संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ४९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सनत्कुमार उवाच॥
आदौ तु पञ्चतीर्थेषु चोत्तरे मानसे विधिः ।
आचम्य कुशहस्तेन शिरश्चाभ्युक्ष्य वारिणा ॥१॥

उत्तरं मानसं गच्छेन्मन्त्रेण स्नानमाचरेत् ।
उत्तरे मानसे स्नानं करोम्यात्मविशुद्धये ॥२॥

सूर्य्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये ।
देवादींस्तर्पयित्वाथ श्राद्धं कुर्यात् सपिण्डकम् ॥३॥

मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् ।
सूर्य्यं नत्वार्च्चयित्वाथ सूर्य्यलोकं नयेत्पितॄन् ॥४॥

नमो भगवते भर्त्रे सोमभौमज्ञरूपिणे ।
जीवभार्गवसौरेयराहुकेतुस्वरूपिणे ॥५॥

उत्तरान्मानसान्मौनी व्रजेद्दक्षिणमानसम् ।
उदीचीतीर्थमित्युक्तं तत्रौदीच्यं विमुक्तिदम्  ।
अत्र स्नातो दिवं याति स्वशरीरेण मानवः ॥६॥

मध्ये कनखलं तीर्थं त्रिषुलोकेषु विश्रुतम् ।
स्नातः कनकवद्भाति नरो याति पवित्रताम् ॥७॥

तस्य दक्षिणभागे च तीर्थं दक्षिणमानसम् ।
अतः कनखलं लोके ख्यातं तीर्थमनुत्तमम् ॥८॥

दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम् ।
स्नात्वा तेषु विधानेन कुय्याच्छ्राद्धं पृथक्पृथक् ॥९॥

दक्षिणे मानसे स्नानं करोम्यात्मविशुद्धये ।
सूर्य्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये ॥१०॥

ब्रह्महत्यादिपापौघ यातनाया विमुक्तये ।
दिवाकर करोमीह स्नानं दक्षिणमानसे ॥११॥

नमामि सूर्य्यं तृप्त्यर्थं पितॄणां तारणाय च ।
पुत्रपौत्रधनैश्वर्य्यायायुरारोग्य वृद्धये ॥१२॥

अनेन स्नानपूजादि कृत्वा श्राद्धं सपिण्डकम् ।
कृत्वा नत्वा च मौन्यर्कमिमं मन्त्रमुदीरयेत् ॥१३॥

फल्गुतीर्थं व्रजेत्तस्मात् सर्व्वतीर्थोत्तमोत्तमम् ।
मुक्तिर्भवति कर्त्तॄणां पितॄणां श्राद्धतः सदा ॥१४॥

ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा ।
दक्षिणाग्नौ हुतं तत्र तद्रजः फल्गुतीर्थकम् ॥१५॥

तस्मिन्फलति फल्ग्वा गौः कामधेनुर्जलं मही ।
दृष्टेरन्तर्गतं यस्मात्फल्गुतीर्थं न निष्फलम् ॥१६॥

तीर्थानि यानि सर्व्वाणि भुवनेष्वखिलेष्वपि ।
तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ॥१७॥

गङ्गा पादोदकं विष्णोः फल्गुर्ह्यादिगदाधरः ।
स्वयं हि द्रवरूपेण तस्माद्गङ्गाधिकं विदुः ॥१८॥

अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ॥१९॥

फल्गुतीर्थे विष्णुजले करोमि स्नानमादृतः ।
पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये ॥२०॥

फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत् ।
सपिण्डकं स्व॥सूत्रोक्तं नमेदथ पितामहम् ॥२१॥

नमः शिवाय देवाय ईशाय पुरुषाय वै ।
अघोरवामदेवाय सद्योजाताय शम्भवे ॥२२॥

फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ।
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ॥२३॥

नत्वा गदाधरं देवं मन्त्रेणानेन पूजयेत्  ।
ओं नमो वासुदेवाय नमः सङ्कर्षणाय च ॥२४॥

प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे  ।
पञ्चतीर्थे नरः स्नात्वा ब्रह्मलोकं नयेत्पितॄन् ॥२५॥

अमृतैः पञ्चभिः स्नानं पुष्पवस्त्राद्यलंकृतम् ।
न कुर्य्याद्यो गदापाणेस्तस्य श्राद्धमसार्थकम् ॥२६॥

नागकूटाद्गृध्रकूटाद्युपादुत्तरमानसात् ।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थन्तदुच्यते ॥२७॥

मुण्डपृष्ठनगाधस्तात्फल्गुतीर्थमनुत्तमम् ।
अत्र श्राद्धादिना सर्व्वे पितरो मोक्षमाप्नुयुः ॥२८॥

प्रथमेऽह्नि विधिः प्रोक्तो द्वितीये दिवसे व्रजेत् ।
धर्म्मारण्यं तत्र धर्म्मो यस्माद्यज्ञमकारयत् ॥२९॥

गमनाद्ब्रह्मलोकाप्तिर्भवत्येव हि नारद ।
मतङ्ग वाप्यां यः स्नात्वा तर्पणं श्राद्धमाचरेत् ॥३०॥

गत्वा नत्वा मतङ्गेशमिमं मन्त्रमुदीरयेत् ।
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ॥३१॥

मयागत्यमतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता ।
पूर्व्वं हि ब्रह्मतीर्थं च कूपे श्राद्धादि कारयेत् ॥३२॥

तत्कूपयूपयोर्म्मध्ये सर्व्वांस्तारयते पितॄन् ।
धर्म्मं धर्म्मेश्वरं नत्वा महाबोधितरुं नमेत् ॥३३॥

नमस्तेऽश्वत्थराजाय ब्रह्मविष्णुशिवात्मने ।
बोधिद्रमाय कर्तॄणां पितॄणां तारणाय च ॥३४॥

येऽस्मत्कुले मातृवंशे बान्धवा दुर्गतिं गताः ।
त्वद्दर्शनात्स्पर्शनाच्च स्वर्गतिं यान्तु शाश्वतीम् ॥३५॥

ऋणत्रयं मया दत्तं गयामागत्य वृक्षराट् ।
त्वत्प्रसादान्महापापाद्विमुक्तोऽहं भवार्णवात् ॥३६॥

तृतीये ब्रह्मसरसि स्नात्वा श्राद्धं सपिण्डकम् ।
कृत्वा सर्व्वप्रमाणेन मन्त्रेण विधिवत्सुतः ॥३७॥

स्नानं करोमि तीर्थेऽस्मिन् ऋणत्रयविमुक्तये ।
तत्कूपयूपयोर्मध्ये ब्रह्मलोकं नयेत्पितॄन् ॥३८॥

यागं कृत्वोत्थियो यूपो ब्रह्मणा यूप इत्यसौ ।
कृत्वा ब्रह्मसरःश्राद्धं सर्व्वांस्तारयते पितॄन् ॥३९॥

यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ।
ब्रह्माणं च नमस्कृत्य ब्रह्मलोकं नयेत्पितॄन् ॥४०॥

नमोऽस्तु ब्रह्मणेऽजाय जगज्जन्मादिरूपिणे  ।
भक्तानाञ्च पितॄणाञ्च तारकाय नमो नमः ॥४१॥

गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः ।
तेषां सेचनमात्रेण पितरो मोक्षगामिनः ॥४२॥

आम्रं ब्रह्मसरोद्भूतं ब्रह्मदेवमयं तरुम् ।
विष्णुरूपं प्रसिञ्चामि पितॄणां मुक्तिहेतवे ॥४३॥

एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददामि ।
आम्रश्च तृप्ता एका क्रियाद्व्यर्थकरी प्रसिद्धा ॥४४॥

ततो यम बलिं दद्यान्मन्त्रेणानेन संयतः ।
यमराजधर्म्मराजौ निश्चलार्थं व्यवस्थितौ ॥४५॥

ताभ्यां बलिं प्रयच्छामि पुतॄणां मुक्तिहेतवे ।
ततः श्वानबलिं दद्यान्मन्त्रेणानेन नारद ॥४६॥

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां बलिं प्रयच्छामि रक्षेतां पथि सर्व्वादा ॥४७॥

ततः काकबलिं दद्यान्मन्त्रेणानेन नारद ।
ऐन्द्रवारुणवायव्ययाम्या वै नैऋतास्तथा ॥४८॥

वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं समर्पितम् ।
फल्गुतीर्थे चतुर्थेऽह्नि स्नानादिकमथाचरेत् ॥४९॥

गयाशिरस्यथ श्राद्धं पादे कुर्य्यात्सपिण्डकम् ।
साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रितं कृतम् ॥५०॥

नागाज्जनार्द्दनाद्ब्रह्मयूपाच्चोत्तरमानसात् ।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥५१॥

पितामहं समासाद्य यावदुत्तरमानसम् ।
फल्गुतीर्थन्तु विज्ञेयं देवानामपि दुर्लभम् ॥५२॥

क्रौञ्चपादात्फल्गुतीर्थं यावत्साक्षाद्गयाशिरः ।
मुखं गयासुरस्यैतत्तस्माच्छ्राद्धमिहाक्षयम् ॥५३॥

मुण्डपृष्ठान्नगाधस्तात्साक्षात्तत्फल्गुतीर्थ कम् ।
आद्यो गदाधरो देवो व्यक्ताव्यक्तात्मना स्थितः ॥५४॥

विष्ण्वादिपदरूपेण पितॄणां मुक्तिहेतवे ।
एतद्विष्णुपदं दिव्यं दर्शनात्पापनाशनम् ॥५५॥

स्पर्शनात्पूजनाद्वापि पितॄणां दत्तमक्षयम् ।
श्राद्धं सपिण्डकं कृत्वा कुलसाहस्रमात्मना ॥५६॥

नयेद्विप्णुपदं दिव्यमनन्तं शिवमव्ययम् ।
श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः ॥५७॥

सहात्मना शिवपुरं तथा ब्रह्मपदे नरः ।
ब्रह्मलोकं कुलशतं समुद्धृत्य नयेत्पितॄन् ॥५८॥

कश्यपस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ।
दक्षिणाग्निपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥५९॥

गार्हपत्यपदे श्राद्धी वाजपेयफलं लभेत् ।
श्राद्धं कृत्वाहवनीये अश्वमेधफलं लभेत् ॥६०॥

श्राद्धं कृत्वा सभ्यपदे ज्योतिष्टोमफलं लभेत्  ।
आवसथ्यपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥६१॥

श्राद्धं कृत्वा शक्रपदे इन्द्रलोकं नयेत्पितॄन् ।
अगस्त्यस्य पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥६२॥

क्रौञ्चमातङ्गयोः श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ।
श्राद्धी सूर्य्यपदे पञ्च पापिनोऽर्क्कपुरं नयेत् ॥६३॥

कार्तिकेयपदे श्राद्धी शिवलोकं नयेत्पितॄन् ।
गणेशस्य पदे श्राद्धी रुद्रलोकं नयेत्पितॄन् ॥६४॥

गजकर्णतर्पणकृन्निर्मलं स्वर्नयेत्पितॄन् ।
अन्येषाञ्च पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥६५॥

सर्व्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम् ।
ब्रह्मणश्च पदं चापि श्रेष्ठं तत्र प्रकीर्त्तितम् ॥६६॥

प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतम् ।
श्रेयस्करं भवेत्तत्र श्राद्धकर्त्तुश्च नारद ॥६७॥

कश्यपस्य पदे दिव्ये भारद्वाजो मुनिः पुरा ।
श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ॥६८॥

शुक्लकृष्णौ ततो हस्तौ पदमुद्भिद्य निर्गतौ ।
दृष्ट्वा हस्तद्वयं तत्र मुनिः संशयमागतः ॥६९॥

ततः स्वमातरं शान्तां पप्रच्छ स महामुनिः ।
कश्यपस्य पदे दिव्ये शुक्ले कृष्णेऽथ वा करे ॥७०॥

पिण्डो देयो मया मातर्जानासि पितरं वद॥
॥शान्तोवाच॥
भारद्वाज महाप्राज्ञ देहि कृष्णाय पिण्डकम् ॥७१॥

भारद्वाजस्ततः पिण्डं दातुं कृष्णाय चोद्यतः ।
श्वेतोऽदृश्योऽब्रवीत्तत्र पुत्रस्त्वं हि ममौरसः ॥७२॥

कृष्णोऽब्रवीन्मम क्षेत्रं ततो मे देहि पिण्डकम् ।
स्वैरिण्यथाब्रवीद्दातुं क्षेत्रिणे बीजिने ततः ॥७३॥

भारद्वाजस्ततः पिण्डं कश्यपस्य पदे ददौ  ।
हंसयुक्तविमानेन ब्रह्मलोकमुभौ गतौ ॥७४॥

रामो रुद्रपदे श्राद्धे पिण्डदानाय चोद्यतः ।
पिता दशरथः स्वर्गात्प्रसार्य्य करमागतः ॥७५॥

नादात्पिण्डं करे रामो ददौ रुद्रपदे ततः ।
शास्त्रार्थातिक्रमाद्भीतं रामं दशरथोऽब्रवीत् ॥७६॥

तारितोऽहं त्वया पुत्र रुद्रलोकमवाप्नुयाम् ।
हस्ते पिण्डप्रदानेन स्वर्गतिर्न हि मे भवेत् ॥७७॥

त्वञ्च राज्यं चिरं कृत्वा पालयित्वा द्विजान्प्रजाः ।
यज्ञान्सदक्षिणान्कृत्वा विष्णुलोकं व्रजिष्यसि ॥७८॥

पुर्य्ययोध्याजनैः सार्द्धं कृमिकीटादिभिः सह ।
इत्युक्त्वासौ दशरथो रुद्रलोकं परं ययौ ॥७९॥

भीष्मो विष्णुपदे श्रेष्ठे आहूय पितरं स्वकम् ।
श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ॥८०॥

पितुर्विनिर्गतौ हस्तौ गयाशिरसि शन्तनोः ।
नादात्पिण्डं करो भीष्मो ददौ विष्णुपदे ततः ॥८१॥

शन्तनुः प्राह सन्तुष्टः शास्त्रार्थे निश्चलो भवान् ।
त्रिकालदृष्टिर्भवत् चान्ते विष्णुश्च ते गतिः ॥८२॥

स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः ।
कनकेशञ्च केदारं नारसिंहं च वामनम् ॥८३॥

उदङ्मार्गे समभ्यर्च्च्य पितॄन्सर्व्वांश्च तारयेत् ।
गयाशिरसि यः पिण्डान्येषां नाम्ना तु निर्वपेत् ॥८४॥

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।
गयाशिरसि यः पिण्डं शमीपत्रप्रमाणतः ॥८५॥

कन्दमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन् ।
पदानि यत्र दृश्यन्ते विष्ण्वादीनां तदग्रतः ॥८६॥

श्राद्धं कृत्वा सपिण्डञ्च तेषां लोकान्नयेत्पितॄन् ।
सर्व्वत्र मुण्डपृष्ठाद्रिः पदैरेभिः सुलक्षितः ॥८७॥

प्रयान्ति पितरः सर्व्वे ब्रह्मलोकमनामयम् ।
हेत्यसुरस्य यच्छीर्षं गदया तद्द्विधाकृतम् ॥८८॥

ततः प्रक्षालिता यस्मात्तीर्थं तच्च विमुक्तये ।
गदालोलमिति ख्यातं सर्व्वेषामुत्तमोत्तमम् ॥८९॥

गदालोले महातीर्थे गदाप्रक्षालनाद्धरेः ।
स्नानं करोमि सिद्ध्यर्थमक्षयं पदमाप्नुयाम् ॥९०॥

पञ्चमेऽह्नि गदालोले स्नात्वा कुर्य्यात्सपिण्डकम् ।
श्राद्धं पितॄन्ब्रह्मलोकं नयेदात्मानमेव च ॥९१॥

ब्रह्मप्रकल्पितान्विप्रान् हव्यकव्यादिनार्च्चयेत् ।
तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सह देवताः ॥९२॥

कृते श्राद्धेऽक्षयवटे अन्नेनैव प्रयत्नतः ।
पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम् ॥९३॥

वटवृक्षसमीपे तु शाकेनाप्युदकेन वा ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥९४॥

देयं दानं षोडशकं गयातीर्थपुरोधसे ।
वस्त्रं गन्धादिभिः पुत्रैः सम्यक्संपूज्य यत्नतः ॥९५॥

गयातीर्थवटे चैव पितॄणां दत्तमक्षयम्  ।
दृष्ट्वा नत्वा च संपूज्य वटेशं सुसमाहितः ॥९६॥

पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम् ।
गयायां धर्म्मपृष्ठे च सरसि ब्रह्मणस्त था ॥९७॥

गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम् ।
एकार्णवे वटस्याग्रे यः शेते योगनिद्रया ॥९८॥

बालरूपधरस्तस्मै नमस्ते योगशायिने ।
संसारवृक्षशस्त्रायाशेषपापहराय च ॥९९॥

अक्षयब्रह्मदात्रे च नमोऽक्षयवटाय वै ।
कलौ माहेश्वरा लोका येन तस्माद्गदाधरः  ।
लिङ्गरूपोऽभवत्तञ्च वन्दे श्रीप्रपितामहम् ॥१००॥

इति श्रीवायुपुराणे वायुप्रोक्ते गयामाहात्म्यं नामोनपञ्चाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP