संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ०८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच॥
इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः॥
प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः ॥१॥
नारद उवाच॥
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते॥
धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः ॥२॥
श्राविता सुकथा दिव्या शिवभक्तिविवर्द्धिनी॥
अरुंधत्यास्तथा तस्याः स्वरूपायाः परे भवे ॥३॥
इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम्॥
शिवस्य परपापघ्नं मंगलप्रदमुत्तमम् ॥४॥
गृहीतदारे कामे च दृष्टे तेषु गतेषु च॥
संध्यायां किं तपस्तप्तुं गतायामभवत्ततः ॥५॥
सूत उवाच॥
इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः॥
सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत् ॥६॥
ब्रह्मोवाच॥
शृणु नारद विप्रेन्द्र तदैव चरितं शुभम्॥
शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः ॥७॥
अहं विमोहितस्तात यदैवांतर्हितः पुरा॥
अचिंतयं सदाहं तच्छंभुवाक्यविषार्दितः ॥८॥
चिंतयित्वा चिरं चित्ते शिवमायाविमोहितः॥
शिवे चेर्ष्यामकार्षं हि तच्छ्ृवृणुष्व वदामि ते ॥९॥
अथाहमगमं तत्र यत्र दक्षादयः स्थिताः॥
सरतिं मदनं दृष्ट्वा समदोह हि किञ्चन ॥१०॥
दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद॥
अवोचं वचनं सोहं शिवमायाविमोहितः ॥११॥
ब्रह्मोवाच॥
हे दक्ष हे मरीच्याद्यास्सुताः शृणुत मद्वचः॥
श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये ॥१२॥
कांताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत्॥
मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु ॥१३॥
तेन दुःखाभितप्तोहं लभेहं शर्म न क्वचित्॥
यथा गृह्णातु कांतां स स यत्नः कार्य एव हि ॥१४॥
यथा गृह्णातु कांतां स सुखी स्यां दुःखवर्जितः॥
दुर्लभस्य तु कामो मे परं मन्ये विचारतः ॥१५॥
कांताभिलाषमात्रं मे दृष्ट्वा शंभुरगर्हयत्॥
मुनीनां पुरतः कस्मात्स कांतां संग्रहीष्यति ॥१६॥
का वा नारी त्रिलोकेस्मिन् या भवेत्तन्मनाः स्थिता॥
योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति ॥१७॥
मन्मथोपि समर्थो नो भविष्यत्यस्य मोहने॥
नितांतयोगी रामाणां नामापि सहते न सः ॥१८॥
अगृहीतेषुणा चैव हरेण कथमादिना॥
मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता ॥१९॥
भुवि केचिद्भविष्यंति मायाबद्धा महासुराः॥
बद्धा केचिद्धरेर्नूनं केचिच्छंभोरुपायतः ॥२०॥
संसारविमुखे शंभौ तथैकांतविरागिणि॥
अस्मादृते न कर्मान्यत् करिष्यति न संशयः ॥२१॥
इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च॥
सरतिं मदनं तत्र सानंदमगदं ततः ॥२२॥
ब्रह्मोवाच॥
मत्पुत्र वर काम त्वं सर्वथा सुखदायकः॥
मद्वचश्शृणु सुप्रीत्या स्वपत्न्या पितृवत्सल ॥२३॥
अनया सहचारिण्या राजसे त्वं मनोभव॥
एषा च भवता पत्या युक्ता संशोभते भृशम् ॥२४॥
यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा॥
क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥२५॥
तथैव युवयोश्शोभा दांपत्यं च पुरस्कृतम्॥
अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ॥२६॥
जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनम्॥
यथाशु सुमनश्शंभुः कुर्य्याद्दारप्रतिग्रहम् ॥२७॥
विजने स्निग्धदेशे तु पर्वतेषु सरस्सु च॥
यत्रयत्र प्रयातीशस्तत्र तत्रानया सह ॥२८॥
मोहय त्वं यतात्मानं वनिताविमुखं हरम्॥
त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥२९॥
भूते हरे सानुरागे भवतोपि मनोभव ॥
शापोपशांतिर्भविता तस्मादात्महितं कुरु ॥३०॥
सानुरागो वरारोहां यदीच्छति महेश्वरः॥
तदा भवोपि योग्यार्यस्त्वां च संतारयिष्यति ॥३१॥
तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने॥
विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥३२॥
ब्रह्मोवाच॥
इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः॥
उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम् ॥३३॥
मन्मथ उवाच॥
करिष्येहं तव विभो वचनाच्छंभुमोहनम्॥
किं तु योषिन्महास्त्रं मे तत्कांतां भगवन् सृज ॥३४॥
मया संमोहिते शंभो यया तस्यानुमोहनम्॥
कर्तव्यमधुना धातस्तत्रोपायं परं कुरु ॥३५॥
ब्रह्मोवाच॥
एवंवादिनि कंदर्पे धाताहं स प्रजापतिः॥
कया संमोहनीयोसाविति चिंतामयामहम् ॥३६॥
चिंताविष्टस्य मे तस्य निःश्वासो यो विनिस्सृतः॥
तस्माद्वसंतस्संजातः पुष्पव्रातविभूषितः ॥३७॥
शोणराजीवसंकाशः फुल्लतामरसेक्षणः॥
संध्योदिताखंडशशिप्रतिमास्यस्सुनासिकः ॥३८॥
शार्ङ्गवच्चरणावर्त्तश्श्यामकुंचितमूर्द्धजः॥
संध्यांशुमालिसदृशः कुडलद्वयमंडितः ॥३९॥
प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः॥
कंबुग्रीवस्सुविस्तीर्णहृदयः पीनसन्मुखः ॥४०॥
सर्वांगसुन्दरः श्यामस्सम्पूर्णस्सर्वलक्षणैः॥
दर्शनीयतमस्सर्वमोहनः कामवर्द्धनः ॥४१॥
एतादृशे समुत्पन्ने वसंते कुसुमाकरे॥
ववौ वायुस्सुसुरभिः पादपा अपि पुष्पिताः ॥४२॥
पिका विनेदुश्शतशः पंचमं मधुरस्वनाः॥
प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः ॥४३॥
तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम्॥
हिरण्यगर्भो मदनमगदं मधुरं वचः ॥४४॥
ब्रह्मोवाच ॥एवं स मन्मथनिभस्सदा सहचरोभवत्॥
आनुकूल्यं तव कृतः सर्वं देव करिष्यति ॥४५॥
यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति॥
तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥४६॥
वसंतेरंतहेतुत्वाद्वसंताख्यो भवत्वयम्॥
तवानुगमनं कर्म तथा लोकानुरञ्जनम् ॥४७॥
असौ वसंतशृंगारो वासंतो मलयानिलः॥
भवेत्तु सुहृदो भावस्सदा त्वद्वशवर्त्तिनः ॥४८॥
विष्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा॥
रत्याः कुर्वंतु सौहृद्यं सुहृदस्ते यथा तव ॥४९॥
एभिस्सहचरैः काम वसंत प्रमुखैर्भवान्॥
मोहयस्व महादेवं रत्या सह महोद्यतः ॥५०॥
अहं तां कामिनीं तात भावयिष्यामि यत्नतः॥
मनसा सुविचार्यैव या हरं मोहयिष्यति ॥५१॥
ब्रह्मोवाच॥
एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः॥
ननाम चरणौ मेऽपि स पत्नी सहितस्तदा ॥५२॥
दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च॥
यत्रात्मा गतवाञ्शंभुस्तत्स्थानं मन्मथो ययौ ॥५३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे द्वितीये सतीखंडे वसंतस्वरूपवर्णनं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP