भिक्षाटनकाव्यम् - द्वादशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
बध्नाति मे प्रथमवैरिणि पक्षपात-
मेवं जनोऽयमिति जातरूपा स्मरेण ।
निःशङ्कविद्धहृदयस्य वधूजनस्य
यत्पारवस्य (श्य)हृदयं तदुदीरयामः ॥१॥
भूतैः किमन्तिकचरैः सहसा गृहीता
दष्टा शरीरकलितैरुत पन्नगेन्द्रैः ।
का(क्ला)न्ता स्विदम्य गलकालगरोप्मणेति
काचिच्छिवस्य पथि संदिदिहे सखीभिः ॥२॥
भूषोरगानविगणय्य विभोरुपान्ते
कापि स्थितैव निजबन्धुनिवारितापि ।
किं धाष्टर्यमेतदुत सौढ्यमहो स्विदस्या
भक्तिर्वरा किमु मनोभववैभवं वा ॥३॥
आलोक्य दृष्टिररुणा प्रथमास्त्रगाक्ष्या(?)
गौरीकुचाघणकिणोरसमिन्दुमौलिम् ।
पश्चादुदश्रुसलिलाभवदग्नितप्ता
मारस्य दत्तनिशिताश्रुजलेव शक्तिः ॥४॥
अस्त्रं विमुच्य निखिलं प्रथमं प्रयोगे
भूयोऽपि वेद्भुमबलां विहितोद्यमस्य ।
अल्पायुधस्य वपुरेव तदीयमेकं
लक्ष्यं च हस्तशरधिश्च तदा बभूव ॥५॥
पादेन किं फणिगणे चकितं नितम्बे
शंभोः करे विवशमग्रसरे सपात्रे ।
आधूसरं भसितलेपिनि बाहुमध्ये.
स्नातुं शिरः सरिति चित्तमधीरदृष्टेः ॥६॥
काचित्पृथुस्तनभरे गलितोत्तरीये
व्यत्यासभङ्गिनि हितेन भुजद्वयेन ।
आलिङ्गनं हृदयदेशजुषः शिवस्य
कर्तुं समीप्सितवतीव चिरं चकासे (शे) ॥७॥
पुष्पं विकीर्य गिरिशाय पुरैव पश्चा-
त्सर्वो जनः श्रयति बन्धविमुक्तिमन्यः ।
वेणीभरो मृगदृशः प्रथमं विमुक्तो
बन्धात्पुनः पुरजिते कुसुमान्मुमोच ॥८॥
आत्मानुबन्धिरशनागलनाद्यवद्य-
मन्यास्वपि क्षणमवेक्ष्य हराग्र एव ।
काचित्तपापरिभवान्न ययौ तदानीं
लज्जावहो न खलु जात्यविशेषभावः ॥९॥
आलिङ्गनाद्दु(दृ)तमना गिरिशं विलोक्य
रोमाञ्चकण्टकितमूर्तिरजायतान्या ।
रोगेण पुंसि निहितासु(?)च तादृगेव
प्रायेण तत्तदुपभोगसुखं करोति ॥१०॥
कस्याश्चिदार्द्रघनचन्दनपङ्किलायां
संवर्धितं स्तनभुवि स्मरकर्षकेण ।
रोमाच (ञ्च)सस्यममितिश्रमवारिसिक्तं
भेदस्तु नाभवदयं खलु दीर्घतन्त्रः ॥११॥
छिन्नस्तनांशुकग(गु)णा भर(व)संनिधाने
प्रीत्या यदायतदृशो न तदद्भुताय ।
योषिद्गुणा नियमिता विधिनैव तस्या
लज्जादयः सपदि यत्रुटिता बभूवुः ॥१२॥
आसीत्परा सपदि तस्य कृतान्तशत्रो-
रालोकनादनिमिषेति किमत्र चित्रम् ।
यस्य क्षणस्मरणमात्रवशेन मर्त्या-
यत्नं विनाप्यनिमिषत्वपदं लभन्ते ॥१३॥
च्योतत्सखीवसनरक्षणदत्तहस्ता
विस्रंसिनी (नि) स्ववसने पुरतः पुरारेः ।
अन्या पुनः क्षणमजायत दत्तमूढा
नाम्ना1 वने विगणने पररक्षकाणाम् ॥१४॥
कस्याश्चिदुत्तरदुकूलविलोलदृश्य-
माभोगतः कुचयुगस्य विनिर्जगाम ।
अन्तर्गतं झटिति वक्तुमिवेन्दुमौलिं
रोमाञ्चमन्तिकगताय सखीजनाय ॥१५॥
बन्धश्लथः कचभरः प्रवलाश्रु नेत्रं
कम्पोत्तरं कुचयुगं गलदुत्तरीयम् ।
विस्रस्तकाञ्चि जघनं चरणां प्रयाणे
शक्तेतरः(त) मृगदृशो हरदर्शनेन ॥१६॥
हस्तः कयापि गलितांशुकवारणाय
व्यापार(रि)तो वलयविच्युतिदैन्यपा(मा)प ।
धत्ते(यत्ने) कृते शमयितुं विनिपातमेकं
हानिं परामपि विधिर्विदधाति वामः ॥१७॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्यपद्धतिर्द्वादशी ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP