भिक्षाटनकाव्यम् - त्रयोविंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
याभ्यो दुरापहरसंगमलोलुपाभ्यो
बन्धुर्जनस्य कटुपथ्यवचो बभापे ।
तासां तदीयवचनश्रवणार्दितानां
ब्रूमो वचास्यनुगुणार्थमनोहराणि ॥१॥
मातः सदा गिरिशसंगमविघ्नमेव
याचे करोषि न ततः स्वधिजातरोषाः(?) ।
स्नेहं मिथो न गणयन्ति यतः पुरन्ध्र्याः
सापत्न्यमेव करणस्पृहया वदन्ति ॥२॥
मां दुर्निवारविषमास्त्रकृतावसादां
या तर्जयत्यसकृदेव शठैर्वचोभिः ।
अप्राप्य यौवनमनङ्गविधेयमेपा-
मन्ये मदीयजननी जरती बभूव ॥३॥
अद्यापि शैशवनवं परिवर्तते मे
तन्मैव मां प्रति सवित्र(त्रि) हितोपदेशः ।
ये यौवनस्थितिजुषो जगतीह तेषा-
माचार्यकं वहति मन्मथ एव नान्यः ॥४॥
कंदर्पमुक्तविशिखप्रणि(ण, हि)ताशयस्य
यो दुर्विदग्धगुरुसंनिधिदेशवासः ।
त्रुट्यत्किरातशतरागणनो(?) मृगस्य
मन्ये क्षुधार्तमृगवैरिगुहाप्रवेशः ॥५॥
पथ्योपदेशसमयः स गतः सदूरो(सुदूरे)
यस्मिन्न सन्ति मदनज्वरसंनिपाताः ।
किं नैव वेत्सि जननि त्वमिमामवस्थां
यस्याः कथंचिदपि जीवितमेव रक्ष्यम् ॥६॥
शाम्येदपि स्वयमयं मदनारि(ग्नि)रीशे
नैराश्यतो जननि मा कुरु तं प्रदीप्तम् ।
एधांसि नीरसनिषेधवचांसि मन्ये
कामानलस्य गुरुभिर्बहुशः कृतानि ॥७॥
स्नेहो न ते मयि परं मम देह एव
मातः किमन्यदितम(र)त्र मम प्रमाणम् ।
ईशानुसारविनिवारणमाचरन्ती
यन्मे झटित्यसुरतेर्विदधात्यनुज्ञाम् ॥८॥
मातस्त्वदीयवचनैः शितशूलकल्पै-
र्नाहिं मृता किमिति मर्मसु ताडितापि ।
प्रायः प्रियेण विरहव्यसने वधूनां
प्राणप्रयाणमपि पुण्यफलं वदन्ति ॥९॥
छायां समाश्रयति काममहाद्रुमस्य
सर्वोऽपि संस्मृतिमरुस्थलचारुतप्ता ।
नन्दत्यथापि किमयं वचसो विपाके
मन्ये जरा जनयति स्मृतिमूलनाशम् ॥१०॥
(१) अस्त्येव शंभुविषयान्मनसो विकारा-
द्रागो भमाद्य सखि मा परसङ्गमूलम् ।
पौष्पं रजः सपदि मालघ(य) मारुतार्थ्य
मूर्ध्नो वधायमपरं(१) पुरुषं जनस्य ॥११॥
मातः समस्तमपरं वचनं विमुञ्च
शैवी(?)समागतिकथा यदि तां शृणोमि ।
(१)त(उ)त्कण्ठयोज्ज्वलितकालहुताशतप्ता
नाराचपातसदृशान्यवचःप्रवेशः(शा) ॥१२॥
धामान्नि(या मां नि यच्छति सुदुर्लभकाङ्क्षिणी भू-
र्मा मेति किंचिदपि सा जननी न वेत्ति ।
सर्वैर्विना प्रियतमैः सुखमासितव्यं
स्वापेक्षया यदि भवेदभिलाषबन्धः ॥१३॥
मामद्य शिक्षयसि शंकरवादमात्रा-
द्रोमाञ्चकण्टकितमूर्तिरसि त्वमेव ।
वृद्धः करोति विषये विषयं परस्मै
तस्मान्ममापि विनिवर्तितुमक्षमोऽपि ॥१४॥
कष्टा नितान्तमशरीरिशरेण पीडा
तस्या यदस्म्य(?)तितरार्तिगतो विशेषः ।
प्रायेण शत्रुरपि शोचति मर्त्यमात्रं
मातापि नैव दयि(य)ते मदनातुरेषु ॥१५॥
त्रातुं कृताभिलषितैः स्मरयन्त्रवृत्ता-
न्मौनव्रतैर्गुरुजनैर्भवितव्यमेव ।
स्वादूकरोति सुकृतामपि कामवृत्तिं
शास्त्रेण वा गुरुजनेन च वा निषेधः ॥१६॥
यो वक्ति पथ्यवचनं हृदयानुकूलं
यो वा भिषज्यति भिषक्प्रियभेषजेन ।
तावेव बान्धवजनश्च चिकित्सकश्च
प्रच्छन्नशत्रुरपरो न सुहृन्न वैद्यः ॥१७॥
एतन्नम(?) प्रथममम्ब मयि त्वदीये
प्रेम्णे पुनस्तदनुरूपविचेष्टितेभ्यः ।
यन्मां प्रतीत्थमुपदेशविधिस्तवायं
मा भूद्विजेतरि पुरामनुरागबन्धः ॥१८॥
अद्यापि शैलसुतया वपुरैक्ययोग-
मङ्गीकरोति गिरिशः स्वयमादिवृद्धः ।
केषांचिदत्र तदयं जरतां जनानां
कामानवाप्य वर एव विरक्तिवादः ॥१९॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गुरुवचनोपालम्भपद्धतिस्रयोविंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP