संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः २६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
पुराभवच्च सर्वेषामध्वरो विधिना महान्॥
प्रयागे समवेतानां मुनीनां च महा त्मनाम् ॥१॥
तत्र सिद्धास्समायातास्सनकाद्यास्सुरर्षयः॥
सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ॥२॥
अहं समागतस्तत्र परिवारसमन्वितः॥
निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ॥३॥
समाजोभूद्विचित्रो हि तेषामुत्सवसंयुः॥
ज्ञानवादोऽभवत्तत्र नानाशास्त्रस मुद्भवः ॥४॥
तस्मिन्नवसरे रुद्रस्सभवानीगणः प्रभुः॥
त्रिलोकहितकृत्स्वामी तत्रागात्सूक्तिकृन्मुने ॥५॥
दृष्ट्वा शिवं सुरास्सर्वे सिद्धाश्च मुनयस्तथा॥
अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ॥६॥
तस्थुश्शिवाज्ञया सर्वे यथास्थानं मुदान्विताः॥
प्रभुदर्शनसंतुष्टाः वर्णयन्तो निजं विधिम् ॥७॥
तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः॥
आगमत्तत्र सुप्रीतस्सुवर्चस्वी यदृच्छया ॥८॥
मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया॥
ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ॥९॥
स्तुतिभिः प्रणिपातैश्च दक्षस्सर्वैस्सुरर्षिभिः॥
पूजितो वरतेजस्वी करौ बध्वा विनम्रकैः ॥१०॥
नानाविहारकृन्नाथस्स्वतंत्र परमोतिकृत्॥
नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ॥११॥
दृष्टाऽनतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः॥
अकुपत्सहसा रुद्रे तदा दक्षः प्रजापतिः ॥१२॥
क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम्॥
सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ॥१३॥
एते हि सर्वे च सुरासुरा भृशं नमंति मां विप्रवरास्तथर्षयः॥
कथं ह्यसौ दुर्जनवन्महामनास्त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥१४॥
श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना॥
लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकस्सदा ॥१५॥
पाखंडिनो दुर्जनपाप शीला दृष्ट्वा द्विजं प्रोद्धतनिंदकाश्च॥
वध्वां सदासक्तरतिप्रवीणस्तस्मादमुं शप्तुमहं प्रवृत्तः ॥१६॥
ब्रह्मोवाच॥
इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत्॥
शृण्वंत्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ॥१७ ॥
दक्ष उवाच ॥
रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोथ विवर्णरूपः॥
देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्म हीनः ॥१८॥
 ॥ब्रह्मोवाच ॥
इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः॥
अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैस्समम् ॥१९॥
नन्दी निशम्य तद्वाक्यं लालाक्षोतिरुषान्वितः॥
अब्रवीत्त्वरितं दक्षं शापं दातुमना गणः ॥२०॥
नन्दीश्वर उवाच॥
रेरे शठ महा मूढ दक्ष दुष्टमते त्वया॥
यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ॥२१॥
यस्य स्मरणमात्रेण भवंति सफला मखाः॥
तीर्थानि च पवित्राणि सोयं शप्तो हरः कथम् ॥२२॥
वृथा ते ब्रह्मचापल्याच्छप्तोयं दक्ष दुर्मते॥
वृथोपहसितश्चैवादुष्टो रुद्रो महा प्रभुः ॥२३॥
येनेदं पाल्यते विश्वं सृष्टमंते विनाशितम्॥
शप्तोयं स कथं रुद्रो महेशो ब्राह्मणाधम ॥२४॥
एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः॥
नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ॥२५॥
दक्ष उवाच॥
यूयं सर्वे रुद्रगणा वेदबाह्या भवंतु वै॥
वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ॥२६॥
पाखंडवादनिरताः शिष्टाचारबहिष्कृताः॥
मदिरापाननिरता जटा भस्मास्थिधारिणः ॥२७॥
ब्रह्मोवाच॥
इति शप्तास्तथा तेन दक्षेण शिवकिंकराः॥
तच्छ्रुत्वातिरुषाविष्टोभवन्नंदी शिवप्रियः ॥२८॥
प्रत्युवाच द्रुतं पक्षं गर्वितं तं महाखलम्॥
शिलादतनयो नंदी तेजस्वी शिववल्लभः ॥२९॥
नन्दीश्वर उवाच॥
रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिंकराः॥
शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता ॥३०॥
भृग्वाद्यैर्दुष्टचित्तैश्च मूढैस्स उपहासितः॥
महा प्रभुर्महेशानो ब्राह्मणत्वादहंमते ॥३१॥
ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः॥
रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम् ॥३२॥
वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः॥
भवंतु सततं विप्रा नान्यदस्तीति वादिनः ॥३३॥
कामात्मानर्स्स्वर्गपराः क्रोधलोभमदान्विताः॥
भवंतु सततं विप्रा भिक्षुका निरपत्रपाः ॥३४॥
वेदमार्गं पुरस्कृत्य ब्राह्मणाश्शूद्रयाजिनः॥
दरिद्रा वै भविष्यंति प्रतिग्रहरता स्सदा ॥३५॥
असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः॥
भविष्यंति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः ॥३६॥
यश्शिवं सुरसामान्यमुद्दिश्य परमेश्वरम्॥
द्रुह्यत्यजो दुष्टमतिस्तत्त्वतो विमुखो भवेत् ॥३७॥
कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया॥
कर्मतंत्रं वितनुता वेदवादं च शाश्वतम् ॥३८॥
विनष्टानंदकमुखो विस्मृतात्मगतिः पशुः॥
भ्रष्टकर्मानयसदा दक्षो बस्तमुखोऽचिरात् ॥३९॥
शप्तास्ते कोपिना तत्र नंदिना ब्राह्मणा यदा॥
हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः ॥४०॥
तदाकर्ण्यामहत्यंतमनिंदंतं मुहुर्मुहुः॥
भृग्वादीनपि विप्रांश्च वेदसृट् शिव तत्त्ववित् ॥४१॥
ईश्वरोपि वचः श्रुत्वा नंदिनः प्रहसन्निव॥
उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः ॥४२॥
सदाशिव उवाच॥
शृणु नंदिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि॥
वृथा शप्तो ब्रह्मकुलो मत्वा शप्तं च मां भ्रमात् ॥४३॥
वेदो मंत्राक्षरमयस्साक्षात्सूक्तमयो भृशम्॥
सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ॥४४॥
तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः॥
शप्या न वेदाः केनापि दुर्द्धियापि कदाचन ॥४५॥
अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि॥
शान्तो भव महाधीमन्सनकादिविबोधकः ॥४६॥
यज्ञोहं यज्ञकर्माहं यज्ञांगानि च सर्वशः॥
यतात्मा यज्ञनिरतो यज्ञबाह्योहमेव वै ॥४७॥
कोयं कस्त्वमिमे के हि सर्वोहमपि तत्त्वतः॥
इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः ॥४८॥
तत्त्वज्ञानेन निर्हृत्य प्रपंचरचनो भव॥
बुधस्स्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः ॥४९॥
 ॥ब्रह्मोवाच॥
एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः॥
विवेकपरमो भूत्वा शांतोऽभूत्क्रोधवर्जितः ॥५०॥
शिवोपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम्॥
सगणस्स ययौ तस्मात्स्वस्थानं प्रमुदान्वितः ॥५१॥
दक्षोपि स रुषाविष्टस्तैर्द्धिजैः परिवारितः॥
स्वस्थानं च ययौ चित्ते शिवद्रो हपरायणः ॥५२॥
रुद्रं तदानीं परिशप्यमानं संस्मृत्य दक्षः परया रुषान्वितः॥
श्रद्धां विहायैव स मूढबुद्धिर्निंदापरोभूच्छिवपूजकानाम् ॥५३॥
इत्युक्तो दक्षदुर्बुद्धिश्शंभुना परमात्मना॥
परां दुर्धिषणां तस्य शृणु तात वदाम्यहम् ॥५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP