संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः २५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


राम उवाच॥
एकदा हि पुरा देवि शंभुः परमसूतिकृत्॥
विश्वकर्माणमाहूय स्वलोके परतः परे ॥१॥
स्वधेनुशालायां रम्यं कारयामास तेन च॥
भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ॥२॥
तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम्॥
कारयामास विघ्नार्थं शंकरो विश्वकर्मणा ॥३॥
शक्रादीनां जुहावाशु समस्तान्देवतागणान्॥
सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः ॥४॥
देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि॥
देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥५॥
देवानां च तथर्षीणां सिद्धानां फणिनामपि॥
आनयन्मंगलकराः कन्याः षोडशषोडश ॥६॥
वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने॥
उत्सवं कारयामास वादयित्वा सुगायनैः ॥७॥
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैः
प्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान् ॥८॥
तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा॥
ब्रह्मघोषं महारावं कारयामास शंकरः ॥९॥
अथो हरिं समाहूय वैकुंठात्प्रीतमानसः॥
तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः ॥१०॥
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे॥
उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥११॥
आबद्धरम्यमुकुटं कृतकौतुकमंगलम्॥
अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे ॥१२॥
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत्॥
ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः ॥१३॥
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम्॥
व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः ॥१४॥
महेश उवाच॥
अतः प्रभृति लोकेश मन्निदेशादयं हरिः॥
मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि ॥१५॥
सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम्॥
वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ॥१६ ॥
राम उवाच॥
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम्॥
विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥१७॥
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा॥
मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा ॥१८॥
ततो महेशो हरयेशंसद्दिविषदां तदा॥
महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः ॥१९॥
महेश उवाच॥
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया॥
दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ॥२०॥
जगदीशो जगत्पूज्यो महाबलपराक्रमः॥
अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥२१॥
शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया॥
नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये ॥२२॥
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः॥
त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥२३॥
मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः॥
यया संमोहितं विश्वमचिद्रूपं भविष्यति ॥२४॥
मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे॥
अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥२५॥
हृदयं मम यो रुद्रस्स एवाहं न संशयः॥
पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम् ॥२६॥
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः॥
नानावतारभेदैश्च सदा नानोति कर्तृभिः ॥२७॥
मम लोके तवेदं व स्थानं च परमर्द्धिमत्॥
गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ॥२८॥
भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः॥
मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात ॥२९॥
राम उवाच॥
अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम्॥
कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ॥३०॥
तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा॥
अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः ॥३१॥
सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत्॥
नानावतारस्संधर्ता वनकर्ता शिवाज्ञया ॥३२॥
इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया॥
रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च ॥३३॥
अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति॥
आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम् ॥३४॥
निशाचरेण मे जाया हृता सीतेति केनचित्॥
अन्वेष्यामि प्रियां चात्र विरही बंधुना वने ॥३५॥
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम॥
भविष्यति न संदेहो मातस्ते कृपया सति ॥३६॥
सीताप्राप्तिवरो देवि भविष्यति न संशयः॥
तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ॥३७॥
महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम्॥
यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ॥३८॥
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम्॥
तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ॥३९॥
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः॥
हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि ॥४०॥
स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम्॥
प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ ॥४१॥
अचिंतयत्पथि सा देवी संचलंती पुनः पुनः॥
नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ॥४२॥
किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ॥
इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा ॥४३॥
गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा॥
विषण्णवदना शोकव्याकुला विगतप्रभा ॥४४॥
अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः॥
प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ॥४५॥
श्रुत्वा शिववचो नाहं किमपि प्रणतानना॥
सती शोकविषण्णा सा तस्थौ तत्र समीपतः ॥४६॥
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा॥
दक्षजाया महायोगी नानालीला विशारदः ॥४७॥
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः॥
तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः ॥४८॥
विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह॥
धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा ॥४९॥
शिव उवाच॥
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान्॥
नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ॥५०॥
ब्रह्मोवाच॥
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम्॥
पणं न नाशयामास वेदधर्मप्रपालकः ॥५१॥
ततो विहाय मनसा सतीं तां परमेश्वरः॥
जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः ॥५२॥
चलंतं पथि तं व्योमवाण्युवाच महेश्वरम्॥
सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः ॥५३॥
व्योमवाण्युवाच॥
धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः॥
न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः ॥५४॥
ब्रह्मोवाच॥
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा॥
कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ॥५५॥
इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः॥
नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा ॥५६॥
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्॥
सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥५७॥
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः॥
शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः ॥५८॥
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम्॥
सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः ॥५९॥
सत्या प्राप स कैलासं कथयन् विविधाः कथा॥
वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ॥६०॥
तत्र तस्थौ सती धाम्नि महाविषण्णमानसा॥
न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ॥६१॥
महान्कालो व्यतीयाय तयोरित्थं महामुने॥
स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ॥६२॥
ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत्॥
तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा ॥६३॥
ननामाथ शिवं देवी हृदयेन विदूयता॥
आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः ॥६४॥
कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः॥
निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम् ॥६५॥
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः॥
नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे ॥६६॥
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने॥
किल केचिदविद्वांसो वियोगश्च कथं तयोः ॥६७॥
शिवाशिवचरित्रं को जानाति परमार्थतः॥
स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा ॥६८॥
वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ॥
तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः ॥६९॥
इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP