भिक्षाटनकाव्यम् - षड्विंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
उद्यानमाशु विविशुर्हरविप्रयुक्ता
नार्यो निजातिपरिहारमतिभ्रमेण ।
पूर्वं निगूढपतनैश्च शरै............
स्तस्याथ दृश्यपतनैश्च सुसंस्कृतैव ॥१॥
काचिन्निजोपवन एव वियोगरुग्णा
पुष्पाणि वीक्ष्य विकृपा निभृतं दुदूये(?) ।
हस्तो निजस्य निजचापलदर्शनः स
सव्यस्मरातुरजनैर्नतु पुष्पहासः ॥२॥
आलोलकिंशुकतरोस्तरुणं प्रसून-
मापाटलं परिजहार भयेन काचित् ।
निर्भिन्नकामिहृदयक्षतजावसक्तं
नूनं स्मरास्त्रमिदमित्युपजातबुद्धिः ॥३॥
काचिद्वधूः शमय शंभुवियोगताप-
मित्यादरेण मलयद्रुममालिलिङ्ग ।
लेभे स सिद्धिमतुलां तरुणैरलभ्यां
नैषा स्मरार्तिशमनं फलमाप किंचित् ॥४॥
कन्दर्पबाणनिकषच्युतचूर्णकल्पं
सद्यः परागमवलोक्य दिशासु पौष्पम् ।
आसूचिताखिलवियोगिजनव्यपाय-
मुप्तातपांसु(१)मपरा गणयांचकार ॥५॥
काचिद्गता विरहिणी सहकारमूल-
माकर्ण्य शब्दमशनिस्वननिर्विशेषम् ।
सद्यः किमित्युपरि लोचनमर्पयन्ती
पापादवैक्षत भयंकरमन्यपुष्टम् ॥६॥
कण्ठे कयापि करपल्लवमर्पयन्त्या
भृङ्गस्वनव्यथितया गृहवाटिकायाम् ।
व्याख्यातमेव च सखीजनदीर्घमान-
कर्णावतंसनवपल्लवनैव(?) रम्यम् ॥७॥
दृष्ट्वा पलाशमुकुलान्कुटिलखभावा-
न्काचिद्भयादपससर्प सुदूरतोऽपि ।
मिथ्या प्रकाश्य कथने निजसौमनस्य
कौटिल्यमात्मनि भवन्परिवर्जनीयः ॥८॥
आलम्बितो विरहदुःखितया कयाचि-
दाम्रद्रुमस्य सहसा तरुणप्रवालम् ।
कृष्णच्छविर्यदभवन्ननु युक्तमस्य
प्रागेव पाणितलशोणिमतस्करस्य ॥९॥
यस्यैव चम्पकतरोम(र)पनीय(?) पूर्वं
मूले ददौ त(वि)मलशीतलवारिधाराम् ।
तस्येतराकुसुमितस्य विनिश्चिकाय
दातुं पुनर्विरहिणी निशितास्त्रधाराम् ॥१०॥
भृङ्गस्वनास्य(ढ्य) कुसुमे कुरवे पुरस्थे
गाढं निमील्य नयने विरहिण्ययत्नात् ।
कर्णद्वये तु निजसिद्धिविधानहीने
काचिन्ननन्द च निनिन्द च पद्मयोनिम् ॥११॥
काचित्पुरा प्रतिदिनं परिवृद्धिहेतो-
र्यस्यै दिदेश सलिलं नवमालिकायै ।
सा पुष्पितैव जलमश्रुमिषं वियोगे
तस्यै प्रदाय कथमप्यनृणा बभूव ॥१२॥
पुष्पेषु संस्तुतिमतीं क्वणितालिमाला-
मालोक्य कापि महदेव भयं प्रपेदे ।
शंभोस्तृतीयनयनानि(न)लधूमनीला
सा मन्मथस्य धनुषो यत एव मौर्वी ॥१३॥
यो लम्बितो विरहधर्मितया कदाचि-
दुद्यानचूतविटपो मधुसंभ्रमश्रीः ।
मानप्रवालकुसुमेक्षणमेव जात-
स्पर्शोऽपि कामुकजनैः कुरुते विपत्तिम् ॥१४॥.
अङ्गारसंचयमतिर्विरहातुरायाः
पुष्पेष्वजायत पलाशमहीरुहस्य ।
सा स्थापितैव मधुपैः पुनरेव लीनैः
किंचित्प्रशान्त्युचितकार्ष्ण्यधियं विधाय ॥१५॥
1मा पुष्पितोऽयमिति नैव चकार काचि-
दुद्यानभाजि पदघातमशेषयूनि ।
न्यकारकृत्यमपि नाभिलपन्ति कर्तुं
प्रायः प्रसादविषयादपरत्र नार्यः ॥१६॥
कामास्त्रमेतदिति जातरुषा लतासु
विश्लेषिणी सुमनसा हरणे प्रवृत्ता ।
कामास्त्ररक्षकजनैरिव सद्य एव
सैषा न्यरोषि(धि) कृतहुंकृतिभिर्द्विरेफैः ॥१७॥
स्निग्धेन कोकिलरुतेन नवोद्गतेन
चूताङ्कुरेण पवनेन च मालयेन ।
कालं वसन्तमवलोक्य जनोपकण्ठे
कालं वसन्तमपरा कलयांचकार ॥१८॥
आलम्बिता विरहधर्मितया कयाचि-
त्क्लान्तप्रवालकुसुमाभवदाम्रशाखा।
तां वीक्ष्य तादृशदशां प्रणयिन्यथास्यां
दीर्घं स्वकीयमजुगुप्सत बन्धुभावम् ॥१९॥
आमूलंपुष्पितमवेक्ष्य पलाशमन्या
विश्लेषिणी ज्वलितबुद्धिरिमं शशाप ।.
अङ्गारकारकरगोचर एव पूर्वं
पश्चात्त्वमेवमरुणच्छविराशु भूयाः ॥२०॥
यस्याश्चिराय विदधे गृहयूथिकायाः
पुष्पोत्तमाय बहुदैवत (त)र्पणानि ।
तां पुष्पितेन परिगृह्य चकार काचि-
द्विश्लेषिणीयुवतिजातिसमानकक्ष्याम् ॥२१॥
अप्याश्मनीपरिहृतेन मुखं समीक्षे
दृष्ट्वा वसन्तसमये लकुलं सपुष्पम् ।
काचिव्द्यथां विरहिणी महतीं प्रपेदे
सत्यं नहि प्रतिनिधिर्भवितव्यतायाः ॥२२॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानचरितपद्धतिः षड्विंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP