संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
चतुर्थी पद्धतिः ।

भिक्षाटनकाव्यम् - चतुर्थी पद्धतिः ।

उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।


प्रेमोत्तरैः प्रियसखीवचनैरलङ्घयै-
रुत्तीर्य मण्डनविधानधुरं क(थं)चित् ।
वीथीसमागतवृषाङ्कविलोकनाय
निर्जग्मुरायतदृशो निजमन्दिरेभ्यः ॥१॥

काचित्पदाप्रगलितेन गृहात्प्रयाती
लाक्षारसेन पदवीमरुणीचकार ।
सा च क्षणेन सरणीश्चरणाग्रमस्याः
कस्योपकर्तुमुपकर्तरि नैव वाञ्छा ॥२॥

कस्याश्चिदात्तरभसे गमने प्रवृत्ते
काञ्ची पपात पदयोः करुणं क्वणन्ती ।
मध्यव्यपायगणनव्यथयेव कर्तुं
विच्छित्तिमाशु गमनोद्यमसाहसस्य ॥३॥

किंचिद्विलम्बितभरेण पयोधरस्य
तूर्णं गतास्वपि सखीषु हरोपकण्ठम् ।
तादृग्विधस्तनविजृम्भणमूलमेषा
सर्वार्थनीयमपि मध्यवयो निनिन्द ॥४॥

कृच्छे्ण कापि गुरुणैव जनेन रोध.
मुल्लङ्घय शंकरसमीपनभिप्रतस्थे।
हा हन्त शीघ्रगमनप्रतिरोधहेतु-
स्तस्यां पुनः स्तनभरोऽपि गुरुर्बभूव ॥५॥

काचिन्निवारितबहिर्गमना जनन्या
द्रष्टुं हरं भवनजालकमाससाद ।
तत्या विलोपनमदृश्यत दाशयत-
यज्ञोपरुद्धशफरोपमितं क्षणेन ॥६॥

कृत्वा मसीमलिनमीक्षणमेकमेका
वैकल्पभूषणमथ्यान्यदिवाव रथ्यान् ।
किं नैव जैत्रमनवो(यो)र्मदनास्त्रमेकं
दग्धं विषेण यदि रूढकलङ्कमन्यत् ॥७॥

ईशावलोकनकुतूहलमश्रुलेशै-]
र्वाचं विनैव जननीं प्रति काचिदूचे ।
तस्यास्तथैव विदधे गमनाभ्यनुज्ञां
मातापि पाणिवलयापलयच्छलेन ॥८॥

धात्रीमुहूर्तविनिवारितनिर्गमाया
बाष्पस्मितद्वितयलब्धविरुद्धयोगम् ।
कस्याश्चिदाननमशान्तिहिमाम्बुजालं
प्रत्यूषपङ्कजमिव क्षणमाबभासे ॥९॥

भूषाविधावपि निवृत्तमनाः स्वकीये
शंभोः समीपगमनत्वरयैव काचित् ।
भूषोद्यतां प्रियसखी परिपाल्य तस्थौ
स्निग्धं तिरात्मनि सखीष्विव हन्त नार्या ॥१०॥

प्रारब्धमात्रकलजल्पितशिक्षणेन
वामप्रकोष्ठवलयावलिसंश्रितेन ।
काचित्ससंभ्रममुमापतिवीक्षणाय
क्रीडाशुकेन सह राजपथं प्रतस्थे ॥११॥

प्रस्थानसंभ्रमवशाद्गलितालकाया
लग्नाङ्घ्रियावकरसे पथि शोणरूपैः ।
धम्मिल्लपुष्पनिवहो हृदये प्रविष्ट-
रक्ताक्तमारविशिखाश्रियमाततान ॥१२॥

आ(अ)स्थानगाम(मि)भिरलंकरणैरुपेता
भूयः परिच्छलननिह्नुतिरप्रसन्ना ।
वाणीव कापि कुकवेर्मधुपानमत्ता
वेवा(गा)न्निपातबहुलैव विनिर्जगाम ॥१३॥

वेगप्रयाणसमये चलितालकेभ्यः
पुष्पैरथो निपतितैरपरा विरेजे ।
ईशोपकण्ठगमनप्रणयस्य पूजां
कर्तुं निजातियुगलस्य कृतोद्यमेव ॥१४॥

याने गृहाद्बहिरुपान्तजनेन रुद्धे,
रोषारुणं सपदि संभृतबाष्पपूरम् ।
कस्याश्चिदीक्षणयुगं विदधे हुताश-
निष्टप्तदत्तसलिलस्मरशास्त्रशङ्काम् ॥१५॥

त्रुट्यद्गुणेन निजवृत्तपरिच्युतेन
संक्रान्तभूरिरजसा हत1कन्तुकेन ।
व्याकुर्वता युवतिवश्यदशां नराणां
काचिद्विहाय विहृतिं हरमाससाद ॥१६॥.

नेत्रं विधाय धृतकज्जलमेकत(म)स्या
मात्रा परस्य करणेऽपि तथा प्रवृत्ते ।
काचिद्भवान्तिकगतित्वरितप्रवृत्तै-
र्बाष्पैः कृतार्थमपि तेन समीचकार ॥१७॥

त्याज्या सखि द्रुतगतिः कचधारकोऽयं
संशय्यतां तव यया समयाति(?) मध्यः ।
लोके सुदुर्लभततो गुणवान्कृशोऽपि
यः कल्पतेऽन्यभरनिर्वहणोत्सवाय ॥१८॥

अप्युत्तरांशुकमिदं हरितप्रयाणौ
पीनस्तना क्षिपति चेल्लघुभारभीत्या ।
बोढुं क्षमा भवसि तत्र निषेदुसीनां(षीणां) .
भारं पुनस्तरुणचित्तपरम्पराणाम् ॥१९॥

यत्नान्मयैव विहितं तिलक ललाटे
धर्माम्बुना विलुलितं गतिसंभ्रमेण ।
पत्रक्रिया च सखि ते कुचयोर्विलुप्ता
व्यापत्तये भवति हन्त 1जलेन योगः ॥२०॥

कण्ठोत्पलान्नयनमाप गतिच्युतात्ते
तन्मीलने मुखमयं न जहाति भृङ्गः ।
येनैनमद्य विनिवारयसि प्रमत्ते
तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ॥२१॥

गत्वा तथा त्रिचतुराणि पदानि तूर्णं
गन्तुं पुनः सखि शनैरपि न क्षमासि ।
प्रायः स्वशक्तिमन(नि)रूप्य कृता प्रवृत्तिः
शक्तिनिं (क्तिं नि)जामपि शरीरभृतां क्षिणोति ॥२२॥

लाक्षारुणैः सपदि विश्लथकेशपुष्पै-
र्भ्रष्टैरशोभत परं पदवी परस्याः ।
आशंभुदर्शनमनुद्रवत स्मरस्य
बाणैर्विभिन्नहृदयैरिव शोणितार्द्रैः ॥२३॥

स्विद्यल्ललाटमधिकाकुलितालकान्तं
काचित्स्त(त्त)तस्तनपयोधररुग्णमध्यम् ।
दोलाछलेन रतिशी(शि)क्षणमाचरन्ती
हित्वा तदाशु हरपार्श्वभुवं जगाम ॥२४॥

काचिद्विहृत्य किल कन्तुककेलिरङ्गा-
द्भूरेणुरूषिततनुर्निरगान्मृगाक्षी ।
उत्फुल्लपङ्कजवनेषु चिरं चरित्वा
किंजल्करेणुपरिधूसरितेव लक्ष्मीः ॥२५॥

यान्ती हरं प्रति शशाङ्कमुखी कराग्र-
लाक्षारसैररुणितां पदवीं चकार ।
सा च क्षणेन पदवीपथमन्मथस्याः(१)
किं नोपकारिणि भवेदुपकारवाञ्छा ॥२६॥

पूर्वं द्विरेफपरिभूतिभयाद्भवत्या
यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् ।
व्यर्थं तदद्य पुनरप्यलकेषु भृङ्गाः
पुञ्जीभवन्ति बकुलभ्रमतः पतन्ति ॥२७॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य निर्गमनपद्धतिश्चतुर्थी ।

N/A

References : N/A
Last Updated : September 19, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP