भिक्षाटनकाव्यम् - एकोनविंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
आत्मीयनेत्रपथलम्बिनि वृत्तनाथे
रथ्यागता हरवियोगविषादशान्त्यै ।
वामेक्षणा जगदुरस्य कथाप्रसङ्गा-
दाविष्कृतादृतरसानि मिथो वचांसि ॥१॥
कस्मादयं सखि करेण सिभक्ति शंभु-
र्भिक्षाटने विधिशिरोमयमेव पात्रम् ।
कार्या कदाचिदपि नार्थितकालहानां
दीर्घायुषामपि दशेयमितीव शास्ति ॥२॥
कोऽन्यो ददाति हिमसानुमतस्तनूनां
मारद्रुहे च जगति श्वशुरद्रुहे च ।
तं लब्धुमद्रितनयामपहाय कन्यां
का वा करोति सुकुमारतनुस्तवांसि ॥३॥
कैवापरा गिरिसुतामपहाय कन्यां
कामद्रुहं जगति कामयती वृषाङ्कम् ।
तस्याः पितुर्हिमवतः श्वशुरद्रुहेऽस्मै
कोऽन्यो ददाति तनयामपहाय भीतः ॥४॥
अभ्यर्थितः सुरगणेन........(?)विशङ्क(1)
चक्रे हरः किमिति तीव्रविषोपयोगम् ।
मन्येऽहमुक्तमगुणा गणयन्ति पथ्यं
याच्या विहङ्गकरणाद्विषपानमेव ॥५॥
नेत्रानलार्चिषि विभोर्मदनेन साकं
प्लोषोत्सवं किमिति नैव रतिः प्रपेदे ।
सा तत्र गन्तुमकरोदधभाग्यहान्या
तस्या बभूव नयनोदकमन्तरायः ॥६॥
कामप्रिया मदनमेव विभोर्वितन्वं
दग्धस्तदा किमिति नैव हुताशनेन ।
दाह्यो न किं व्यतिकरं शिवया शिवस्य
मूढः स्वकृत्यमिति दर्शयितुं प्रवृत्तः ॥७॥
शैलात्मजासहचरोऽपि हरः किमर्थं
मन्दाकिनीं शिरसि सादरमेव धत्ते ।
इत्थं न चेत्कथमयं बहुशो भवान्याः
पादप्रहारफलदं कलहं लभेत ॥८॥
देहीति दीनपदमाहितपात्रपाणिः
केनार्थिवेषमयमायने(द्रियते) वृषाङ्कः ।
सर्वो यथा विभवमाद्रियते जनोऽन्यः
कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥९॥
भिक्षैव वृत्तिरजिनं वसनं यदस्य
वाहो बृपस्तदयमिच्छति किं महेशः ।
सर्वो यथा विभवमाद्रियते जनोऽन्यः
कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥१०॥
निद्रानिमीलितविलोचनमूल्यमेष
शंभुः स्वदर्शनमदाद्गरुडध्वजाय ।
कालान्त एव विभवः कुटिलस्वभावै-
र्वृत्त्यैः प्रसाधितधियो महते फलाय ॥११॥
कैलासचालनकृतांहस एव कस्मा-
दीशः कृपाणमदिशदशकन्धराय ।
संत्रासिताद्रितनयादृढकण्ठपांश-
लाभेन तुष्टहृदयः स न किं ददाति ॥१२॥
आराध्य दुग्धजलधिः सुधयैव देवा-
न्देवाय हन्त महते गरलं विदेश ।
एवं ध्रुवं प्रकृतिरेव कुलाशयानां
नीचेषु संमतिरसंमतिरुत्तमेषु ॥१३॥
विद्वज्जनो जगति येन पितामहेन
भिक्षाप्रतिग्रहणपात्रमकारि सर्वः ।
तस्योत्तमाङ्गमपि शंकरपाणिपद्मे
भिक्षाप्रतिग्रहणपात्रमहो बभूव ॥१४॥
बाणाहवे मुरजिता विजितः पुरारि-
रित्येव विश्वगदितः सखि भूतवादः ।
सत्या स एव स यतः प्रभवो लयानां
भूत्यै पराक्रमणकृत्यमतीव हास्यम् ॥१५॥
शंभो पुरा यदभवन्मदनेन साक-
मद्यापि वैरमनुवर्तत एव किं तत् ।
गौर्या सहैव कृतविग्रहसंधिना वा
पुष्पायुधो विकृतविग्रहसंधिरेव ॥१६॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चरितोपलालनपद्धतिरेकोनविंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP