवृतेषु च कर्म्मसु ॥८९॥
स जीवोऽनभ्यधिष्टानः कर्म्मभिः स्वैः पुराकृतैः ।
अष्टाङ्गप्राणवृत्तीर्वै स विच्यावयते पुनः ॥९०॥
शरीरं प्रजहंसो वै निरुच्छ्वासस्ततो भवेत् ।
एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ॥९१॥
यथेह लोके खद्योतं नीयमानमितस्ततः ।
रञ्जनं तद्वधे यत्तु नेता नेता न विद्यते ॥९२॥
तृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ।
शब्दाद्ये विषये दोषविषये पञ्चलक्षणे ॥९३॥
अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् ।
वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ॥९४॥
अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम् ।
अव्यक्ताद्यस्तु विज्ञेया भूतान्ताः प्रकृतेर्लयाः ॥९५॥
वर्णाश्रमाचारयुक्ताः शिष्टाः शास्त्राविरोधिनः ।
वर्णाश्रमाणां धर्म्मोऽयं देवस्थानेषु कारणम् ॥९६॥
ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता ।
ऐश्वर्य्यमणिमाद्यं हि कारणं ह्यष्टलक्षणम् ॥९७॥
निमित्तमप्रतीघात इष्टे शब्दादिलक्षणे ।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥९८॥
क्षेत्रज्ञेष्वनुसज्यन्ते गणमात्रात्मकानि तु ।
प्रावृट्काले पृथक्त्वेन पश्यन्तीह न चक्षुषा ॥९९॥
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा ।
श्वाविति श्वानपानश्च योनीः प्रविशतस्तथा ॥१००॥
तिर्य्यगूर्द्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम् ।
जीवप्राणास्तथा लिङ्गं कारणञ्च चतुष्टयम्॥. ४०.१०१॥
पर्य्यायवाचकैः शब्दैरेकार्थैः सोऽभिलिख्यते ।
व्यक्ताव्यक्ते प्रमाणोऽयं स वै रूपं तु कृत्स्नशः ॥१०२॥
अव्यक्तान्त गृहीतं च क्षेत्रज्ञाधिष्ठितञ्च यत् ।
एवं ज्ञात्वा शुचिर्भूत्त्वा ज्ञानाद्वै विप्रमुच्यते ॥१०३॥
नष्टञ्चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शनम् ।
यथेष्टं परिनिर्य्याति भिन्ने देहे सुनिर्वृते ॥१०४॥
भिद्यते करणञ्चापि ह्यव्यक्ताज्ञानिनस्ततः ।
मुक्तो गुणशरीरेण प्राणाद्येन तु सर्वशः ॥१०५॥
नान्यच्छरीरमादत्ते दग्धे बीजे यथाङ्कुरः ।
जीविकः सर्वसंसाराद्बीजशारीरमानसः ॥१०६॥
ज्ञानाच्चतुर्द्दशाच्छुद्धः प्रकृतिं सोऽनुवर्त्तते ।
प्रकृतिं सत्यमित्याहु र्विकारोऽनृतमुच्यते ॥१०७॥
तत्सद्भावोऽनृतं ज्ञेयं सद्भावः सत्यमुच्यते ।
अनामरूपक्षेत्रज्ञनामरूपं प्रचक्षते ॥१०८॥
यस्मात्क्षेत्रं विजानाति तस्मात्क्षेत्रज्ञ उच्यते ।
क्षेत्रप्रत्ययतो यस्मात्क्षेत्रज्ञः शुभ उच्यते ॥१०९॥
क्षेत्रज्ञः स्मर्य्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते ।
क्षेत्रत्वप्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययी सदा ॥११०॥
क्षयणात् करणाच्चैव क्षतत्राणात्तथैव च ।
भोज्यत्वाद्विषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ॥१११॥
महदाद्यं विशेषान्तं सवैरूप्यं विलक्षणम् ।
विकारलक्षणं तद्वै साक्षरक्षरमेव च ॥११२॥
तमेव च विकारन्तु यस्माद्वै क्षरते पुनः ।
तस्माच्च कारणाच्चैव क्षरमित्यभिधीयते ॥११३॥
सुखदुःखमोहभावा भोज्यमित्यभिधीयते ।
अचेतत्वाद्धि विषयस्तद्धि धर्म्मविभुः स्मृतः ॥११४॥
न क्षीयते न क्षरति विकारप्रसृतन्तु तत् ।
अक्षरं तेन चाप्युक्तमक्षीणत्वात्तथैव च ॥११५॥
यस्मात्पुर्य्यनुशेते च तस्मात्पुरुष उच्यते ।
पुरप्रत्ययिको यस्मात्पूरुषेत्यभिधीयते ॥११६॥
पुरुषं कथयस्वाथ कथन्तज्ज्ञैर्विभाष्यते ।
शुद्धो निरञ्जनाभासो ज्ञानाज्ञानविवर्जितः ॥११७॥
अस्ति नास्तीति सोऽन्यो वा बद्धो मुक्तो गतः स्थितः ।
नैर्हेतिकान्तनिर्द्देश्यसूक्तस्तस्मिन्न विद्यते ॥११८॥
शुद्धत्वान्न तु देश्यो वै दृष्टत्वात्समदर्शनः ।
आत्मप्रत्ययकारी सारनूनञ्चापि हेतुकम् ।
भावग्राह्यमनुमान्यं चिन्तयन्न प्रमुह्यते ॥११९॥
यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम् ।
दृश्यादृश्येषु निर्द्देश्यं तदा तदुद्धरं वरम् ॥१२०॥
एवं ज्ञात्वा स विज्ञाता ततः शान्तिं नियच्छति ।
कार्य्ये च कारणे चैव बुद्ध्यादौ भौतिके तदा ॥१२१॥
संप्रयुक्तो वियुक्तो वा जीवतो वा मृतस्य च ।
विज्ञाता न च दृश्येत पृथक्त्वेनेह सर्व्वशः ॥१२२॥
स्वेनात्मानं तमात्मानं कारणात्मा नियच्छति ।
प्रकृतौ कारणे चैव स्वात्मन्येवोपतिष्ठति ॥१२३॥
अस्ति नास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः ।
एकत्वं वा पृथक्त्वं वा क्षेत्रज्ञपुरुषेति वा ॥१२४॥
आत्मवान् स निरात्मा वा चेतनोऽचेतनोऽपि वा ।
कर्त्ता वा सोऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव वा ॥१२५॥
यज्ज्ञात्वा न निवर्त्तन्ते क्षेत्रज्ञे तु निरञ्जने ।
अवाच्यं तदनाख्यानादग्राह्यत्वादहेतुनि ॥१२६॥
अप्रतर्क्यमचिन्त्यत्वादवाप्यत्वाच्च सर्वशः ।
नाभिलिम्पति तत्तत्त्वं सम्प्राप्य मनसा सह ॥१२७॥
क्षेत्रेज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने ।
व्यपे(ये)तसुखदुःखे च निरुद्धे शान्तिमागते ॥१२८॥
निरात्मके पुनस्तस्मिन्वाच्यावाच्यो न विद्यते ।
एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ॥१२९॥
सृजते ग्रसते चैव ग्रस्तः पर्यवतिष्ठते ।
क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्वं प्रवर्त्तते ॥१३०॥
अधिष्ठानप्रवृत्तेन तस्य ते बुद्धिपूर्वकम् ।
साधर्म्यवैधर्म्यकृतसंयोगो विधितस्तयोः ।
अनादिमान् स संयोगो महापुरुषजः स्मृतः ॥१३१॥
यावच्च सर्गप्रतिसर्गकालस्तावच्च तिष्ठति सुसन्निरुध्य ।
पूर्वं हितव्ये तदबुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थमेव ॥१३२॥
एषा निसर्गप्रतिसर्गपूर्वं प्रधानिकी चेश्वरकारिता च ।
अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ॥१३३॥
इत्येष प्राकृतः सर्गस्तृतीयो हेतुलक्षणः ।
उक्तो ह्यस्मिंस्तदात्यन्तं कविभिस्तत्प्रमुच्यते ॥१३४॥
इत्येष प्रतिसर्गोवस्त्रिविधः कीर्त्तितो मया॥
विस्तरेणानुपूर्व्या च भूयः किं वर्त्तयाम्यहम् ॥१३५॥
इति श्रीमहापुराणे वायुप्रोक्ते चत्वारिंशोऽध्यायः ॥४०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP