संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
नवमी पद्धतिः।

भिक्षाटनकाव्यम् - नवमी पद्धतिः।

उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।


तैस्तैर्विलासचरितैर्विकृतं न वेति
चित्तं परीक्षितुमयुग्मविलोचनस्य ।
यान्यूचिरे युवतयो वचनानि सार्धं
तस्योत्तरैरनुगुणैः कथयामि तानि ॥१॥

सख्यं वरेण्यघटितं द्रविणेश्वरेण
कार्श्यं तथापि किमिदं तव नापयातम् ।
किंचैष सुन्दरि चिराय पयोधरेण
स्फीतेन ते परिचितः कृश एव मध्यः ॥२॥

सर्वेषु जन्तुषु समं कथमिन्दुमौले
त्वामेव हन्तु विषमेक्षणमाह लोकः ।
मध्यः कृशोऽपि वहति स्तनयोर्भरं ते
तस्मिन्वहत्यपि च मध्यमवाद एव ॥३॥

दोषं विनैव भवतस्तरुणेन्दुमौले
कस्मात्पुरा विनिहतः करियूथनाथः ।
त्वत्पीवरस्तननिराकृतकुम्भकान्ति-
र्जीवन्मृतो मयि वराङ्गि मृषापवादः ॥४॥

आद्यन्तशून्यमिति वेदविदो विदन्ति
त्वामिन्दुशेखर जगत्युदयान्तभाजि ।
तद्वादमात्रमयमद्य हि दृष्ट एव
सर्वेश्चकोरनयने तव मध्यलोपः ॥५॥

उत्पाट्य पावकमयं नयनं ललाटे
प्लुष्टस्त्वया किमिति शंकर पुष्पकेतुः ।
दृष्टयैव ते यदयमाप पुनः प्रसूतिं
तं(तच्) चण्डि हासपदमस्म्यहमेवमेव ॥६॥

मुक्तामय(:) स्फुटमि(म)यं रशनागुणो मे
धिग्धिग्भयंकरभुजङ्गमकल्पितं ते
मुक्तामयत्वमिति चित्त्वमु तस्य बाले
यः संसजेत्तव नितम्बमजस्रमेव ॥७॥

पूर्णं विहाय कथमेनमनङ्गशत्रो
मूर्ध्ना भवान्वहसि(ति) नित्यकृशं शशाङ्कम् ।
त्वद्वक्रकान्तिपरिभूतिमनाकलय्य
पूर्णाद्वराङ्गि वर एव कृशोऽयमिन्दुः ॥८॥

ये गर्हिता गिरिश तेऽपि भवन्तमेत्य
श्लाध्या भवन्ति सहसेति सतां प्रवादः ।
रागोऽधरे कुटिलताप्यलके, कृशत्वं
मध्ये, कुचे कठिनता च तथा न किं ते ॥९॥

वैवस्वतेन दमितः सकलोऽपि लोकः
सोऽपि त्वदीयचरणेन पिनाकपाणे ।
पद्मं शशी जयति भीरु मुखं तवैन-
मेकान्ततो न विजयो न पराजयो वा ॥१०॥

देहीति वाचि पदमद्य तवेन्दुमौले
चक्षुः पुनर्मुगदृशां मणिमेखलासु ।
पुंसो रसार्द्रहृदयस्य पुरो वधूनां
वाक्ये च चेतसि च कर्मणि चान्यदन्यत् ॥११॥

एतेन भैक्षचरणेन जगत्कुटुम्ब-
त्राणक्षमा पशुपते किमलाभि पूर्तिः ।
पूर्णो न किं प्रतिदिनं त्वयि भिक्षमाणो
लावण्यमाननगतं प्रतिपच्छशाङ्कः ॥१२॥

अग्रेसरस्त्वमसि नाथ विलासभाजां
भिक्षामटस्यपि कथं त्वमपास्तलज्जः ।
स्वच्छन्दवीक्षणवचांसि पृथग्वधूपु
कर्तुं न भैक्षचरणादपरोऽप्यु(स्त्यु)पायः ॥१३॥
एतानि नाथ वचनान्यमृतोपमानि
कण्ठादुपात्तगरलादपि निर्गतानि ।
स्वादिष्ठता वचसि वक्र(क्तृ)गुणैर्न जाता
श्रोतुर्जनस्य गुणवत्त्वनिबन्धनैव ॥१४॥

क्रीडापरः कथमसि त्वमनादिवृद्धो
मुग्धासु भैक्षचरणच्छलतो वधूषु ।
यः संगमो युवतिभिर्जरयातुराणां
तं सूरयो ज्वरणभैक्षजमामनन्ति ॥१५॥

धिक्त्वां भुजङ्गममयस्तव यस्य हारो
मुक्तामयस्तव न किं मम पश्य नाथ ।
मुक्तामयत्वमुचितं ननु तस्य बाले
पीनस्तनेन कृतसंगमनिर्वृतस्य ॥१६॥

अन्यत्र यातमपि मानसमीश किं ते
नैवाददासि बलिमद्य नच प्रयासि ।
धत्ते गुरुस्तनभरः कलकण्ठितस्य
तद्दक्षिणीकृतमिदं हृदयं मया ते ॥१७॥

धिक्कार्ष्ण्यमीश भवतो मुखपूर्णचन्द्रे
भ्रष्टं तदेव गणयामि गलस्थमेतत् ।
रागोऽधरे सुदति यः स तवाननेन्दो-
राभासि(ति) संचित इवोदयशोणभावः ॥१८॥

मध्यस्थमीश कथयन्त्यखिला भवन्तं
कस्मादकारि भवता स्मरदेहदाहः ।
पुंसां करोति मदिराक्षि नितान्तपीडां
मध्यस्थमेव कथमद्य वलित्रयं ते ॥१९॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उत्तरप्रत्युत्तरपद्धतिर्नवमी ।

N/A

References : N/A
Last Updated : September 19, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP