भिक्षाटनकाव्यम् - एकोनत्रिंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
नारीजनो हरवियोगमहोपशान्त्यै
शीतक्रियां प्रियसखीषु वितन्वतीषु ।
निःशृङ्खलद्विगुणवर्धिततीव्रताप-
स्तत्कृत्यभूषणपरामिति वाचमूचे ॥१॥
शीतक्रियां फलवतीं यदि कर्तुमास्था
सख्यौ मदीयमुखतः शृणुताभ्युपायम् ।
आनीय शंकरमिहाद्य मदीयपार्श्वे
कार्यास्ततो नु विविधाः शिशिरोपचाराः ॥२॥
सत्यं त्वया प्रकटितो मयि भावबन्धः
शीतक्रियासु विरमाद्य वृथाप्रवृत्तेः ।
शक्नु (क्य): कथं शमयितुं सखि निर्विकल्प-
कल्पावसानदहनश्चुलुकोदकेन ॥३॥
जीहागधेन(?) हरिचन्दनसौरभेण
सान्द्रेण किं तव दिगन्तविजृम्भितेन ।
बद्धादरः पुरुषभस्मविलोच (लेप)नेऽपि
यत्तत्पराङ्मुखमना जगदेकनाथः ॥४॥
किं चन्दनेन किमु पल्लवसंस्तरेण
किं मु(मौ)क्तिकैर्बिसगुणैरथ भूषणैर्वा ।
मूढे सखि प्रियसमागम एव यद्वा
मारज्वरस्य मरणं शिशिरोपचारः ॥५॥
प्रारभ्यते प्रतिविधिः सखि यो भवत्या
मूर्छासु मे हरसमानधनं विनान्यः ।
काराग्रहाज्झटिति निर्गमतो जनस्य
द्वारोपरोध (नपरेण) शठेन तुल्यः ॥६॥
आदित्यतापसदृशं विरहोष्मतापं
बुद्धेव या प्रयतते शिशिरोपचारे ।
सा त्वं पयोधिसलिलैर्वडवामुखाग्नेः
शान्ति करोष्यपरवह्नि ससंभ्रमेण ॥७॥
साम्यं प्रतीत्य सखि सांप्रतमन्यरोगै-
स्तस्येदृशः प्रतिविधानमनोरथस्ते ।
सोऽयं पुनः स्मरगतो विपरीतवृत्ति-
र्यस्यैक एव जनकश्च निवारकश्च ॥८॥
क्रीडाशुकं सखि कलीनवचांस्यजस्रं
जल्पन्तमेनमपसारय शीघ्रमेव ।
अस्या न शिक्षणगिरं मुहुरुद्गिरन्त्या
कार्यस्त्वयापि मम संनिधितोऽपसारः ॥९॥
निर्वापणं सरसवस्तुभिरेव कर्तुं
मूढैः किमस्य सखि वाञ्छसि चन्दनाद्यैः ।
किं त्वं न वेत्सि सरसेषु मनोभवाग्नि-
वृद्धिं प्रयाति सुतरामिति लोकवादः ॥१०॥
और्वानलं जलनिधेर्नहि शक्यते यै]-
र्हेतुं दवाग्निमथवा न वनद्रुमाणाम् ।
तैर्मोक्तिकैः किसलयैरपि तैरिदानीं
शक्यः कथं शमयितुं सखि मन्मथाग्निः ॥११॥
ये शीतलप्रकृतयो भुवने पदार्था-
स्तेऽप्यद्य हन्त मयि तापकरा मदाद्याः ।
यः सर्वसर्गनिकरे निपुणः स वेधाः
कर्तुं क्षमो न किमयं गुरुवैपरीत्यम् ॥१२॥
शय्यां करोषि मम तापनिवृत्तये चे-
दादित्यमैत्र्यजनितौष्ण्यगुणैः सरोजैः ।
सख्यावयोर्ह्रदयजीवितयोरभेदा-
न्मारज्वरो मयि घनस्त्वयि हन्त मोघः ॥१३॥
यं पन्नगारिनिविषोष्मनितान्ततप्ताः
श्रीकण्ठपादपमिवानिशमाश्रयन्ते ।
अन्तर्ज्वरं शमय मे सखि तस्य शंभोः
काराग्रहान्नहि वरः शिशिरोपचारः ॥१४॥
काव्यमाला।
नैवामुना श्रुतिकटुक्वणना शुकेन
नैव…….. त्वयानुपम "व्यदधानयापि ।
नीतौ युवां हितविधायि पदं यथैव
मन्ये मयैव सखि संप्रति मेऽपराद्धम् ॥१५॥
हारस्त्वया सखि कृतो यदि मे मृणालै-
र्वीरे न केन यदि वा विदितं मयैव ।
नाथेन वक्षसि धृतो यदतो ममाशु
संतापहार्यपि भवेत्स भुजङ्गहारः ॥१६॥
मत्तेव(त्तोऽव)गच्छ सखि संप्रति 1शीतविद्यां
विश्लेषिणीमलमलं विफलक्रियाभिः ।
लोके सुखप्रदतया प्रथितानि यानि
तैर्वस्तुभिर्वरण एव परं भिषज्या ॥१७॥
प्रारम्भतोऽपि पुरतः परपीडनानां
यान्त्या पदं स्वयमकारणरूढवैराः ।
यन्मां वियोगविधुरां परितप्तकामो
निष्पीड्यते मम(?) यतो भवतीभिरद्य ॥१८॥
2वाक्येऽपि यार्जनकभूर्विरभङ्ग(?)दीयो
.."राक्षसीभिरनिशं न वृता सखीभिः ।
तस्या अपि प्रियसखीजनसंगम चे-
च्चित्रं क्रियामहमिवानुभवेदसस्याम्() ॥१९॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये सख्युपालम्भपद्धतिरेकोनत्रिंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP