भिक्षाटनकाव्यम् - अष्टत्रिंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
नीरन्ध्रमुक्तशरपीडितमानसाना-
मेणीदृशामकरुणेन मनोभवेन ।
विश्लेषसुप्तिविषयाणि निशाविरामे
जातानि यानि चरितानि वदामि तानि ॥१॥
निद्रावती गिरिजया कृतदेहसंधि-
रप्याजगाम विधुरां स्वयमिन्दुमौलिः ।
अप्यन्ययोषिदुपधानपदे निरुद्ध-
प्रीत्या ध्रुवं प्रभुजनो भव(ज)तेऽन्यनारीम् ॥२॥
वामे विधौ भवति बन्धुजनोऽपि वैरी
सुप्तां कथंचिदपि जीवसखीं निशान्ते 1
मूर्छाभयाद्विरहिणीं प्रतिबोधयन्ती
विच्छन्ति (?)माशु विदधे हरसंगमस्य ॥३॥
लाभं परार्थमपरत्र नयेद्विधाता
सुप्त्यागते विधुरया गिरिशे कयाचित् ।
गाढोपगूहनविधेरसकृत्कृतस्य
पार्श्वोपधातमभवत्सहसैव पात्रम् ॥४॥
रोमाञ्चितैरवयवैः स्फुरिताधरेण
किंचिद्विलग्ननवता च कुचद्वयेन ।
ज्ञात्वा सखी हरसमागमनं चरन्ती
निद्रां स्वकीयहरनिर्वहणां ननन्द ॥५॥
काचित्कथंचन निशाविरतिप्रसुप्त्या
संमीलिताक्षियुगलापि शिवं ददर्श ।
या पुण्डरीकवदना च मृगायताक्षी
तस्या विरुद्धचरितास्पदतापि युक्ता ॥६॥
साक्षात्कृते पशुपतौ न कदापि शोच्या
जायेत मीलनदशा नियतं नराणाम् ।
यदृृष्टवद्गिरिशमह्नि तदायताक्ष्या
यत्नं विनैव निशि मीलितमक्षियुग्मम् ॥७॥
जातप्रबोधजनलभ्यनिजानुभूतिं
सुप्यै(प्त्वै)व काप्यनुबभूव शिवं वियुक्ता ।
स्नेहः शिवे यदि भवेदमितो नराणां
मार्गेण विध्यति न कर्षवतापि शंभुः ॥८॥
यत्सुप्तिभङ्गकरणं स्मृतिभिर्निषिद्धं
तेनैव सर्वविषयं विरहार्तलक्ष्यम् ।
सख्या प्रभातमिति कापि निबोधयन्त्या
हा हन्त भञ्जितशिवानुभवा बभूव ॥९॥
उद्दिश्य कापि विधुरा गिरिशानुभूतिं
सुप्त्यैव लोचननिमीलनमाचकाङ्क्षे ।
तस्यास्तदेतदुचितं खलु येन सर्वे
पश्यन्ति तं शममना(नो)विनिमीलिताक्षः(क्षा) ॥१०॥
आलिङ्गनं किमथवाधरपानमस्य
मन्दस्मितं किमुत वा स्थितिरेव तृष्णीम् ।
अन्यक्रिया किमपि कापि सखीमपृच्छ-
त्स्वनागतेन गिरिशेन रतिं चिकीर्षुः ॥११॥
सर्वोऽपि चौर्यमपरा(?) वनितासु कुर्व-
न्कामी समीप्सति परस्य जनस्य सुप्तिम् ।
आश्चर्यमेतदचलेन्द्रसुताभयेन
यत्सुप्तयैव विदधे रसचौर्यमेव ॥१२॥
योगप्रबुद्धहरिनाभिसरोजसृष्टौ
संभाव्यते न खलु..."गिरिजापरेण ।
सृष्ट्यन्तरे कुरु तदागमनप्रधानं
सुप्त्येति कापि नयनाम्बुरुहं ययाचे ॥१३॥
वामभ्रूवां हरसमानयनाय निद्रा
नाभ्यर्थिता तदपि सैव न माननीयः ।
अभ्यर्थितापि विदधे न सखीति दृष्टं
किं कस्य केन फलमित्युपतर्क्यमेव ॥१४॥
पार्श्वे तवेन्दुमुखि शंकरमानयेति
विश्वस्य मां नयनमीलनमाचरेति ।
स्वप्ने समागममनेन विबुध्य तन्व्या
निद्रावतीं प्रियसखी विदधे वियुक्ताम् ॥१५॥
जाग्रत्प्रपञ्चविपरीतविधानदक्षे
देव्यद्य मे नयनयोः क्षणमात्रमास्व ।
काम्यार्थसिद्धिरियतैव ममेति निद्रा-
मन्तर्निगद्य विधुरा न च तल्पमाप ॥१६॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नपद्धतिरष्टत्रिंशत् ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP