संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
त्रयस्त्रिंशी पद्धतिः

भिक्षाटनकाव्यम् - त्रयस्त्रिंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


चन्द्रोदये विरहविह्वलमानसानां
या निर्गताः फणितयो वदनाद्वधूनाम् ।
माधुर्ययोगपुनरुक्तसुधान्वितानां
तासामिहास्मि कथनेन विदग्धमन्यः ॥१॥

किं कृत्यमद्य सखि पश्य जगत्समस्तं
व्याप्नोति सान्द्रमपहृत्य निशाप्रकारम् ।
त्रैलोक्यसंहरणकर्मणि कामशत्रोः
कोपाट्टहास इव कोऽपि शशिप्रकाशः ॥२॥

एतस्य चन्द्रहतकस्य कठोरभावं
सख्यस्तदेव गमयेति विकल्पमेव ।
अम्भोनिधेरखिलरक्षणजागरूको
जग्राह यत्पशुपतिर्गरलेन साकम् ॥३॥

अन्येषु जन्तुषु सुधासहजत्वमिन्दो
व्यक्तीकरोषि किरणैरिति शीतपातैः ।
अस्माद्रतेषु तु पुनर्विधिवञ्चितेषु
तैर्दुःसहैर्गरलसोदरभावमेव ॥४॥

वेधाः सुखी भवतु सांप्रतमात्मशिष्टं
कृत्वा जगत्रितयमिन्दुसमाननेन ।
सद्योनिमीलितजनार्दननाभिपद्मे
गूढं स्थितस्य निहितस्य शशाङ्कभीतिः ॥५॥

किं रावणाङ्कवलितः किमु चन्द्रमौले:
सर्वात्मनामटनभावमलंकरोति ।
निर्मूल एव किमु शीकरतः प्रलीनो
य[द्द)त्तराज्यमयमुष्णकरः करोति ॥६॥

पूर्तं विहाय निहतद्युतिमद्य शोच्यं
कार्श्यं तदेव कुमुदैकपते. भजस्त्र ।
यस्मिंस्त्वया निखिलचन्दनहेतुभूतं
प्राप्तं पुरार्दनकपर्दनि(शि)खामणित्वम् ॥७॥

अङ्गारगर्भकरमिन्दुमिमं विधाय
यादृच्छिकागमन... कुरु मेऽद्य रक्षाम् ।
कालप्रतीक्षणपरो भुवनोपकारे
.......'जातिरिति मा स्तुतयेऽपवादः ॥८॥

अन्तःकलङ्कमुदयाश्रितशोणभाव-
मालोचयामि सखि संप्रति चन्द्रबिम्बम् ।
अङ्गारचक्रमुपशान्तकरालमन्तः
कामस्य दु(द)ग्धवपुषस्त्रिपुरान्तकेन ॥९॥

किं क्षेममद्य सखि नः कथयाम्बुराशेः
से(सो)ऽयं कलाभिरखिलाभिरुदेति चन्द्रः ।
शैलात्मजावपुरभेदफलां स्मराज्ञा-
मेकैव वर्तयति कस्य कलाभरेऽपि ॥१०॥

शाणोपलं मकरकेतनसायकानां
पूर्णेन्दुबिम्बमिदमालि वितर्कयामि ।
नो चेत्तथा कथमिदं निशि तत्त्वमेषा-
मस्मिन्नुदञ्चति कथं च पुनः क्षयोऽस्य ॥११॥

इन्दुच्छलेन जलधेः प्रलयानलोऽय-
मुज्जृम्भते सखि वियोगिजनक्षयाय ।
मूर्जा विभर्ति सरितं परमेश्वरोऽपि
कालेयचन्द्रितकलापरितापगीतः ॥१२॥

यद्यानियं(?) यदि स संप्रति राहुरिन्दुं
दिष्ट्या भवेद्विरहिणामपि जीवलाभः ।
भुज्या स्वयैव यदि भूरिफलं परेषां
मन्ये कदाचिदपि हन्त खलो न भुङ्क्ते ॥१३॥

पात्रं करालगरगर्जि(मि) तदेव सत्यं
नैवेन्दुबिम्बमिदमालि यतश्चिराय ।
उत्कण्ठते मम मनः शिवकण्ठमेव
यः कालकूटगरलाम(रमप्य) खिलं ररक्ष ॥१४॥

हृद्यानि मीलयसि हन्त सरोरुहाणि
हा चन्द्र जृम्भयसि संप्रति कैरवाणि ।
युक्तं तवैतदुभयं मलिनाशयस्य
हव्यावधीरण...."मभाजनं च ॥१५॥

आलोकितं रमणभूषणमङ्गनानां
तापं वियोगसमयेऽहमितीति वादः ।
चूडामणिः पशुपतेमिय(?)मिन्दुराशिं
हा हन्त वर्धयति मे विधिना शठेन ॥१६॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिस्त्रयस्त्रिंशत् ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP