संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ३०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


॥नारद उवाच॥
मौनीभूता यदा सासीत्सती शंकरवल्लभा॥
चरित्रं किमभूत्तत्र विधे तद्वद चादरात् ॥१॥
॥ब्रह्मोवाच॥
मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात॥
क्षितावुदीच्यां सहसा निषसाद प्रशांतधीः ॥२॥
जलमाचम्य विधिवत् संवृता वाससा शुचिः॥
दृङ्निमील्य पतिं स्मृत्वा योगमार्गं समाविशत् ॥३॥
कृत्वासमानावनिलौ प्राणापानौ सितानना॥
उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः ॥४॥
हृदि स्थाप्योरसि धिया स्थितं कंठाद्भ्रुवोस्सती॥
अनिंदितानयन्मध्यं शंकरप्राणवल्लभा ॥५॥
एवं स्वदेहं सहसा दक्षकोपाज्जिहासती॥
दग्धे गात्रे वायुशुचिर्धारणं योगमार्गतः ॥६॥
ततस्स्वभर्तुश्चरणं चिंतयंती न चापरम्॥
अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः ॥७॥
हतकल्मषतद्देहः प्रापतच्च तदग्निना॥
भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया ॥८॥
तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा॥
हाहेति सोद्भुतश्चित्रस्सुरादीनां भयावहः ॥९॥
हं प्रिया परा शंभोर्देवी दैवतमस्य हि॥
अहादसून् सती केन सुदुष्टेन प्रकोपिता ॥१०॥
अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत॥
चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः ॥११॥
अहोद्य द्विमनाऽभूत्सा सती देवी मनस्विनी॥
वृषध्वजप्रियाऽभीक्ष्णं मानयोग्या सतां सदा ॥१२॥
सोयं दुर्मर्षहृदयो ब्रह्मधृक् स प्रजापतिः॥
महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे ॥१३॥
यत्स्वांगजां सुतां शंभुद्विट् न्यषे धत्समुद्यताम्॥
महानरकभोगी स मृतये नोऽपराधतः ॥१४॥
वदत्येवं जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम्॥
द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः ॥१५॥
द्वारि स्थिता गणास्सर्वे रसायुतमिता रुषा॥
शंकरस्य प्रभोस्ते वाऽकुध्यन्नतिमहाबलाः ॥१६॥
हाहाकारमकुर्वंस्ते धिक्धिक् न इति वादिनः॥
उच्चैस्सर्वेऽसकृद्वीरःश्शंकरस्य गणाधिपाः ॥१७॥
हाहाकारेण महता व्याप्त मासीद्दिगन्तरम्॥
सर्वे प्रापन् भयं देवा मुनयोन्येपि ते स्थिताः ॥१८॥
गणास्संमंत्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः॥
कुर्वन्तः प्रलयं वाद्यशस्त्रैर्व्याप्तं दिगंतरम् ॥१९॥
शस्त्रैरघ्नन्निजांगानि केचित्तत्र शुचाकुलाः॥
शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः ॥२०॥
इत्थं ते विलयं प्राप्ता दाक्षायण्या समं तदा॥
गणायुते द्वे च तदा तदद्भुतमिवाभवत् ॥२१॥
गणा नाशाऽवशिष्टा ये शंकरस्य महात्मनः॥
दक्षं तं क्रोधितं हन्तुं मुदा तिष्ठन्नुदायुधाः ॥२२॥
तेषामापततां वेगं निशम्य भगवान् भृगुः॥
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने ॥२३॥
हूयमाने च भृगुणा समुत्पेतुर्महासुराः॥
ऋभवो नाम प्रबलवीरास्तत्र सहस्रशः ॥२४॥
तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर॥
अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम् ॥२५॥
ऋभुभिस्तैर्महावीरैर्हन्यमानास्समन्ततः॥
अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा ॥२६॥
एवं शिवगणास्ते वै हता विद्राविता द्रुतम्॥
शिवेच्छया महाशक्त्या तदद्भुतमिवाऽभवत् ॥२७॥
तद्दृष्ट्वा ऋषयो देवाश्शक्राद्यास्समरुद्गणाः॥
विश्वेश्विनौ लोकपालास्तूष्णीं भूतास्तदाऽभवन् ॥२८॥
केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तस्समन्ततः॥
उद्विग्ना मन्त्रयंतश्च विप्राभावं मुहुर्मुहुः ॥२९॥
सुविचार्योदर्कफलं महोद्विग्नास्सुबुद्धयः॥
सुरविष्ण्वादयोभूवन् तन्नाशाद्रावणान्मुहुः ॥३०॥
एवंभूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः॥
ब्रह्मबंधोश्च दक्षस्य शंकरद्रोहिणो मुने ॥३१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने सतीदेहत्यागोपद्रववर्णनं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP