संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३५

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


मनुष्यप्रकृतीन् देवान् कीर्त्यमानान्निबोधत  ।
सङ्कर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ॥१॥

अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः ।
सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ॥२॥

शालकी बदरश्चैव विद्वान् धन्वन्तरिस्तथा ।
नन्दिनश्च महादेवः शालङ्कायन उच्यते ।
आदिदेवस्तदा जिष्णुरेभिश्च सह दैवतैः ॥३॥

॥ऋषय ऊचुः॥

विष्णुः किमर्थं सम्भूतः स्मृताः सम्भूतयः कति ।
भविष्याः कति वान्ये तु प्रादुर्भावा महात्मनः ॥४॥

ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते  ।
पुनः पुनर्म्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥५॥

विस्तरेणैव सर्वाणि कर्म्माणि रिपुघातिनः ।
श्रोतुमिच्छामहे सम्यग् देहैः कृष्णस्य धीमतः ॥६॥

कर्म्मणामानुपूर्व्यञ्च प्रादुर्भावाश्च ये प्रभो  ।
या चास्य प्रकृतिः॥सूत ताश्चास्मान् वक्तुमर्हसि ॥७॥

कथं स भगवान् विष्णुः सुरेष्वरिनिषूदनः ।
वसुदेवकुले धीमान् वासुदेवत्वमागतः ॥८॥

अमरैः॥सूत किं पुण्यं पुण्यकृद्भिरलंकृतम् ।
देवलोकं समुत्सृज्य मर्त्यलोकमिहागतः ॥९॥

देवमानुषयोर्नेता भूर्भुवःप्रसवो हरिः ।
किमर्थं दिव्यमात्मानं मानुषे समवेशयत् ॥१०॥

यश्चक्रं वर्तयत्येको मनुष्याणां मनोमयम् ।
मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥११॥

गोपायनं यः कुरुते जगतां सार्व्वलौकिकम् ।
स कथं गां गतो विष्णुर्गोपमन्वकरोत्प्रभुः ॥१२॥

महाभूतानि भूतात्मा यो ददार चकार ह ।
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥१३॥

येन लोकान् क्रमैर्जित्त्वा त्रिभिस्त्रींस्त्रिदशेप्सया ।
स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ॥१४॥

योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः ।
लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्त्मना ॥१५॥

यः पुराणे पुराणात्मा वाराहं वपुरास्थितः ।
ददौ जित्त्वा वसुमतीं सुराणां सुरसत्तमः ॥१६॥

येन सैंहं वपुः कृत्वा द्विधाकृत्वा च यत्पुनः ।
पूर्व्वदैत्यो महावीर्य्यो हिरण्यकशिपुर्हतः ॥१७॥

यः पुरा ह्यनलो भूत्वा और्व्वः संवर्त्तको विभुः ।
पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ॥१८॥

सहस्रचरणं देवं सहस्रांशुं सहस्रशः ।
सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥१९॥

नाभ्यारण्याः समुद्भूतं यस्य पैतामहं गृहम् ।
एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥२०॥

येन ते निहता दैत्याः संग्रामे तारकामये ।
सर्व्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥२१॥

गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः ।
उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः ।
यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥२२॥

पुराणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम् ।
शक्रञ्च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ॥२३॥

यदानिलो लोकपदानि हृत्वा चकार दैत्यान् सलिलेशयांस्तान्  ।
कृत्वादिदेवस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव ॥२४॥

गार्हपत्येन विधिना अन्वाहार्य्येण कर्म्मणा ।
अग्निमाहवनीयञ्च वेदिञ्चैव कुशस्रवम् ॥२५॥

प्रोक्षणीयं स्रुवञ्चैव अवभृथं तथैव च ।
अथ त्रीनिह यश्चक्रे हव्यभाग प्रदान्मखे ॥२६॥

हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि ।
भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्म्मणि ॥२७॥

यूपान् समित्स्रुवं सोमं पवित्रं परिधीनपि ।
यज्ञियानि च द्रव्याणि यज्ञीयांश्च तथानलान् ॥२८॥

सदस्यान् यजमानांश्च अश्वमेधान् क्रतूत्तमान् ।
विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्म्मणा ॥२९॥

युगानुरूपं यः कृत्वा त्रील्लोँकान् हि यथाक्रमम् ।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ॥३०॥

मुहूर्त्तास्तिथयो मासा दिनसंवत्सरास्तथा ।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधन्तथा ॥३१॥

आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम् ।
मेधा वित्तं च शौर्य्यञ्च शास्त्रस्यैव च पारणम् ॥३२॥

त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः ।
त्रैकाल्यं त्रीणि कर्म्माणि तिस्रो मायास्त्रयो गुणाः ॥३३॥

सृष्टा लोकाः सुराश्चैव येनात्यन्तेन कर्म्मणा ।
सर्व्वभूतगणाः सृष्टाः सर्व्वभूतगणात्मना ॥३४॥

नृणामिन्द्रियपूर्व्वेण योगेन रमते च यः  ।
गतागतानां यो नेता सर्व्वत्र विविधेश्वरः ॥३५॥

यो गतिर्धर्मयुक्तानामगतिः पापकर्म्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥३६॥

चातुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः ।
दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥३७॥

चन्द्रसूर्य्यद्वयं ज्योतिर्युगेशः क्षणदाचरः ।
यः परः श्रूयते देवो यः परं श्रूयते तपः ॥३८॥

यः परन्तपसः प्राहुर्यः परम्परमात्मवान् ।
आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥३९॥

युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः ।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्म्मणाम् ॥४०॥

वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ।
सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥४१॥

मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम्  ।
विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥४२॥

विग्रहो विग्रहाणां यो गतिर्गतिमतामपि ।
आकाश प्रभवो वायुर्वायुप्राणा हुताशनः ॥४३॥

दिवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः ।
रसोऽभवच्छोणितं वै शोणितान्मांसमुच्यते ॥४४॥

मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते ।
अस्थ्ना मज्जा समभवन्मज्जातः शुक्रसम्भवः ॥४५॥

शुक्राद्घर्भः समभवद्रसमूलेन कर्म्मणा ।
तत्रापि प्रथमञ्चापस्ताः सौम्यराशिरुच्यते ॥४६॥

गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते ।
शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम् ॥४७॥

भावौ रसानुगावेतौ वीर्य्ये च शशिपावकौ ।
कफवर्गेऽभवच्छुक्रं पित्तवर्गे च शोणितम् ॥४८॥

कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् ।
देहस्य मध्ये हृदयं स्थानन्तु मनसः स्मृतम् ॥४९॥

नाबिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः ।
मनः प्रजापतिर्ज्ञेयं कफः सोमो विभाव्यते ॥५०॥

पित्तमग्निः स्मृतावेतावग्निसोमात्मकं जगत् ।
एवं प्रवर्त्तितो गर्भो वर्त्ततेऽम्बुदसन्निभः ॥५१॥

वायुः प्रवेशनं चक्रे सङ्गतः परमात्मना ।
स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत् पुनः ॥५२॥

प्राणापानौ समानश्च उदानो व्यान एव च ।
प्राणोऽस्य परमात्मानं वर्द्धयन् परिवर्त्तते ॥५३॥

अपानः पश्चिमं कायमुदानोर्द्ध्वशरीरगः ।
व्यानो व्यानस्यते येन समानः सर्व्वसन्धिषु ॥५४॥

भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥५५॥

सर्व्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे ।
पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ॥५६॥

छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते  ।
तेजश्चक्षुःष्विता ज्योत्स्ना तेषां यन्नामतः स्मृतम् ।
सङ्ग्रामा विषयाश्चैव यस्य वीर्य्यात्प्रवर्त्तिताः ॥५७॥

इत्येतान् पुरुषः सर्व्वान् सृजँल्लोकान् सनातनः ।
नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुरागतः ॥५८॥

एष नः संशयो धीमन्नेष वै विस्मयो महान्  ।
कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ॥५९॥

श्रोतुमिच्छामहे विष्णोः कर्म्माणि च यथाक्रमम् ।
आश्चर्य्याणि परं विष्णुर्वेददेवैश्च कथ्यते ॥६०॥

विष्णोरुत्पत्तिमाश्चर्य्यं कथयस्व महामते ।
एतदाश्चर्य्यमाख्यानं कथ्यतां वै सुखावहम् ॥६१॥

प्रख्यातबलवीर्य्यस्य प्रादुर्भावा महात्मनः ।
कर्म्मणाश्चर्य्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ॥६२॥

॥सूत उवाच॥
अहञ्च कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः ।
यथा स भगवाञ्जातो मानुषेषु महातपाः ॥६३॥

सप्तसप्ततपः प्रोक्ता भृगुशापेन मानुषे ।
जायते च युगान्तेषु देवकार्य्यर्थसिद्धये ॥६४॥

तस्य दिव्यतनुं विष्णोर्गदतो मे निबोधत ।
युगधर्म्मे परावृत्ते काले च शिथिले प्रभुः ॥६५॥

कर्तुं धर्म्मव्यवस्थानं जायते मानुषेष्विह ।
भृगोः शापनिमित्तेन देवासुरकृतेन च ॥६६॥

॥ऋषय ऊचुः॥
कथं देवासुरकृते अध्याहारमवाप्नुयात् ।
एतद्वेदितुमिच्छामो वृत्तं दैवासुरं कथम् ॥६७॥

॥सूत उवाच॥
दैवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत ।
हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक् प्रशासति ॥६८॥

बलिनाधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात् ।
सख्यमासीत्परं तेषां देवानामसुरैः सह ॥६९॥

युगं वै दशसङ्कीर्णमासीदव्याहतं जगत् ।
निदेशस्थायिनश्चैव तयोर्देवासुराभवन् ॥७०॥

बलवान् वै विवादोऽयं संप्रवृत्तः सुदारुणः ।
देवासुराणां च तदा घोरक्षयकरो महान् ॥७१॥

तेषां दायनिमित्तं वै संग्राणा बहवोऽभवन् ।
वाराहेऽस्मिन् दश द्वौ च षण्डामार्कोत्तराः स्मृता ॥७२॥

नामतस्तु समासेन श्रृणुध्वं तान् विवक्षतः ।
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥७३॥

तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्धनः ।
संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ॥७४॥

षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः ।
अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ॥७५॥

वार्त्तश्च दशमो ज्ञेयस्ततो हाला हलः स्मृतः ।
स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ॥७६॥

हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः ।
वामनेन बलिर्वद्धस्त्रैलोक्याक्रमणे कृते ॥७७॥

हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे तु दैवतैः ।
महाबलो महासत्त्वः संग्रामेष्वपराजितः ॥७८॥

दंष्ट्रायान्तु वराहेण समुद्राद्भूर्यदा कृता  ।
प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ॥७९॥

विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः ।
इन्द्रेणैव स विक्रम्य निहतस्तारकामये ॥८०॥

भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः ।
सञ्जभो निहतः षष्ठे शक्राविष्टेन विष्णुना ॥८१॥

अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम्  ।
निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ॥८२॥

अष्टमे त्वसुराश्चैवं राक्षसाश्चान्धकारकाः ।
जितदेवमनुष्यैस्तु पितृभिश्चैव सङ्गतान् ॥८३॥

संवृतान् दानवांश्चैव सङ्गतान् कृत्स्नशश्च तान्  ।
तथा विष्णुसहायेन महेन्द्रेण निबर्हिताः ॥८४॥

हतो ध्वजो महेन्द्रेण मायाच्छन्नश्च योधयन् ।
ध्वजे लक्ष्यं समाविश्य विप्रवर्त्तिर्महाभुजः ॥८५॥

दैत्यांश्च दानवांश्चैव संहतान् कृत्स्नशश्च तान् ।
रजिः कोलाहले सर्वान् देवैः परिवृतोऽजयत् ।
यज्ञामृतेन विजितौ षण्डामार्कौ तु दैवतैः ॥८६॥

एते दैवासुरा वृत्ताः संग्रामा द्वादशैव तु ।
देवासुरक्षयकराः प्रजानामशिवाय च ॥८७॥

हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ।
तथा शतसहस्राणि ह्यदिकानि द्विसप्ततिः  ।
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥८८॥

पर्याये तस्य राजाऽनु बलिर्वर्षार्बुदं पुनः  ।
षष्टिं चैव सहस्राणि त्रिंशतं नियुतानि च ॥८९॥

बले राज्याधिकारस्तु यावत्कालं बभूव ह ।
प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदासुरैः ॥९०॥

इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः  ।
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥९१॥

असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा ।
त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ॥९२॥

प्रह्लादस्य ततश्चादस्त्रैलोक्यं कालपर्ययात्  ।
पर्यायेण च संप्राप्ते त्रैलोक्ये पाकशासनः ॥९३॥

ततोऽसुरान् परित्यज्य यज्ञे देवा उपागमन्  ।
यज्ञे देवानथ गते काव्यं ते ह्यसुराब्रुवन् ॥९४॥

कृतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः ।
स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ॥९५॥

एवमुक्तोऽब्रवीदेतान् विषण्णः सान्त्वयन् गिरा ।
माभैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ॥९६॥

वृष्टिरोषधयश्चैव रसा वसु च यद्वयम् ।
कृत्स्ना मयि च तिष्ठन्ति पादस्तेषां सुरेषु वै ।
युष्मदर्थं प्रदास्यामि तत्सर्वं धार्यते मया ॥९७॥

ततो देवासुरान् दृष्ट्वा धृतान् काव्येन धीमता ।
अमन्त्रयंस्तदा ते वै संविग्ना विजिगीषया ॥९८॥

एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात्  ।
साधु गच्छामहे तूर्णं क्षीणान्नाप्याययस्व तान्  ।
प्रसह्य हत्वा शिष्टान् वै पातालं प्रापयामहे ॥९९॥

ततो देवाः सुसंरब्धा दानवानभिसृत्य वै ।
जध्नुस्तै र्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥१००॥

ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् ।
समरेऽक्त्रक्षतार्त्तांस्तान् देवेभ्यस्तान् दितेः सुतान् ॥१०१॥

काव्यो दृष्ट्वा स्थितान् देवान् तत्र देवोऽभ्यचिन्तयत् ।
तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥१०२॥

त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः  ।
बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥१०३॥

महार्हेषु द्वादशसु संग्रामेषु सुरैर्हताः ।
तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥१०४॥

किञ्चिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम् ।
नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् ॥१०५॥

यास्याम्यहं महादेवं मन्त्रार्थे विजयाय वः ।
अग्निमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ॥१०६॥

ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम् ।
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ॥१०७॥

यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने ।
न वै देवा वधिष्यन्ति यावदागमनं मम ॥१०८॥

अप्रतीपांस्ततो मन्त्रान् देवात् प्राप्य महेश्वरात् ।
योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥१०९॥

ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः ।
न्यस्तवादा वयं सर्वे लोकान् यूयं क्रमन्तु वै ॥११०॥

वयं तपश्चरिष्यामः संवृता वल्कलैर्वने ।
प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ॥१११॥

ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह ।
न्यस्तशस्त्रेषु दैत्येषु स्वान् वै जग्मुर्यथागतान् ॥११२॥

ततस्तानब्रवीत्काव्यः कञ्चित्कालमुपास्यताम् ।
निरुत्सुकैस्तपोयुक्तैः कालं कार्यार्थसाधकैः ।
पितुर्ममाश्रमस्था वै सर्वे देवाः सवासवाः ॥११३॥

स सन्दिश्यासुरान् काव्यो महादेवं प्रपद्य च ।
प्रणम्येनसुवाचाथ जगत्प्रभवमीश्वरम् ॥११४॥

मन्त्रानिच्छाम्यहं देव मे नसन्ति बृहस्पतौ ।
पराभवाय देवानामसुरेष्वभयावहान् ॥११५॥

एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज ।
व्रतं चर मयो द्दिष्टं ब्रह्मचारी समाहितः ॥११६॥

पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः ।
यद्युपास्यसि भद्रन्ते मत्तो मन्त्रमवाप्स्यसि ॥११७॥

तथोक्तो देव देवेन स शुक्रस्तु महातपाः ।
पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ॥११८॥

व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो ।
ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत् ॥११९॥

असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा ।
मन्त्रार्थं तत्र वसति ब्रह्मचर्ये महेश्वरः ॥१२०॥

तद्बुद्ध्वा नातिपूर्वन्तु राज्यं न्यस्तं तदासुरैः ।
तस्मिञ्छिद्रे तदामर्षा देवास्तान् समभिद्रवन् ।
निशितात्तायुधाः सर्वे बृहस्पतिपुरोगमाः ॥१२१॥

दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान् पुनः ।
उत्पेतुः सहसा सर्वे सन्त्रस्तास्ते ततोऽभवन् ॥१२२॥

न्यस्तशस्त्रे जये दत्ते आचार्यव्रतमास्थिते ।
सन्त्यज्य. समयं देवास्ते सपत्नजिघांसवः ॥१२३॥

अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसि स्थिताः ।
चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥१२४॥

रणे विजेतुं देवान् वै नशक्ष्यामः कथञ्चन ।
अशुद्धेन प्रपद्यामः शरणं काव्यमातरम् ॥१२५॥

ज्ञापयामस्ततमिदं यावदागमनं गुरोः ।
विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान् सुरान् ॥१२६॥

एवमुक्त्वा सुरान् योग्यं शरणं काव्यमातरम् ।
प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ॥१२७॥

दत्तन्तेषान्तु भीतानां दैत्या नामभयार्थिनाम् ।
न भेतव्यं न भेतव्य भयन्त्यजत दानवाः ॥१२८॥

मत्सन्निधौ वर्ततां वो न भीर्भवितुमर्हति ।
भयाच्चाप्यभिपन्नांस्तान् दृष्ट्वा देवासुरांस्तदा ॥१२९॥

अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ।
तांस्त्रस्तान् वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥१३०॥

देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम् ।
संस्तभ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥१३१॥

ततः संस्तम्भितं दृष्ट्वा शक्रंदेवास्तु यूपवत् ।
व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥१३२॥

गतेषु सुरसङ्घेषु विष्णुरिन्द्रमभाषत ।
मांत्वं प्रविश भद्रन्ते नेष्यामि त्वां सुरेश्वर ॥१३३॥

एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः ।
विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥१३४॥

एषा त्वां विष्णुना सार्द्धं दहामि मघवानिव ।
मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥१३५॥

तयाभिभूतौ तौ देवाविन्द्रविष्णू जजल्पतुः ।
कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत ॥१३६॥

इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नौ न दहेद्विभो ।
विशेषेणाभिभूतोऽहमतस्त्वञ्च हि मा चिरम् ॥१३७॥

ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः ।
अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥१३८॥

तस्याः सत्वरमाणायाः शीघ्रकारी सुरारिहा ।
स्त्रिया विष्णुस्ततो देव्या क्रूरं बुद्ध्वा चिकीर्षितम् ।
क्रुद्धस्तदस्त्रमाविद्ध्य शिरश्चिच्छेद माधवः ॥१३९॥

तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः ।
ततोऽभिशस्तो भृगुणा विष्णुर्भार्यावधे तदा ॥१४०॥

यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता ।
तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रपत्स्यसि ॥१४१॥

ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः ।
लोके सर्वहितार्थाय जायते मानुषेष्विह ॥१४२॥

अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम् ।
समानीय ततः काये अपो गृह्येदमब्रवीत् ॥१४३॥

एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम्  ।
यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ।
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥१४४॥

सत्याभिव्याहृता तस्या देवी संजीविता तदा ।
तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥१४५॥

ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव ।
साधु साध्वित्यदृश्यानां वाचस्ताः सस्वरुर्दिशः ॥१४६॥

दृष्ट्वा सञ्जीवितामेवं देवीं तां भृगुणा तदा ।
मिषतां सर्वभूतानां तदद्भुतमिवाभवत् ॥१४७॥

असंभ्रान्तेन भृगुणा पत्नीं सञ्जीवितां ततः ।
दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥१४८॥

प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् ।
प्रोवाच मतिमान् वाक्यं स्वां कन्यां पाकशासनः ॥१४९॥

एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः ।
तेनाहं व्याकुलः पुत्रि कृतो धृतिमता दृढम् ॥१५०॥

गच्छ सम्भावयस्वैनं श्रमापनयनैः शुभैः ।
तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥१५१॥

देवी सा हीन्द्रतुहिता जयन्ती शुभचारिणी ।
युक्तध्यानञ्च शाम्यं तं दुर्बलं धृतिमास्थितम् ॥१५२॥

पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा ।
गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी ॥१५३॥

गात्रसंवाहनैः काले सेवमाना सुखावहैः  ।
शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥१५४॥

पूर्णे धूमव्रते चापि घोरे वर्षसहस्रिके  ।
वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ॥१५५॥

एवं ब्रुवंस्त्वयैकेन चीर्णं नान्येन केनचित् ।
तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ॥१५६॥

तेजसा चापि विबुधान् सर्वानभिभविष्यसि ।
यच्च किञ्चिन्मम ब्रह्मन् विद्यते भृगुनन्दन ॥१५७॥

साङ्गञ्च सरहस्यञ्च यज्ञोपनिषदान्तथा ।
प्रतिभास्यति ते सर्वं तच्चाद्यन्तं न कस्यचित् ॥१५८॥

सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि ।
एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ॥१५९॥

अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ ।
एतान् लब्ध्वा वरान् काव्यः सम्प्रहृष्टतनूरुहः ॥१६०॥

हर्षात् प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम् ।
तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ॥१६१॥

नमोऽस्तु शितिकण्ठाय सुरापाय सुवर्चसे ।
रिरिहाणाय लोपाय वत्सराय जगत्पते ॥१६२॥

कपर्दिने ह्यूर्द्ध्वरोम्णे हयाय करणाय च ।
संस्कृताय सुतीर्थाय देवदेवाय रंहसे ॥१६३॥

उष्णीषिणे सुवक्राय सहस्राक्षाय मीढुषे ।
वसुरेताय रुद्राय तपसे चीरवाससे ॥१६४॥

ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ॥१६५॥

कवये राजवृद्धाय तक्षकक्रीडनाय च ।
गिरिशायार्कनेत्राय यतिने जाम्बवाय च ।
सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ॥१६६॥

सहस्रबाहवे चैव सहस्रामलचक्षुषे ।
सहस्रकुक्षये चैव सहस्रचरणाय च ॥१६७॥

सहस्रशिरसे चैव बहुरूपाय वेधसे ।
भवाय विश्वरूपाय श्वेताय पुरुषाय च ॥१६८॥

निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च ।
ताम्राय चैव भीमाय उग्राय च शिवाय च ॥१६९॥

बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ।
महादेवाय शर्व्वाय विश्वरूपशिवाय च ॥१७०॥

हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च  ।
पिनाकिने चेषुमते चित्राय रोहिताय च ॥१७१॥

दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा ।
मृगव्याधाय सर्पाय स्थाणवे भीषणाय च ॥१७२॥

बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च ।
कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥१७३॥

वास्तोष्पते विनाकाय शङ्कराय शिवाय च ।
आरण्याय गुहस्थाय यतिने ब्रह्मचारिणे ॥१७४॥

साङ्ख्याय चैव योगाय ध्यानिने दीक्षिताय च ।
अन्तर्हिताय शर्व्वाय मान्याय मालिने तथा ॥१७५॥

बुद्धाय चैव पुण्याय धार्मिकाय शुभाय च ।
रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये ॥१७६॥

चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च ।
शिखण्डिने कपालाय दंष्ट्रिणे विश्वमेधसे ॥१७७॥

अप्रतीघाताय दीप्ताय भास्कराय सुमेधसे ।
क्रूराय विकृतायैव बीभत्साय शिवाय च ॥१७८॥

सौम्याय चैव पुण्याय धार्मिकाय शुभाय च ।
अवध्याय मृताङ्गाय नित्याय शाश्वताय च ॥१७९॥

साद्याय शरभायैव शूलिने च त्रिचक्षुषे ।
सोमपायाज्यपायैव धूमपायोष्मपाय च ॥१८०॥

शुचये रेरिहाणाय सद्योजाताय मृत्यवे ।
पिशिताशाय खर्वाय मेधाय वैद्युताय च ॥१८१॥

व्याश्रिताय श्रविष्टाय भारतायान्तरिक्षये ।
क्षमाय सह मानाय सत्याय तपनाय च ॥१८२॥

त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च ।
तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ॥१८३॥

रोचमानाय खण्डाय स्फीताय ऋषभाय च ।
भोगिने पुञ्जमानाय शान्तायैवोर्द्ध्वरेतसे ॥१८४॥

अघघ्नाय मख्घ्नाय मृत्यवे यज्ञियाय च ।
कृशानवे प्रचेताय वह्नये किशलाय च ॥१८५॥

सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे ।
क्षिप्रेगवे सुधन्वाय प्रमेध्याय प्रियाय च ॥१८६॥

रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च ।
विभ्रान्ताय महन्ताय अन्तये दुर्गमाय च ॥१८७॥

दक्षाय च जघन्याय लोकानामीश्वराय च ।
अनामयाय चोर्द्ध्वाय संहत्याधिष्ठिताय च ॥१८८॥

हिरण्यबाहवे चैव सत्याय शमनाय च ।
असिकल्याय माघाय रीरिण्यायैकचक्षुषे ॥१८९॥

श्रेष्ठाय वामदेवाय ईशानाय च धीमते ।
महाकल्पाय दीप्ताय रादेनाय हसाय च ॥१९०॥

वृतधन्वने कविचिने रथिने च वरूथिने ।
भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ॥१९१॥

अघाय अघशंसाय विप्रियाय प्रियाय च  ।
दिग्वासःकृत्तिवासाय भगघ्नाय नमोऽस्तु ते ॥१९२॥

पशूनां पतये चैव भूतानां पतये नमः ।
प्रणने ऋग्यजुःसाम्ने स्वधायै च सुधाय च ॥१९३॥

वषट्कारतमायैव तुभ्यमन्तात्मने नमः  ।
स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ॥१९४॥

भूतभव्यभवायैव तुभ्यं कालात्मने नमः ।
वसवे चैव साध्याय रुद्रादित्याश्विनाय च ॥१९५॥

विश्वाय मरुते चैव तुभ्यन्देवात्मने नमः ।
अग्निसोमर्त्विगिज्याय पशुमन्त्रौषधाय च ॥१९६॥

दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः  ।
तपसे चैव सत्याय त्यागाय च शमाय च ॥१९७॥

अहिंसायाप्यलोभाय सुवेशायातिशाय च ।
सर्वभूतात्मभूताय तुभ्यं योगात्मने नमः ॥१९८॥

पृथिव्यै चान्तरिक्षाय दिवाय च महाय च ।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥१९९॥

अव्यक्तायाथ महते भूतायैवोन्द्रियाय च  ।
तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ॥२००॥

नित्याय चार्थलिङ्गाय सूक्ष्माय चेतनाय च ।
शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः ॥२०१॥

नमस्ते त्रिषु लोकेषु स्वरान्तेषु भवादिषु ।
सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ॥२०२॥

नमःस्तोत्रे मया ह्यस्मिन् सदसद्व्याहृतं विभो ।
मद्भक्त इति ब्रह्मण्य सर्वन्तत् क्षन्तुमर्हसि ॥२०३॥

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शम्भुस्तवकीर्त्तनं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP