भिक्षाटनकाव्यम् - षष्ठी पद्धतिः ।
उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।
नेत्रैर्मषीमलिनितैर्ददृशुस्तमेव
रथ्यागतं शिवमयत्नत एव नार्यः ।
ज्ञानात्मकेन विमलेन विलोकनेन
यद्वीक्षणाय हृदये यतयो यतन्ते ॥१॥
गौरीकुचक्षपितभस्मनि कापि दृष्टिं
चिक्षेप वक्षसि विभोरभिलाषगर्भाम् ।
तृष्णाग्रह(?)सुलभदुर्लभयोर्विवेके
सृष्टास्ति सोऽप्ययमतीव च कापि मेने ॥२॥
स्पन्दैरमन्दजनितैर्मुहुरेव यस्य
संसूचितं झडिति शर्म भविष्यतीति ।
अन्यं निमील्य निबिडं मुदितैव काचि-
द्वामेन तेन नयनेन शिवं ददर्श ॥३॥
न्यस्ता लिपिः शिरसि येन शरीरभाजां
तस्याप्यजस्य हरपाणिभृते कपाले ।
दृष्ट्वाक्षराणि निपुणा द्रुहिणस्य कश्चि-
देतान्यनेन लिखितानि किलेति मेने ॥४॥
वक्षःस्थलेऽतिमहति सरशासनस्य
स्वस्मिन्पयोधरयुगे च विजृम्भमाणे ।
कस्याश्चिदीक्षणयुगं विदधे कहृत्त(?)-
मानन्दशोकपिशुनानि गतानि तानि ॥५॥
आरादुदैक्षत तथा हरकण्ठमूल-
माश्लेषकौतुकवशेन चिराय काचित् ।
तस्या यथा कलितकज्जलदृष्टिपातैः
कल्मो(ल्मा)षितं तदति(?)पार्श्वजनस्य तर्कः ॥६॥
काचित्करेण मणिदर्पणमुद्वहन्ती
तत्रावलोक्य गिरिशं प्रतिबिम्बलग्नम् ।
कण्ठे कथं मलिनमेति गतं गलस्थं
मुग्धा मुहुर्मुकुर एव मुधा ममर्ज(ममार्ज) ॥७॥
कुम्भस्थलं कुचतटेन गतेन यान-
मूर्वो युगेन च करं करिणो जहास ।
या पूर्वमद्य किल सा वसिते हरेण
तस्यैव चर्मणि कुतूहलिनी बभूव ॥८॥
1पूर्णेन्दुबिम्बतुलितेन मलेन काचि-
त्प्रीतिं चकार हरहारमहोरगस्य ।
सा तस्य भीतिमपि भीतिनिवृत्तिकण्ठी
सस्मार केशनिचयेन मयूरगङ्गीम् ॥९॥
कस्याश्चिदीक्षणमलोकविलासलोलं
बिम्बौष्ठरक्तकुमुदे पदपाणिपद्मे ।
सस्ताव(प?)हारिणि हराख्यमहातटाके
सद्यो निपत्य शफरायितमाचचार ॥१०॥
आलोक्य लोकविपरीतममुष्य काचि-
त्कङ्कालमंसशिखरे शितशूलबद्धम् ।
कोऽयं क्रमः प्रमहसामिति विस्मयेन
नासानिवेशितकराङ्गुलिरेव तस्थौ ॥११॥
कस्याश्चिदायतदृशो हरकण्ठमूलं
कण्ठग्रहोत्सुकतयैव विलोकयन्त्याः ।
त्रासावहस्तु न गरो न च हारसर्पो
यत्पार्वतीवलयपतिपदं तदेव ॥१२॥
नेत्रद्वयेन हृतधीः करुणामयेन
काचितृतीयमपि लोचनमीश्वरस्य ।
उन्मीलितं चिरनिमीलितमाचकाङ्क्षे
सा तं न(तन्न) देवभुवनेन्धनवह्निगर्भम् ॥१३॥
कान्त्या रतिर्भुजगहारतयैव भासा
शोकश्च दुर्लभतया गरलेन भीतिः ।
केश्च(?) निर्दयतया च यदा कुलाक्ष्या
नानारसास्पदमजायत शंभुकण्ठः ॥१४॥
अङ्गानि भीषणभुजंगविभूषणानि
मत्वेतराणि नयनं विनिवर्ति(३) तेभ्यः ।
वक्रं स्मिताभरणमीशितुरीक्षमाणां
बालां रुरोध सहसा प्रति नेत्रपात्रः ॥१५॥
संध्यानभःकपिशभासि विभोः कपर्दे
काचिद्विलोक्य बुभुदे (बुधे) तुहिनस्य रेखाम् ।
स्रष्टुः कपालशकलावलिसाहचर्या-
द्दंष्ट्रेव पोत्रिवपुषः पुरुषोत्तमस्य ॥१६॥
शंभोश्चिरं पदयुगे चिरमूरुकाण्डे
मध्येचिरं चिरमुरस्यधरे तथैव ।
एवं मुहुः कृतपरिभ्रमणान्मृगाक्ष्या
दृष्टिर्जगाम तृषितेव शिरःस्रवन्तीम् ॥१७॥
गङ्गामवेक्ष्य गिरिशस्य जटाकलापे
दीर्घोर्मिहस्तकलितेन्दुकलां चिराय ।
इत्थं बभूव किल भर्तरि शैलजाया
दाक्षिण्यपाक इव कापि मुहुः शुशोच ॥१८॥
व्यालोलकेशकलितैककरैव काचि-
काञ्चीगुणश्लथनदर्शितनाभिमूला ।
वक्षस्यभीष्टदयिताकुचमुद्रितोऽयं
योगी किलेति गिरिशं कुटिलं ददर्श ॥१९॥
शर्माद्भविष्यति ममेति तदीयकम्पै-
र्बुद्धाननन्द यदतीव पुरा वराङ्गी ।
तद्वाममेव नयनं शिवमीक्षमाणा
शर्वाण्यसर्वसमचित्ततया निनिन्द ॥२०॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दर्शनपद्धतिः षष्टी ।
N/A
References : N/A
Last Updated : September 19, 2022
TOP