उत्तरार्धम् - अध्यायः २१
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
शंयुरुवाच॥
किञ्चिद्दत्तं पितॄणां तु धिनोति वदतां वर ।
किं हि स्विच्चिररात्राय किञ्चानन्त्याय कल्पते ॥१॥
॥बृहस्पतिरुवाच ।
हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः ।
तानि मे श्रृणु सर्वाणि फलं चैषां यथाबलम् ॥२॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन च ।
दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ॥३॥
मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु ।
शाशन्तु चतुरो मासान् पञ्च प्रीणाति शाकुनम् ॥२१ .४॥
वाराहेण तु षण्मासाञ्छागलं साप्तमासिकम् ।
अष्टमासिकमित्युक्तं यच्च पार्षतकं भवेत् ॥५॥
रौरवेण तु प्रीयन्ते नवमासान् पितामहाः ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥६॥
कूर्मस्य चैव मांसेन मासानेकादशैव तु ।
श्राद्धमेव विजानीयाद्गव्यं संवत्सरं भवेत् ॥७॥
तथा गव्यसमायुक्तं पायसं मधुसर्पिषा ।
वध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥८॥
आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये ।
कृष्णच्छागस्तथा गोधा आनन्त्यायैव कल्पते ॥९॥
अत्र गाथाः पितृगीताः कीर्त्तयन्ति पुराविदः ।
तास्तेऽहं संप्रवक्ष्यामि यथावत्सन्निबोधत ॥१०॥
अपि नः स्वकुले जायाद्योऽन्नं दद्यात्र्त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य तु ॥११॥
आजेन सर्वलोहेन वर्षासु च मघासु च ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्य्यां नीलं वा वृषमुत्सृजेत् ॥१२॥
शंयुरुवाच॥
गयादीनां फलं तात प्रब्रूहि समपृच्छतः ।
पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ॥१३॥
॥बृहस्पतिरुवाच॥
गयायामक्षयं श्राद्धं जपहोमतपांसि च ।
पितृङयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥१४॥
पुनीयादेकविंशन्तु गौर्यामुत्पादितः सुतः ।
मातामहांस्तु षड्भूय इति तस्याः फलं स्मृतम् ॥१५॥
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत ।
वृषोत्स्रष्टा पुनात्येव दशातीतान् दशावरान् ॥१६॥
यत्किञ्चित् स्पृश्यते तोयैरुत्तीर्णेन जलान्महीम् ।
वृषोत्सर्गे पितॄणां तु ह्यक्षयं स मुदाहृतम् ॥१७॥
यद्यद्धि संस्पृशेत्तोयं लांगूलादिभिरन्ततः ।
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ॥१८॥
श्रृङ्गैः खुरैर्वा यद्भूमिमिल्लिखत्य निशं वृषः ।
मधुकुल्याः पितॄंस्तस्य अक्षयास्ता भवन्ति वै ॥१९॥
सहस्रनल्वमात्रेण तडागेन यथा श्रुतिः ।
तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ॥२०॥
यो ददाति गुढैर्मिश्रांस्तिलान् वै श्राद्धकर्मणि ।
मधुना मधुमिश्रान् वा अक्षयं सर्वमेव तत् ॥२१॥०
॥बृहस्पतिरुवाच॥
न ब्राह्मणान् परीक्षेत सदा देये तु मानवः ।
दैवे कर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥२२॥
सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः ।
ये च भाष्य विदो मुख्या ये च व्याकरणे रताः ॥२३॥
अधीयते पुराणं च धर्म्मशास्त्रं तथैव च ।
त्रिणाचिकेतपञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥२४॥
ब्रह्मदेय सुतश्चैव छन्दोगो ज्येष्ठसामगः ।
पुण्येषु येषु तीर्थेषु अभिषेककृतव्रताः ॥२५॥
मुख्येषु येषु सत्रेषु भवन्त्यवभृथश्रुताः ।
ये च सद्योव्रता नित्यं स्वकर्मनिरताश्च ये ॥२६॥
अक्रोधनाः शान्तिपरास्तान् वै श्राद्धे निमन्त्रयेत् ।
ये चापि नित्यं दशसु सुकृतेषु व्यवस्थिताः ॥२७॥
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।
श्रद्धेया ब्राह्मणा ये तु योगधर्म्ममनुव्रताः ॥२८॥
धर्माश्रमवरिष्ठास्ते हव्यकव्येषु ते वराः ।
त्रयोऽपि पूजितास्तेन ब्रह्मविष्णु महेश्वराः ॥२९॥
पितृभिः सह लोकाश्च यो ह्येतान् पूजयेन्नरः ।
पवित्राणा पवित्रञ्च मङ्गलानां च मङ्गलम् ॥३०॥
प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयांस्तु वक्ष्यामि गदतो मे निबोधत ॥३१॥
कितवो मद्यपो यक्ष्मी पशुपालो निराकृतिः ।
ग्रामप्रेष्यो वार्द्धुषिको गायनो वणिजस्तथा ॥३२॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी दुश्चर्मा तैलिकः कूटकारकः ॥३३॥
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ।
अभिशस्तस्तथा स्तेनः शिल्पैर्यश्चोपजीवति ॥३४॥
सूजकः पर्वकारी च यस्तु मित्रेषु द्रुह्यति ।
गणयाचनकश्चैव नास्तिको वेदवर्जितः ॥३५॥
उन्मत्तः षण्डकशठौ भ्रूणहा गुरुतल्पगः ।
भिषक्जीवः प्रैषणिकः परस्त्रीं यश्च गच्छति ॥३६॥
विक्रीणाति च यो ब्रह्म व्रतानि च तपांसि च ।
नष्टं स्यान्नास्तिके दत्तं कृतघ्ने चैव शंसके ॥३७॥
यच्च वाणिजके चैव नेह नामुत्र तद्भवेत् ।
निक्षेपहारिणे चैव कितवे वेदनिन्दके ॥३८॥
तथा वाणिजके चैव कारुके धर्म्मवर्जिते ।
निन्दन् क्रीणाति पण्यानि विक्रीणंश्च प्रशंसति ॥३९॥
अनृतस्य समावासो न वणिक् श्राद्धमर्हति ।
भस्म नीव हुतं हव्यं दत्तं पौनर्भवे द्विजे ॥४०॥
षष्टिं काणः शतं षण्डः श्वित्री यावत् प्रपश्यति ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥४१॥
भ्रश्यते सत्फलात्तस्माद्दाता यस्य तु बालिशः ।
यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः ॥४२॥
सोपानत्कश्च यो भुङ्क्ते यच्च दद्यात्तिरस्कृतम् ।
सर्वं तदसुरेन्द्राणां ब्रह्मा भागमकल्पयत् ॥४३॥
श्वानश्च यातुधानाश्च नावेक्षेरन् कथञ्चन ।
तस्मात्परिवृतिं दद्यात्तिलैश्चान्ववकीरयन् ॥४४॥
राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतिस्तथा ।
दर्शनात्सूकरो हन्ति पक्षपातेन कुक्कुटः ॥४५॥
रजस्वलानुस्पर्शेन क्रुद्धो यश्च प्रयच्छति ।
यस्य मित्रप्रदे यानि श्राद्धानि च हवींषि च ।
न प्रीणाति पितॄन् देवान् स्वर्गं न च स गच्छति ॥४६॥
नदीतीरेषु रम्येषु सरित्सु च सरस्सु च ।
विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ॥४७॥
न चाश्रुं पातयेज्जातु न युक्तो वाचमीरयेत् ।
न च कुर्वीत भुञ्जानो ह्यन्योऽन्यं मत्सरस्तदा ॥४८॥
अपसव्ये कृते तेन विधिवद्दर्भपाणिना ।
पित्र्यमानिधनं कार्यमेवं प्रीणाति वै पितॄन् ॥४९॥
अनुमत्यादितो विप्रानग्नौ कुर्याद्यथाविधि ।
पितॄणां निर्व्वपेद्भूमौ शूर्पे वा दर्भसंस्तरे ॥५०॥
शुक्लपक्षस्य पूर्व्वाह्ने श्राद्धं कुर्याद्विचक्षणः ।
कृष्णपक्षेऽपराह्ने तु रौहिणं न विलङ्घयेत् ॥५१॥
एवमेते महात्मानो महा योगा महौजसः ।
सदा वै पितरः पूज्या द्रष्टारो देशकालयोः ॥५२॥
पितृभक्तिरतो नित्यं योगं प्राप्नोत्यनुत्तमम् ।
ध्यानेन मोक्षं गच्छन्ति हित्वा कर्म शुभाशुभम् ॥५३॥
यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा ।
गुहायां निहतं योगं कश्यपेन महात्मना ॥५४॥
अमृतं गुह्यमृद्धृत्य योगं योगविदां वर ।
प्रोक्तं ॥सनत्कुमारेण महत्तद्धर्म्मशाश्वतम् ॥५५॥
देवानां परमं गुह्यमृषीणां च परायणम् ।
पितृभक्त्या प्रयत्नेन पितृभक्तैश्च नित्यशः ॥५६॥
तञ्च योगं समासेन पितृभक्तस्तु कृत्स्नशः ।
प्रयत्नात्प्राप्नुयात्तत्र सर्वमेव न संशयः ॥५७॥
यस्मै श्राद्धानि देयानि यच्च दत्तं महाफलम् ।
येषु वाप्यक्षयं श्राद्धं तीर्थषु च नदीषु च ।
येषु च स्वर्गमाप्नोति तत्ते प्रोक्तं ससंग्रहम् ॥५८॥
॥बृहस्पतिरुवाच॥
श्रुत्वैवं श्राद्धकल्पं तु योऽसूयां कुरुते नरः ।
स मज्जेन्नरके घोरे नास्तिकस्तमसावृतः ॥५९॥
महारोगावसायस्तु स यः संयतमानसः ।
वेदाश्रमान्मुक्तचित्तः कुम्भीका नधिगच्छति ।
जिह्वाच्छेदं स्तेनमेत्य प्राप्नुयुस्तेन चैव ह ॥६०॥
सीदन्ति ते सागरे लोष्टभूता योगद्विषः स्थास्यन्ते यावदुर्व्वी ।
तस्माच्छ्राद्धे धर्म्म उद्दिष्ट एष नित्यं कार्यः श्रद्दधानेन पुंसा ॥६१॥
परिवादो न कर्त्तव्यो योगिनां च विशेषतः ।
परिवादात् कृमिर्भूत्वा तत्रैव परिवर्त्तते ॥६२॥
योगं परिवदेद्यस्तु ध्यानिनां मोक्षकारणम् ।
स गच्छेन्नरकं घोरं श्रोता यश्च न संशयः ॥६३॥
आवृतं तमसा सर्वं नरकं घोरदर्शनम् ।
योगीश्वरपरी वादान्निश्चयं याति मानवः ॥६४॥
योगेश्वराणामाक्रोशं श्रृणुयाद्यो यतात्मनाम् ।
स हि कालं चिरं मज्जेत् कुम्भीपाके न संशयः ॥६५॥
मनसा कर्मणा वाचा द्वेषं योगिषु वर्ज्जयेत् ।
प्रेत्यान्यं तत्फलं भुङ्क्ते इह चैव न संशयः ॥६६॥
न पारगो विन्दति पारमात्मनस्त्रिलोकमध्ये चरति स्वकर्मभिः ।
ऋचो यजुःसामतदङ्गपारगो विकारमेव ह्यनवाप्य सीदति ॥६७॥
विकारपारः प्रकृतेश्च पारगस्त्रयी गुणानां त्रिगुणान्तपारगा ।
तत्त्वञ्चतुर्विंशतियो गपारगं स पारगो यस्त्वयनान्तपारगः ॥६८॥
कृत्स्नं यथा तत्त्वविसर्गमात्मनस्तथैव भूयः प्रलयं सदात्मनः ।
प्रत्याहरेद्योगबलेन योगवित् स सर्वपारक्रमयानगोचरः ॥६९॥
वेदस्य वेदिता यो वै वेद्यं विन्दति योगवित् ।
तं वै वेदविदं प्राहुस्तं प्राहुर्वेदपारगम् ॥७०॥
वेद्यं च वेदितव्यं च विदित्वा वै यथाविधि ।
एवं वेदविदं प्राहुस्ततोऽन्ये वेदचिन्तकाः ॥७१॥
यज्ञान् वेदांस्तथा कामाञ्ज्ञानानि विविधानि च ।
प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो धनानि च ॥७२॥
श्राद्धे यः श्राद्धकल्पं वै पश्चिमं नियतं पठेत् ।
सर्वाप्येतान्यवाप्नोति तीर्थे दानफलानि च ॥७३॥
स पङ्क्तिपावनश्चैव द्विजानामग्रभुग् भवेत् ।
अध्याप्य वा द्विजान् सर्वान् सर्वान् कामानवाप्नुयात् ॥७४॥
यश्चैव श्रृणुयान्नित्यमानन्त्यं स्वर्गमश्नुते ।
अनसूयो जितक्रोधो लोभमोहविवर्जितः ॥७५॥
तीर्थानां च फलं कृत्स्नं दानादीनां तथैव च ।
मोक्षोपायो ह्ययं श्रेष्ठः स्वर्गोपायो ह्ययं परः ।
इह चापि परा तुष्टिस्तस्मात्कुर्वीत यत्नतः ॥७६॥
इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसन्धिषु ।
अपत्यभाग्भवति परेण तेजसा दिवौ कसां स व्रजते सलोकताम् ॥७७॥
येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयम्भुवे ।
महायोगेश्वरेभ्यश्च सदा च प्रणतो ह्यहम् ॥७८॥
इत्येतेपितर स्तात देवानामपि देवताः ।
सप्तस्वेतेषु ते नित्यं स्थानेषु पितरोऽव्यथाः ॥७९॥
प्रजापतिसुता ह्येते सर्वे चैव महात्मनः ।
आद्यो गणस्तु योगानां स नित्यो योगवर्द्धनः ॥८०॥
द्वितीयो देवतानां तु तृतीयो देवताऽरिणाम् ।
शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ॥८१॥
देवास्त्वेतान् यजन्ते वै सर्वेष्वेतेष्ववस्थिताः ।
आश्रमास्तु यजन्त्येतांश्चत्वारस्तु यथाक्रमम् ॥८२॥
वर्णाश्चापि यजन्त्येतांश्चत्वारस्तु यथाविधि ।
तथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै ॥८३॥
पितॄंश्च यो यजेद्भक्त्या पितरः पूजयन्ति तम् ।
पितरः पुष्ठिकामस्य प्रजाकामस्य वा पुनः ।
पुष्ठिं प्रजाश्च स्वर्गं च प्रयच्छन्ति पितामहाः ॥८४॥
देवकार्यादपि सूनोः पितृकार्यं विशिष्यते ।
देवतानां हि पितरः पूर्वमाप्यायनं स्वयम् ॥८५॥
न हि योगगतिः सूक्ष्मा पितॄणां च परा गतिः ।
तपसा विप्रकृष्टेन दृश्यते मांसचक्षुषा ॥८६॥
सर्वेषां राजतं पात्रमथवा रजतान्वितम् ।
पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह ॥८७॥
येषां दास्यन्ति पिण्डांस्त्रीन् बान्धवा नामगोत्रतः ।
भूमौ कुशोत्तरायाञ्च अपसव्यविधानतः ॥८८॥
सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन् ।
यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ॥८९॥
यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ।
तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठते ॥९०॥
मान गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम् ।
अपि योनिशतं प्राप्तां स्तृप्तिस्ताननुगच्छति ॥९१॥
एवमेषा स्थिता संस्था ब्रह्मणा परमेष्ठिना ।
पितॄणामादिसर्गस्तु लोकानामक्षयार्थिनाम् ॥९२॥
इत्येते पितरो देवा देवाश्च पितरः पुनः ।
दौहित्रा यजमानाश्च प्रोक्ताश्चैव मयाऽनघाः ॥९३॥
लोका दुहितरश्चैव दौहित्राश्च सुतास्तथा ।
दानानि सह शौचेन तीर्थानि च फलानि च ॥९४॥
अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा ।
प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत् पुरा ॥९५॥
॥बृहस्पतिरुवाच॥
इत्येतदङ्गिराः प्राह ऋषीणां श्रृण्वतां तदा ।
पृष्टस्तु संशयं सर्वं पितॄणां प्राह संसदि ॥९६॥
सत्रे वै वितते पूर्वं तदा वर्षसहस्रिके ।
यस्मिन् गृहपतिर्ह्यासीद्ब्रह्मा वै देवता प्रभुः ॥९७॥
संवत्सरशतान्यं च तत्रोपेता इति श्रुतिः ।
श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ॥९८॥
दीक्षितस्य तदा सत्रे ब्रह्मणः परमात्मनः ।
तत्रैव जातमत्युग्रं पितॄणामक्षयार्थिना ।
लोकानां च हितार्थाय ब्रह्मणा परमेष्टिना ॥९९॥
॥सूत उवाच॥
एवं बृहस्पतिः पूर्वं पृष्टः पुत्र्त्रेण धीमता ।
प्रोवाच पितृवंशन्तु यत्तद्वैसमुदाहृतम् ।
अत ऊर्द्ध्वं प्रवक्ष्यामि वरुणस्य निबोधत ॥१००॥
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे भिन्नकालिकतृप्तिसाधनद्रव्यविशेषगया श्राद्धादिफलब्राह्मणपरीक्षादिकथनं नामैकविंशोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP