संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ४६

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सनत्कुमार उवाच॥
वक्ष्ये शिलाया माहात्म्यं श्रृणु नारद मुक्तिदम् ।
यस्या गायन्ति देवाश्च माहात्म्यं मुनिपुङ्गवाः ॥१॥

शिला स्थिता पृथिव्यां सा देवरूपातिपावनी ।
विचित्राख्यं शिलातीर्थं त्रिषु लोकेषु विश्रुतम् ॥२॥

तस्याः संस्पर्शनाल्लोकाः सर्वे हरिपुरं ययुः ।
शून्ये लोकत्रये जाते शून्या यमपुरी ह्यभूत् ॥३॥

यम इन्द्रादिभिर्गत्वा ऊचे ब्रह्माणमद्भुतम् ।
अधिकारं गृहाणाथ यमदण्डं पितामह ॥४॥

यममूचे ततो ब्रह्मा स्वगृहे धारयस्व ताम् ।
ब्रह्मोक्तो धर्मराजस्तु गृहे तां समधारयत् ॥५॥

यमोऽधिकारं स्वं चक्रे पापिनां शासनादिकम् ।
एवंविधा गुरुतरा शिला जगति विश्रुता ॥६॥

यथा ब्रह्ना यथा विष्णुर्यथा देवो महेश्वरः ।
ब्रह्माण्डे च यथा मेरु स्तथेयं देवरूपिणी ॥७॥

गयासुरस्य शिरसि गुरुत्वाद्धारिता यतः  ।
अतः पवित्रयोर्योगः पितॄणां मोक्षदायकः ॥८॥

पवित्रयोर्द्वयोर्योगे हयमेध मजोऽकरोत् ।
भागार्थमागतान्दृष्ट्वा विष्ण्वादीनब्रवीच्छिला ॥९॥

शिलास्थितिप्रतिज्ञां तु कुर्वन्तु पितृमुक्तये ।
तथेत्युक्त्वा शिलायान्ते देवा विष्ण्वादयः स्थिताः ॥१०॥

शिलारूपेण मूर्त्त्या च पदरूपेण देवताः ।
मूर्त्तामूर्तस्वरूपेण स्थिताः पूर्वप्रतिज्ञया ॥११॥

दैत्यस्य मुण्ड पृष्ठे तु यस्मात्सा संस्थिता शिला ।
तस्मात्स मुण्डपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ॥१२॥

आच्छादितः शिलापादः प्रभासेनाद्रिणा यतः ।
भासितो भास्करे णेति प्रबासः परिकल्पितः ॥१३॥

प्रभासं हि विनिर्भिद्य शिलाङ्गुष्ठो विनिर्गतः ।
अङ्गुष्ठोत्थित ईशोऽपि प्रभासेशः प्रकीर्त्तितः ॥१४॥

शिलाङ्गुष्ठैकतेशो यः सा च प्रेतशिला स्मृता ।
पिण्डदानाद्यतस्तस्यां प्रेतत्वान्मुच्यते नरः ॥१५॥

महानदीप्रबासाद्योः सङ्गमे स्नानकृन्नरः ।
रामो देव्या सह स्नातो रामतीर्थं ततः स्मृतम् ॥१६॥

प्रार्थितोऽत्र महानद्या राम स्नातो भवेति च ।
रामतीर्थं ततो भूत्वा त्रिषु लोकेषु विश्रुतम् ॥१७॥

जन्मान्तरशतं साग्रं यत्कृतं दुष्कृतं मया ।
तत्सर्वं विलयं यातु रामतीर्थाभिषेचनात् ॥१८॥

मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः ।
रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रयात्यसौ ।
तथेत्युक्त्वा स्थितो रामः सीतया भरताग्रजः ॥१९॥

राम राम महाबाहो देवानामभयङ्कर ।
त्वां नमस्येऽत्र देवेशं मम नश्यतु पातकम् ॥२०॥

मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्यात्सपिण्डकम्  ।
प्रेतत्वात्तस्य पितरो विमुक्ताः पितृतां ययुः ॥२१॥

आपस्त्वमसि देवेश ज्योतिषां पतिरेव च ।
पाप नाशय मे देव मनोवाक्कायकर्मजम् ॥२२॥

नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत् ।
तञ्च शम्भुं नमस्कृत्य कुर्याद्यमबलिं ततः ॥२३॥

रामे वनं गते शैलमागत्य भरतः स्थितः  ।
पितृपिण्डादिकं कृत्वा रामं संस्थाप्य तत्र च ॥२४॥

रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः ।
भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम् ।
मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥२५॥

स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनात् ।
मतङ्गस्य पदे श्राद्धी सर्वांस्तारयते पितॄन् ॥२६॥

रामतीर्थे नरः स्नात्वा रामं सीतां समर्च्य च ।
रामेश्वरं प्रणम्याथ न देही जायते पुनः ॥२७॥

शिलाया जघनं भूयः समाक्रान्तं नगेन तु ।
धर्मराजेन संप्रोक्तो न गच्छेति नगः स्मृतः ॥२८॥

यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ ।
ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्ति हेतवे ॥२९॥

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां बलिं प्रयच्छामि स्यातामेतावहिंसकौ ॥३०॥

ऐन्द्रवारुण वायन्ययाम्यनैऋत्यसंस्थिताः ।
वायसाः प्रतिगृह्णन्तु भूयो पिण्डं मया स्थितम् ॥३१॥

यमोऽसि यमदूतोऽसि वायसोऽसि महाबल ।
सप्तजन्मकृतं पापं बलिं भुक्त्वा विनाशय ॥३२॥

रामे वनं गते शैलमागत्य भरतेन हि ।
पितुः पिण्डादिकं कृत्वा रामेशः स्थापितोऽत्र वै ॥३३॥

स्नात्वा नत्वा च रामेशं रामसीता समन्वितम् ।
तत्र श्राद्धं सपिण्डञ्च कृत्वा विष्णुपुरं व्रजेत् ।
पितृभिः सह धर्मात्मा कुलानाञ्च शतैःसह ॥३४॥

रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः ।
भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम् ।
मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥३५॥

वह्निर्द्वौ वरुणौ रुद्राश्चत्वारः पितृमोक्षदाः ।
भरताश्रममासाद्य तान्नमेत्पूजयेन्नरः ॥३६॥

पापेभ्यश्चोपपापेभ्यो मुच्यते पितृभिः सह ।
यत्र कुत्रापि देवर्षे भरतस्याश्रमे नरः  ।
स्नातः श्राद्धादिकं कुर्यात्तत्कल्पेऽपि न हीयते ॥३७॥

गयायां चाक्षयं श्राद्धं जपहोमतपांसि च ।
सर्वमानन्त्यमाहुर्वै यद्दत्तं भरताश्रमे ॥३८॥

चतुर्युगस्वरूपेण चतस्रो रविमूर्त्तयः  ।
दृष्टाः स्पृष्टाः पूजितास्ताः पितॄणां मुक्तिदायकाः ॥३९॥

मुक्तिर्वांमन इत्येव तारकाख्यो विधिः परः ।
संसारार्णवतप्तानां नावावेतौ सुरेश्वरौ ।
तारकं ब्रह्म विश्वेषां मृतानां जीवतामिदम् ॥४०॥

त्रिविक्रमञ्च ब्रह्माणं यः पश्येत्पुरुषोत्तमम् ।
पितृभिः सह धर्मात्मा स याति परमां गतिम् ॥४१॥

शिलाया वामपादेऽपि तथाभ्युद्यन्तको गिरिः  ।
स्थापितः पिण्डदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥४२॥

नैमिषारण्यपार्श्वे तु ईचे ब्रह्मा सुरैः सह ।
मुख्यसंज्ञं हि तत्तीर्थं देवास्तत्र पदे स्थिताः ॥४३॥

त्रिषु तेषु पदेष्वेव तीर्थेषु मुनिसत्तम ।
यत्किञ्चिदशुभं कर्म तत्प्रणश्यति नारद ॥४४॥

तन्नैमिषवनं पुण्यं सेवितं पुण्यपूरुषैः ।
तत्र व्यासः शुकः पैलः कण्वो वेधाः शिवो हरिः ॥४५॥

तेषां दर्शनमात्रेण मुच्यते पातकैर्नरः ।
वामहस्ते शिलायास्तु तथा चोद्यन्तको गिरिः ॥४६॥

स पर्वतः समानीतो ह्यगस्त्येन महात्मना ।
तत्र ब्रह्मा हरश्चैव तपश्चोग्रञ्च चक्रतुः ॥४७॥

तत्रागस्त्यस्य हि वरं कुण्डं त्रैलोक्यदुर्लभम् ।
यत्र मुन्यष्टकं सिद्धं तपस्तप्त्वा शिवं गतम् ।
कुण्डे मुन्यष्टकं नत्वा पितॄन्ब्रह्मपुरं नयेत् ॥४८॥

अगस्त्येनाथ देवर्षे ह्युदयाद्रेर्महात्मना ।
शिलाया वामहस्तेऽपि स्थापितो गिरिराट् शुभः ।
वादित्राद्यैर्दिव्यगीतैराढ्यो वादित्रको गिरिः ॥४९॥

तत्र विद्याधरो नाम गन्धर्वाप्सरसाङ्गणैः ।
समेतोऽद्यापि कीतानि दिव्यानि सह गीयते ॥५०॥

मोहनश्च सुनीथश्च शैलूजो मोहनोत्तमः ।
पर्वतो नारदध्यानी सङ्गीती पुष्पदन्तकः ।
हाहा हूहूप्रभृतयो गीतदानं प्रजक्रिरे ॥५१॥

तथा चित्ररथो नाम सर्वगन्धर्वसंवृतः ।
गायति मधुराण्येव गीतान्यद्रौ महोत्सवम् ॥५२॥

अतः स पर्वतो देवैः सेव्यतेऽद्यापि नित्यशः ।
धर्मजास्तत्र देवेशो हरो भस्माङ्गरागवान् ॥५३॥

पार्वत्या सहितो रुद्रः पर्वते गीतनादिते ।
मोदते पूजितोद्येयः पितॄणां परमां गतिम् ॥५४॥

गयायां परमात्मा हि गोपतिर्वा गदाधरः ।
हीयते वैष्णवी माया तथा रुद्रार्च्चया मुने ॥५५॥

शिलाया दक्षिणे हस्ते भस्मकूटो गिरिर्धृतः ।
धर्म्मराजेन तत्रास्ते ह्यगस्त्यः सह भार्य्यया ॥५६॥

अगस्त्यस्य पदे स्नातः पिण्डदो ब्रह्मलोकगः ।
ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् ॥५७॥

लोपामुद्रां तथा भार्य्यां पितॄणां परमां गतिम् ।
तत्रागस्त्येश्वरं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥५८॥

अगस्त्यञ्च सभार्य्यञ्च पितॄन्ब्रह्मपुरं नयेत् ।
दण्डिनाथ तपस्तेपे सीताद्रेर्दक्षिणे गिरौ ॥५९॥

वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः ।
तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी ।
कपिलेशो नदीतीरे ह्यमासोमसमागमे ॥६०॥

कपिलायां नरः स्नात्वा कपिलेशं समर्च्य च ।
कृते श्राद्धे पिण्डदाने पितरो मोक्षमाप्नुयुः ॥६१॥

तत्राग्निधारा गिरिवरादागतोद्यन्तकादनु ।
तत्र सारस्वतं कुण्डं सरस्वत्या प्रकल्पितम् ॥६२॥

शुक्रस्तत्र सुतैः सार्द्धं षण्डामर्क्कादिभिः प्रभुः ।
तत्र तत्र मुनीन्द्राणां पदेषु मुनिसत्तम ।
श्राद्धपिण्डादिकृत्स्नातः पितॄंस्तारयते नरः ॥६३॥

शिलाया वामहस्तेऽपि गृद्रकूटो गिरिर्धृतः ।
गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ॥६४॥

अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः ।
दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छम्भोः पदं नरः ॥६५॥

तत्र गृध्रे गुहायाञ्च पिण्डदः शिवलोकभाक्  ।
तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ॥६६॥

ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् ।
शूरक्षेत्रञ्च तत्रास्ते पिण्डदः स्वर्नयेत्पितॄन् ॥६७॥

आदिपालेन गिरिणा समाक्रान्तं शिलोदरम् ।
तत्रास्ते गजरूपेण विघ्रेशो विग्ननाशनः ।
तं दृष्ट्वा मुच्यते विघ्नैः पितॄन् ब्रह्मपुरं नयेत् ॥६८॥

नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत् ।
मुण्डपृष्ठारविन्द्राद्री दृष्ट्वा पापं विनाशयेत् ।
गयानाभौ सुषुम्नायां पिण्डदः स्वर्नयेत्पितॄन् ॥६९॥

शिलाया वामपादे तु स्थापितः प्रेतपर्वतः ।
धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ॥७०॥

पादेन दूरे निक्षिप्तः शिलायाः पादभारतः ।
गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ॥७१॥

प्रेतकुण्डञ्च तत्रास्ते देवास्तत्र पदे स्थिताः ।
तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ॥७२॥

पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते ।
श्राद्धादिकारिणां नॄणां तीर्थे पितृविमुक्तये ।
प्रेता धानुष्करूपेण करग्रहणकारकाः ॥७३॥

पादाङ्कितां मुण्डपृष्ठां महादेवनिवासिनीम् ।
तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ॥७४॥

गयाशिरसि पुण्ये च सर्वपापैर्विवर्जिते ।
ग्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ॥७५॥

कीकटेषु गया पुण्या पुण्यं राजगृहं वनम् ।
च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ॥७६॥

वैकुण्ठो लोहदण्डश्च गृध्रकूटश्च शोणकः ।
अत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् ॥७७॥

क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत् ।
तस्य पादाङ्कितो यस्मात्क्रौञ्चपादस्ततः स्मृतः ॥७८॥

स्नातो जलाशये तत्र नयेत्स्वर्गं स्वकं कुलम् ।
बलिः काकशिलायाञ्च काकेभ्य ऋणमोक्षदः ॥७९॥

मुण्डपृष्ठस्य सानौ हि लोमशो लोमहर्षणः ।
द्वावेतौ परमं तप्त्वा तपःसिद्धिं परां गतौ ॥८०॥

आहूतास्तु सरिच्छ्रेष्ठा लोमशेन महानदी ।
शरावती वेत्रवती चन्द्रभागा सरस्वती ॥८१॥

कावेरी सिन्धुरीरा च चन्दना च सरिद्वरा ।
वासिष्ठी सरयूर्गङ्गा यमुना गण्डकीन्दिरा ॥८२॥

महावैतरणी नाम्ना निक्षरा च दिवौकसः  ।
सावव्यलकनन्दा च ह्युदीची कन्काह्वया ॥८३॥

कौशिकी ब्रह्मदा ज्येष्ठा सर्वस्याघविमोचिनी ।
कृष्णवल्वा चर्म्मवती द्वे नद्यौ मुक्तिदायिके ॥८४॥

आहूते सरितां श्रेष्ठे लोमह्रर्षेण साहसात्  ।
तपसस्तु प्रभावेण नर्म्मदा मुनिपुङ्गव ।
तासु सर्वासु यः स्नात्वा पिण्डदः स्वर्नयेत्पितॄन् ॥८५॥

ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः ।
परं ब्रह्म स यातीह विमुक्तो योनिसङ्कटात् ॥८६॥

निक्षरायां पुष्करिण्यां स्नातः श्राद्धादिकं नरः ।
कुर्य्यात्क्रौञ्चपदे दिव्ये नियमाद्वासरत्रयम् ।
सर्वान्पितॄन्नयेत्स्वर्गं पञ्चपापिन एव च ॥८७॥

जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः ।
आत्मनोऽप्यथवान्येषां सव्येनापि तिलैर्विना ।
जीवतां दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ॥८८॥

यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्दन ।
यदुद्दिश्य त्वया देयस्तस्मिन्पिण्डो मृते प्रभो ॥८९॥

एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ।
अन्तकाले गते मह्यं त्वया देयो गयाशिरे ॥९०॥

जनार्दन नमस्तुभ्यं नमस्ते पितृमोक्षद ।
पितृपते नमस्तेऽस्तु नमस्ते पितृरूपिणे ॥९१॥

गयायां पितृरूपेण स्वयमेव जनार्दनः ।
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ॥९२॥

नमस्ते पुण्डरीकाक्ष ऋणत्रयविमोचक ।
लक्ष्मीकान्त नमस्तेऽस्तु पितॄणां मोक्षदो भव ॥९३॥

वामजानु सुसंपात्य नत्वा भीमो जनार्दनम् ।
श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्ब्रह्मलोकभाक् ।
पितृभिः सह धर्मात्मा कुलानाञ्च शतेन च ॥९४॥

शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः ।
लक्ष्मीशो विभुधैः सार्द्धं तस्माद्देवमयी शिला ॥९५॥

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम षट्चत्वारिंशोऽध्याय- ॥४६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP