भिक्षाटनकाव्यम् - अष्टमी पद्धतिः ।
उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।
गौर्याः समक्षमपि यस्य विभोर्विकारं
कर्तुं कथंचिदपि नालमभून्मनोभूः ।
तस्यैव चित्तमपहर्तुमहो विलासा
नानाविधा नगरवामदृशां बभूवुः ॥१॥
पुष्पं कराञ्जलिधृतं चलदुत्तरीया
चिक्षेप कापि पुरतः स्मरशासनस्य ।
एतावदाद्य मयि पुष्पशरेण मुक्तं
पश्यास्त्रजालमिति संशि(शंसि)तुमुद्यतेव ॥२॥
आविश्चिकीर्षुरतुलं निजबाहुमूलं
कन्दर्पमूलधनमीश(शि)तुरग्र एव ।
काचिद्विलोलवलयावलिना करेण
नेत्रान्तिकादलकभारमपाचकार ॥३॥
एका त्रपापरिभवा सकलप्रवृत्ति-
श्चिक्षेप दृष्टिमवला न तु चन्द्रचूडे ।
प्रायेण तिष्ठति विदग्धविलासिनीना-
मर्धेक्षणेषु मदनः परिपूर्ण एव ॥४॥
काचिद्विलासचतुरं कतिचित्पदानि
शंभोर्जगाम पुरतो मदमन्थरेव ।
तां वीक्ष्य तादृशगतिं विशिखैः किमन्य-
दात्मन्यपि स्वयमभून्मदनः प्रहर्ता ॥५॥
कंदर्पशत्रुरयमित्यनुरूपयन्ती
सैवापपात पुर एव पुरां विजेतुः ।
इत्यात्मदोषमपरत्र निपात्य काचि-
त्काञ्चीमहो गुरुमयीमपरा निनिन्द ॥६॥
प्राप्ता स्वगेहमणितोरणमण्डमेका
रथ्यागतत्रिपुरवैरिविलोकनाय ।
किं स्थाणुसंश्रयणमिष्टमिति ब्रुवाणां
पाणिस्थकेलिकमलेन सखीं जघान ॥७॥
काचित्पुरा प्रणतिकृत्यमशिक्षितापि
गौरीवराय विनयाञ्जलिमावबन्ध ।
तन्मौलिचन्द्रकिरणैर्मुकुलीकृतेन
लीलाम्बुजेन कृततत्प्रवणोपदेशा ॥८॥
हीनाङ्गतोपरतमार्गणमोचनेन
प्राचीनवरकुपितेन मनोभवेन ।
संचोदितव निशितैर्निखिलेऽपि देहे
विव्याध कापि मदनारिमपाङ्गबाणैः ॥९॥
प्रस्थानवेगशिथिले सति केशपाशे
काचित्तथैव गिरिशस्य समीपमाप ।
तेन स्मरस्य परिभूतिमपास्य केश-
बन्धो विधेय इति बद्धदृढव्रतेव ॥१०॥
येनाकुलेक्षणयुगादरुणेन्दुमौलि-
मान्दोलितेन न विलोकयितुं शशाक ।
लीलाम्बुजेन सहसैव नुनोद काचि-
दात्मालकं चलदलिभ्रम पश्य बुद्धिः ॥११॥
कण्ठे सकौतुकसमर्पितया तदीये
वव्रे स्वयं पशुपतिं स्वयमेव सद्यः ।
कालाजनप्रणयमेचकया स्वदृष्ट्या
नीलोत्पलारचितमालिकयैव काचित् ॥१२॥
वल्लीव यस्तदधरस्तरुणप्रवाल-
स्तत्रापि निर्मलरुचिस्मितमेव पुष्पम् ।
तस्योद्गमे जनविलोचनभृङ्गसेव्यो
मासो मधुर्मधुसखाविरभूत्क्षणेन ॥१३॥
रथ्योपहारकुसुमस्खलनेन काचि-
त्पादाग्रतोदमभिनीय पुरः पुरारेः ।
आत्मन्यशृङ्खलमनोभवमुच्यमान-
पुष्पास्त्रदुर्विषहतां प्रकटीचकार ॥१४॥
काचित्प्रकोष्ठवलयावलिसंश्रितस्य
लीलाशुकस्य मुखसंक्रमितैर्वचोभिः ।
भिक्षाटनादिलघुकृत्यनिषेधगर्भै-
र्मन्दस्मितोत्तरमयुग्मदृशं चकार ॥१५॥
द्वारि स्थितस्फटिकतोरणदीर्घदण्डं
तुङ्गस्तनाग्रयुगलेन निपीडयन्ती ।
मन्दस्मितानुमितचित्तनिगूढभावा
काचिन्मुहुर्मुहुरवैक्षत चन्द्रमौलिम् ॥१६॥
कस्याश्चिदीशपदवन्दनलालसाया
नासीद्दिवा मुकुलितं करपद्ममेव ।
चूडाशशाङ्ककिरणैः परिभूयमानं
तस्याः करप्रणयकेलिसरोरुहं च ॥१७॥
अह्नाय काचिदनियन्त्रितमेव क्लृप्त-
बन्धश्लथं चिकुरमीश्वरमाससाद ।
कामायमान1
'सन्त-
निःशेषनिर्हरणबद्धदृढव्रतेव ॥१८॥
काचित्कलक्वणितकङ्कणमञ्जुनादै-
रीशं स्ववीक्षणपरं विदधे विदग्धा ।
पुंसां मनोऽभिलषितेषु विलासिनीनां
प्रायेण भूषणरवः प्रथमाभिलाषः ॥१९॥
आचारपुष्पमपरा स्मितपुष्पमिश्र-
मग्रे विभोः क्षणमवाकिरदानमन्ति(न्ती)।
लालाटलोचनकृशानुभयादुपात्त-
रूपान्तरेव कुसुमायुधचापयष्टिः ॥२०॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विलासपद्धतिरष्टमी ।
N/A
References : N/A
Last Updated : September 19, 2022
TOP