भिक्षाटनकाव्यम् - सप्तविंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
उद्यान एव ननु पुष्पितशालवर्गे
विश्लेषितप्रमनसां मदिरेक्षणानाम् ।
तं तं विनेयमनुभूय विषादवेगा-
द्वाक्यानि वक्रगलितानि विजृम्भयामः ॥१॥
यन्नाम ते जगति गूढमयातवृत्या(?)
जातं पुरा कुरबकद्रुम वाच्यमेव ।
भूयस्तदद्य भवता कृतमन्वितार्थं
वाचालमत्तमधुपावसथं(?) प्रदाय ॥२॥
उद्यानभूषण तवेदमनुक्तरूपं
छायाप्रदानहृततप्तजनश्रमस्य ।
अस्मिञ्जने विरहपावकतापवृद्ध्द्या
शोकातुरेऽपि दयसि त्वमशोक एव ॥३॥
वाचालकोकिलतया मधुराणि पूर्व-
मापीडयेति विधुरं तव कूजितानि ।
धान्यं धिनोति वचनैः श्रवणानुकूलै-
रन्यं दुनोति परुषैः परपुष्टजातिः ॥४॥
किं किंशुक त्वमपि संप्रति पीनलज्जः
कर्त(र्तुं) व्यवस्यसि रुजं कुसुमैरगन्धैः ।
अभ्यर्थितोऽहमिति विक्लवमानसाना-
मस्त्येव दार्क्ष्य(क्ष्य)मसतां परि(र)पीडनेषु ॥५॥
1भृङ्गाङ्गने सखि तवापि ममापि तुल्या
श्रीकण्ठ कण्ठ रुचिरत्र हि कोप(ऽपि) भेदः ।
पुष्पेषुचेष्टितमतीव तवानुकूलं
सत्यं तदेव हि मम प्रतिकूलमासीत् ॥६॥
आपीयसीषु(?) रसमागलमुन्मिषत्सु
पुष्पेष्वमी तत इतश्चरकायितेषु ।
मन्ये कलध्वनिमिषेण मनोभवस्य
गायन्ति मत्तमधुपा विजयप्रशस्तिम् ॥७॥
पूर्वं मया चिरतरं सहकारबुद्ध्या
यः पोषितः प्रतिविधानमुखैः प्रयत्नैः ।
जातः स संप्रति जगत्रयनाशहेतु-
रा हन्त पुष्पसमये विष एव.... ॥८॥
नृत्तोद्यमोऽसि फणिसंगमनिर्भयोऽसि
बर्हिन्यदप्यसितबन्धुरकन्धु(न्ध)रोऽसि ।
तैस्तैर्गुणैरनुकरोषि पिनाकपाणिं
हन्तुं मो(?) किमधुना कथमक्षमोऽसि ॥९॥
अम्भोनिधौ निपतितो यदि सेतुहेतोः
शैलोऽपि दक्षिणसमीरणजन्मभूमिः ।
सीतैककान्तविरहेण क(व)रं कपीन्द्रैः
संरक्षिता युवतयः सकला भवेयुः ॥१०॥
यत्ते निसर्गलघिमा यदभूल्लतानां
संसृज्य पुष्परजसा तव धूसरत्वम् ।
मैत्रं च यत्तव जलैरुचितं तदा तै-
र्मन्दानिल त्वमसि यत्प्रतिकूलवृत्तिः ॥११॥
आरग्वधादनिल कोरकमाहर त्वं
सद्वा प्रसूनमथवा दलमेतदीयम् ।
सौरभ्यमेव यदि वा करुणा तवाहो
किं नाञ्जनेयजनकस्य वियोगिनीषु ॥१२॥
अत्युच्छ्रितासु सहकारमहीरुहाणां
शाखासु पुष्पनिबिडास्वधिरूढवन्तः ।
प्रायः कुहूरिति पिका निजकूजितेन
पथ्यां निशामभिवदन्ति वियोगिनीभ्यः ॥१३॥
पोषं स्वकीयजननीपरिवर्जितानां
कुर्वन्ति ये बलिभुजः पिकपोतकानाम् ।
तैः सम्यगेव विदितं परिरक्ष्यपात्रं
कृष्णात्मनां सुकृतरूपमपि क्रियासु ॥१४॥
पूर्वं मदीयवदनासवपुष्पितस्त्व-
मद्याहमस्मि विधिना हरविप्रयुक्ता ।
हा हन्त पीडयसि मां बकुल प्रसूनै-
र्भोक्तव्यमात्मकृतदुष्कृतमात्मनैव ॥१५॥
बाणः(?) सुवर्णविजयी शुचिरेष गन्ध[:]
संभावना शिरसि ते परमेश्वरेण ।
एतत्तथापि कृतमाल तवास्ति दोषो
यत्संगतोऽसि मलिनैरसकृद्विरेफैः ॥१६॥
उद्यानकेलिकमलानि च तानि हित्वा
शंभोः पदाम्बुजयुगे यदि ते रिरंसा ।
गीर्वाणनाथगणकस्य जनार्दनादे-
रारुह्यतां सपदि लालत(?) मौलिमाला ॥१७॥
काप्युच्चयः सुमनसां कुहचित्परागो
गन्धः क्वचित्कचन दक्षिणगन्धवाहः ।
दिष्टया वसन्तसमये मरणाभ्युपाय[:]
सार्वत्रिको विरहदुर्भरजीवितानाम् ॥१८॥
पूर्वं प्रवालमथ पुष्पमथो नु गन्धं
पश्चान्मधुव्रतकुलं पुनरस्य शब्दम् ।
चूते विधाय विधिरेवमभद्रमालां
किं किं करिष्यति वियुक्तनिरूढवैरः ॥१९॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानोक्तिपद्धतिः सप्तविंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP