संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥

सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥१॥

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
आहर्त्ता चाग्निहोत्रस्य यज्वनाञ्च ददौ महीम् ॥२॥

सत्यवाक् कर्म्मबुद्धिश्च कान्तः संवृतमैथुनः ।
अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ॥३॥

तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयामास हित्वा मानं यशस्विनी ॥४॥

तया सहावसद्राजा दशवर्षाणि चाष्ट च ।
सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥५॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ॥६॥

गन्धमादनपादेषु मेरुश्रृङ्गे नगोत्तमे ।
उत्तरांश्च कुरून् प्राप्य कलापग्राममेव च ॥७॥

एतेषु वनसुख्येषु सुरैराचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा ॥८॥

॥ऋषय ऊचुः॥
गन्धर्वा चोर्वशी देवी राजानं मानुषं कथम् ।
देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत ॥९॥

॥सूत उवाच॥
ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता ।
ऐलं तु तं वरारोहा समयेन व्यवस्थिता ॥१०॥

आत्मनः शापमोक्षार्थं नियमं सा चकार तु  ।
अनग्नदर्शनञ्चैव अकामात सह मैथुनम् ॥११॥

द्वौ मेषौ शयनाभ्याशे स तावद् व्यवतिष्ठते ।
घृतमात्रं तथाहारः कालमेकन्तु पार्थिव ॥१२॥

यद्येष समयो राजन् यावत्कालञ्च ते दृढम् ।
तावत्कालन्तु वत्स्यामि एष नः समयः कृतः ॥१३॥

तस्यास्तं समयं सर्वं स राजा पर्यपालयत् ।
एवं सा चावसत् तस्मिन् पुरूरवसि भामिनी ॥१४॥

वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता ।
उर्वशी मानुषं प्राप्ता गन्धर्व्वा श्चिन्तयान्विताः ॥१५॥

  गन्धर्व्वा ऊचुः ।
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।
आगच्छेत्तु पुनर्द्देवानुर्वशी स्वर्गभूषणा ॥१६॥

ततो विश्वावसुर्नाम तत्राह वदतां वरः ।
तया तु समयस्तत्र क्रियमाणो मतोऽनघः ॥१७॥

समयन्युत्क्रमात् सा वै राजानं त्यक्ष्यते यथा ।
तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ॥१८॥

सहसा योगमेष्यामि युष्माकं कार्यसिद्धये ।
एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥१९॥

स निशायामथागम्य मेषमेकं जहार वै ।
मातृवद्वर्त्तते सा तु मेषयोश्चारुहासिनी ॥२०॥

गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी ।
राजानमब्रवीत्सा तु पुत्रो मे ह्रियतेति वै ॥२१॥

एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः  ।
नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ॥२२॥

ततो भूयस्तु गन्धर्व्वा द्वितीयं मेषमाददुः ।
द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ॥२३॥

पुत्रौ मम हृतौ राजन्ननाथाया इव प्रभो ।
एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ॥२४॥

मेषाबभ्यां पदवीं राजन् गन्धर्व्वैर्व्युत्थितामथ ।
उत्पादिता तु महती माया तद्भवनं महत् ॥२५॥

प्रकाशितन्तु सहसा ततो नग्नमवेक्ष्य सा ।
नग्नं दृष्ट्वा तिरोऽभूत्सा अप्सरा कामरूपिणी ॥२६॥

तिरोभूतान्तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ ।
मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताभवन् ॥२७॥

उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतः प्रभुः ।
अपश्यंस्तां तु वै राजा विललाप सुदुःखितः ॥२८॥

चचार पृथिवीं चैव मार्गमाणस्ततस्ततः ।
अथापश्यच्च तां राजा कुरुक्षेत्रे महाबलः ॥२९॥

प्लक्षतीर्थे पुष्करिण्यां विगाढेनाम्बुनाप्लुताम् ।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ॥३०॥

अपश्यत्सा ततः सुभ्रू राजानमविदूरतः ।
उर्वशी ताः सखीः प्राह अयं स पुरुषोत्तमः ॥३१॥

यस्मिन्नहमवात्सं हि दर्शयामास तं नृपम्  ।
तत आविर्बभूवुस्ताः पञ्चचूडाप्सरास्तु ताः ॥३२॥

दृष्ट्वा तु राजा तां प्रीतः प्रलापान् कुरुते बहून् ।
आयाहि तिष्ठ मनसा घोरे वचसि तिष्ठ हे ॥३३॥

एवमादीनि सूक्ष्माणि परस्परमभाषत ।
उर्व्वशी त्वब्रवीच्चैलं सगर्भाहं त्वया प्रभो ॥३४॥

संवत्सरात् कुमारस्ते भविता नव संशयः ।
निशामेकान्तु वै राजा ह्यवसत्तु तया सह ॥३५॥

सम्प्रहृष्टो जगामाथ स्वपुरन्तु महायशाः ।
गते संवत्सरे राजा उर्व्वशीं पुनरागमत् ॥३६॥

उषित्वा तु तया सार्द्धमेकरात्रं महामनाः ।
कामार्त्तश्चा ब्रवीद्दीनो भव नित्यं ममेति वै ॥३७॥

उर्व्वश्यथाब्रवीच्चैलं गन्धर्वास्ते वरं ददुः ।
तं वृणीष्व महाराज ब्रूहि चैतांस्त्वमेव हि ॥३८॥

वृणे नित्यं हि सालोक्यं गन्धर्वाणां महात्मनाम् ।
तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ॥३९॥

स्थालीमग्नेः पूरयित्वा गन्धर्व्वाश्च तमब्रुवन् ।
अनेन इष्ट्वा लोकन्तं प्राप्स्यसि त्वं नराधिप ॥४०॥

तमादाय कुमारन्तु नगरायोपचक्रमे ।
निःक्षिप्य तमरण्याञ्च स पुत्रन्तु गृहं ययौ ॥४१॥

पुनरादाय दृश्याग्निमश्वत्थं तत्र दृष्टवान् ।
समीपतस्तु तं दृष्ट्वा ह्यश्वत्थं तत्र विस्मितः ॥४२॥

गन्धर्व्वेभ्यस्तथाख्यातुमग्निना गां गतस्तु सः  ।
श्रुत्वा तमर्थमशिलमरणिं तु समादिशत् ॥४३॥

अश्वत्थादरणिं कृत्वा मथित्वाग्निं यथाविधि ।
तेनेष्ट्वा तु सलोकं नः प्राप्स्यसि त्वं नराधिप ।
मथित्वाग्निं त्रिधा कृत्वा ह्ययजत्स नराधिपः ॥४४॥

इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ।
वासाय च स गन्धर्व्वस्त्रेतायां स महारथः ।
एकोऽग्निः पूर्वमासीद्वै ऐलस्त्रींस्तानकल्पयत् ॥४५॥

एवंप्रभावो राजासीदैलस्तु द्विजसत्तमाः ।
देशे पुण्यतमे चैव महर्षिभिरलंकृते ॥४६॥

राज्यं स कारयामास प्रयागे पृथिवी पतिः ।
उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥४७॥

तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः ।
गन्धर्व्वलोके विदिता आयुर्द्धीमानमावसुः ॥४८॥

विश्वायुश्च शतायुश्च गतायुश्चोर्वशीसुताः ।
अमावसोस्तु वै जातो भीमो राजाथ विश्वजित् ॥४९॥

श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः ।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥५०॥

सुहोत्रस्याभज्जह्नुः केशिकागर्भसम्भवः ।
प्रतिगत्य ततो गङ्गा विततो यज्ञकर्म्मणि ॥५१॥

प्लावयामास तं देशं भाविनोऽर्थस्य दर्शनात् ।
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥५२॥

सौहोत्रिर्वरदः क्रुद्धो गङ्गां संरक्तलोचनः ।
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥५३॥

एतत्ते विफलं सर्व्वं पीतमम्भः करोम्यहम् ।
राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा सुरर्षयः ॥५४॥

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ।
यौवनाश्वस्य पौत्रीन्तु कावेरीञ्जह्नुरावहत् ॥५५॥

युवनाश्वस्य शापेन गङ्गा येन विनिर्ममे  ।
कावेरीं सरितां श्रेष्ठां जह्नुभार्य्यामनिन्दिताम् ॥५६॥

जह्नुश्च दयितं पुत्रं सुहोत्रं नाम धार्मिकम् ।
कावेर्य्यां जनयामास अजकस्तस्य चात्मजः ॥५७॥

अजकस्य तु दायादो बलाकाश्वो महायशाः ।
बभूवुश्च गयः शीलः कुशस्तस्यात्मजः स्मृतः ॥५८॥

कुशपुत्रा बभूवुश्च चत्वारो वेदवर्चसः ।
कुशाश्वः कुशनाभश्च अमूर्त्तारयशोवसुः ॥५९॥

कुशस्तम्बस्तपस्तेपे पुत्रार्थी राजसत्तमः ।
पूर्णे वर्षसहस्रे वै शतक्रतुमपश्यत ॥६०॥

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥६१॥

पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः ।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥६२॥

पौरुकुत्साभवद्भार्या गाधिस्तस्यामजायत ।
पूर्व्वं कन्यां महाभागां नाम्ना सत्यवतीं शुभाम् ।
तां गाधिपुत्रः काव्याय ऋचीकाय ददौ प्रभुः ॥६३॥

तस्यां पुत्रस्तु वै भर्त्ता भार्गवो भृगुनन्दनः ।
पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ॥६४॥

तथा चाहूय सुधृतिऋचीको भार्गवस्तदा ।
उपयोज्यश्चरुरयं त्वया मात्रा च तेशुभे ॥६५॥

तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ।
अजेयः क्षत्रियैर्युद्धे क्षत्रियर्षभसूदनः ॥६६॥

तवापि पुत्रं कल्याणि धृतिन्तं तपोधनम् ।
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥६७॥

एवमुक्त्वा तु तां भार्य्यामृचीको भृगुनन्दनः ।
तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ॥६८॥

गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ।
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ॥६९॥

चरुद्वयं गृहीत्वा तु ऋषेः सत्यवती सदा ।
भर्त्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ॥७०॥

माता तु तस्यै दैवेन दुहित्रे स्वं चरुं ददौ  ।
तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ॥७१॥

अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम् ।
धारयामास दीप्तेन वपुषा घोरदर्शना ॥७२॥

तमृचीकस्ततो दृष्ट्वा योगेनाप्यनुमृश्य च ।
तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्य्यां वरवर्णिनीम् ॥७३॥

मातुः सिद्ध्यति ते भद्रे चरुव्यत्यासहेतुना ।
जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ॥७४॥

माता जनिष्यते वापि तथाभूतं तपोधनम्  ।
विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ॥७५॥

एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।
प्रसादयामास पतिं सुतो मे नेदृशो भवेत् ।
ब्राह्मणापसदस्त्वन्य इत्युक्तो मुनिरब्रवीत् ॥७६॥

नैष सङ्कल्पितः कामो मया भद्रे तथा त्वया  ।
उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ॥७७॥

पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम् ।
इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥७८॥

शमात्मकमृजुं भर्त्तः पुत्रं मे दातुमर्हसि ।
काममेवंविधः पुत्रो मम स्यात्तु वद प्रभो ॥७९॥

मय्यन्यथा न शक्यं वै कर्तुमेव द्विजोत्तम ।
ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ॥८०॥

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥८१॥

तस्मात् सत्यवती पुत्रं जनयामास भार्गवम् ।
तपस्यभिरतन्दान्तं जमदग्निः शमात्मकम् ॥८२॥

भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
यमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ॥८३॥

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
प्राप्य ब्रह्मर्षिसहितो (सविता) जगाम ब्रह्मणावृतः ॥८४॥

सा हि सत्यवती पुण्या सत्यव्रतपरायणा ।
कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥८५॥

परिस्रुता महाभागा कौशिकी सरितां वरा ।
इक्ष्वाकुवंशे त्वभवत्सुवेणुर्नाम पार्थिवः ॥८६॥

तस्य कन्या महाभागा कामली नाम रेणुका ।
रेणु कायान्तु कामल्यां तपोधृतिसमन्वितः ।
आर्चीको जनयामास जमदग्निः सुदारुणम् ॥८७॥

सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
रामं क्षत्रिय हन्तारं प्रदीप्तमिव पावकम् ॥८८॥

और्व्वस्यैवमृचीकस्य सत्यवत्यां महामनाः ।
जमदग्निस्ततो वीर्य्याज्जज्ञे ब्रह्मविदां वरः ।
मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥८९॥

विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः  ।
जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः ॥९०॥

विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवन्मुनिः ।
हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियुतः सवै ।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥९१॥

विश्वामित्रस्य पुत्राणां शुनः शेफोऽग्रजः स्मृतः ।
मधुच्छन्दो नयश्चैव कृतदेवौ ध्रुवाष्टकौ ॥९२॥

कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै ।
तेषां गोत्राणि बहुधा कौशिकानां महात्मनाम् ॥९३॥

पार्थिवा देवराताश्च याज्ञवल्क्या समर्षणाः  ।
उदुम्बरा उदुम्लानास्तारका यममुञ्चताः ॥९४॥

लोहिण्यो रेणवश्चैव तथा कारीषवः स्मृताः ।
बभ्रवः पाणिनश्चैव ध्यावजप्यास्तथैव च ॥९५॥

शालावत्या हिरण्याक्षाः स्यङ्कृता गालवाः स्मृताः  ।
देवला यामदूताश्च शालङ्कायनबाष्कलाः ॥९६॥

ददाति बादराश्चान्ये विश्वामित्रस्य धीमतः ।
॥ऋष्यन्तरविवाङ्यास्ते बहवः शौशिकाः स्मृताः ॥९७॥

कौशिकासोश्रुमाश्चैव तथान्ये सैधवायनाः ।
पौरोरवस्य पुण्यस्य ब्रह्मर्षेः कौशिकस्य तु ॥९८॥

दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः ।
अष्टकस्य सुतो यो हि प्रोक्तो जह्नुगणोमया ॥९९॥

 ॥ऋषय ऊचुः॥

किं लक्षणेन धर्मेण तपसेह श्रुतेन वा ।
ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ॥१००॥

येन योनाभिधा नेन ब्राह्मण्यं क्षत्रिया गताः  ।
विशेषं ज्ञातुमिच्छामि तपसा दानतस्तथा ॥१०१॥

एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत् ।
अन्यायोपगतैर्द्रव्यैराहृत्य यजने धिया ।
धर्माभिकांक्षी यजते न धर्मफलमश्नुते ॥१०२॥

धर्म्मं चैतं समाख्याय पापात्मा पुरुषाधमः ।
ददाति दानं विप्रेभ्यो लोकानां दम्भकारणात् ॥१०३॥

जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः ।
रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ॥१०४॥

तेन दत्तानि दानानि अफलानि भवन्त्युत ।
तस्य धर्म्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ॥१०५॥

एवं लब्ध्वा धनं मोहाद्ददतो यजतश्च ह ।
सक्लिष्टकर्मणो दानं न तिष्ठति दुरात्मनः ॥१०६॥

न्यायागतानां द्रव्याणां तीर्थे सम्प्रतिपादनम् ।
कामाननभिसन्धाय यजते च ददाति च ॥१०७॥

स दानफलमाप्नोति तच्च दानं सुखोदयम् ।
दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ॥१०८॥

तपसा तु सुतप्तेन लोकान् विष्टभ्य तिष्ठति  ।
विष्टभ्य स तु तेजस्वी लोकेष्वानन्त्यमश्नुते ॥१०९॥

दानाच्छ्रेयांस्तथा यज्ञो यज्ञाच्छ्रेयस्तथा तपः ।
संन्यासस्तपसः श्रेयांस्तस्माज्ज्ञानं गुरुः स्मृतम् ॥११०॥

श्रृयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः ।
विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः ॥१११॥

कपेश्च पुरुकुत्सश्च सत्यश्चानृहवानृथुः
आर्ष्टिषेणोऽमीढश्च भागान्योन्यस्तथैव च ॥११२॥

कक्षीवश्चैव शिजयस्तथान्ये च महारथाः ।
रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ॥११३॥

क्षात्रोपेताः स्मृता ह्येते तपसा ऋषिताङ्गताः  ।
एते राजर्षयः सर्व्वे सिद्धिं सुमहतीङ्गताः ।
अत ऊर्द्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ॥११४॥

इति श्रीमहापुराणे वायुप्रोक्ते चन्द्रवंशकीर्तनं नामोनत्रिशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP