भिक्षाटनकाव्यम् - चतुस्त्रिंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
अव्याजदुस्तरनिशीथपयोधिमध्ये
वैरायमाणविधिनैव निपातितानाम् ।
एणीदृशां हरभयाप्लवकाङक्षिणीनां
दौत्यत्वयानि(?) चरितानि जनः शृणोतु ॥१॥
कामातुरो नहि निरूपयति स्नदैन्यं
काचित्समस्तवनिताजनपूजनीया ।
दूत्यान्मुहुः सकृदपि त्रिपुरान्तकस्य
कण्ठग्रहाय" वरणं चकार ॥२॥
यः पाण्डुरस्त्वयमथाब्धिविषं निली(पी)य
नैल्यं बिभर्ति भुवनत्रयरक्षणाय ।
दौत्यं तथाविधतथा(या)र्हसि शंकरस्य
तस्येव कापि नवमम्बुधरं ययाचे ॥३॥
कल्याणबान्धवपरो जगतीह मातु-
रन्यो जनोऽयमिति जीवसखीषु रूक्षा ।
काचित्स्वमातरमयाचत शंभुदौत्यं
किं नैव कारयति कामभवो विकारः ॥४॥
सामोक्तिभिः प्रियसखीमनुचर्य काचि-
द्दौत्याय वाच्यमनया परिपृच्छ्यमाना ।
तूष्णीमजातनिजसंगमने वृषाङ्के
वक्तव्यहानिपरिदूयमना बभूव ॥५॥
यामेव जीवितसखीं परिरभ्य गाढ-
मीशोपकण्ठगमने त्वरयांचकार ।
तां प्रस्थितां सपदि वीक्ष्य रुरोध काचि-
दीशान्तिकान्यवनितागमनासहिष्णुः ॥६॥
संदेशगर्भितपुटे स्मरलेखपात्रे
विन्यस्तसान्द्रनवचन्दनपङ्कमृत्के ।
शंभोभविष्यति करप्रणयीति काचि-
न्मुद्रां व्यथाविरहिणी कुचचूचुकेन ॥७॥
मा गास्त्वमद्य हरसंनिधिमस्मदर्थे
प्राणासिका यदसि मे तदिहासितव्यम् ।
प्राणाः प्रयान्तु सुखमद्य ममेति काचि-
त्स्नेहोक्तिभिः प्रियसखीं त्वरयांचकार ॥८॥
न प्रेषिता प्रियसखी गिरिशस्य पार्श्वं
सा स्त्रीति शङ्कितधिया सुदृशा कयापि ।
मत्वा नपुंसकमिति प्रहितं मनोऽभू-
तच्चापि तत्र रमते किमयं विधत्ताम् ॥९॥
कृत्वाधरं रचितचिह्नमलक्तकेन
तस्याः कुचाग्रमपि कुङ्कुमकर्दमेन ।
काचिद्गभीरहृदया हरसंनिधानं
गन्तुं पुनः प्रियसखीं वनिता न्ययुक्त ॥१०॥
योऽपीदृशं वितनुते परकीयमिष्टं
तादृक्फलं स फल(लभ)ते पुनरित्यभिज्ञाम् ।
मामद्य योजय हरेण विधाय दौत्य-
मित्याजगाद विधुरा निशि चक्रवाकीम् ॥११॥
रागः शठो नियतमन्यतरानुरागः
स्वस्थः स एव पुरुषस्य निरङ्कुशस्य ।
मानग्रहो हि मरणाय वधूजनस्य
आचक्ष्व नाथमिति कापि जगाद दूतीम् ॥१२॥
वार्ताहरीमनधिगम्य हरेः शुचान्या
तापोऽर्जिते स्तनतटेऽश्रुजलं मुमोच ।
तस्मै हृदि स्थितवते स्थित एतदीयां
वक्तुं प्रविष्टमितरन्नहि तत्र दृष्टिम् ॥१३॥
संदेशमीशविषयं स्वयमेव काचि-
द्यम्मिन्विलेखितुमुपाक्रमताञ्चिताक्षी ।
तत्रैतदाशु धृतकज्जलबाष्पपातैः
प्रागक्षरार्पणविधेर्मलिनीचकार ॥१४॥
किं किं परिभ्रमसि........... कुदले मे
पुष्पोज्झितेऽपि मधुपार्थितया तथैव ।
आनीय शंभुमिह स द्रुतमाप्तकामो
भूयादिति भ्रमरमाह शुचेव काचित् ॥१५॥
दीर्घं मयैव कलजल्पितशिक्षणं ते
तद्दीक्षतामविरतस्य स एष कालः ।
कालान्तकाय कथया मम कामपीडा-
मित्यन्तरङ्गमपरा शुकमावभाषे ॥१६॥
कण्ठावतंसकुसुमाश्रयणापदेशा-
त्कस्यैव कण्ठविवरं प्रतिपाद्य सद्यः ।
वार्ताहरो भव हराय ममैव काचि-
दात्मालकान्तिकचरं भ्रमरं बभाषे ॥१७॥
स श्लेषदुःखशमनाय सरोरुहिण्याः
संध्या प्रयान्तमनुगम्य कठोरभासम् ।
आयास(सि) तेन न विनेति कथाप्रसङ्गा-
त्सख्युः पुरो विरहिणी वचनं जगाद ॥१८॥
आहूय दौत्यगमनाभिमुखीं वयस्यां
संदेशमीशविषये बहु वक्तुकामा ।
तत्पार्श्वमेष्यसि यदीत्यसमाप्तितोक्ति-
र्बाष्पैिरवोचदपरा कथनीयशेषम् ॥१९॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीप्रेषणपद्धतिश्चतुत्रिंशत् ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP