संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः २३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
एवं कृत्वा विहारं वै शंकरेण च सा सती॥
संतुष्टा साभवच्चाति विरागा समजायत ॥१॥
एकस्मिन्दिवसे देवी सती रहसि संगता॥
शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृतांजलिः ॥२॥
सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती॥
उवाच सांजलिर्भक्त्या विनयावनता ततः ॥३॥
सत्युवाच॥
देवदेव महादेव करुणा सागर प्रभो॥
दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥४॥
त्वं परः पुरुषस्स्वामी रजस्सत्त्वतमः परः॥
निर्गुणस्सगुणस्साक्षी निर्विकारी महाप्रभुः ॥५॥
धन्याहं ते प्रिया जाता कामिनी सुविहारिणी॥
जातस्त्वं मे पतिस्स्वामिन्भक्तिवात्सल्यतो हर ॥६॥
कृतो बहुसमा नाथ विहारः परमस्त्वया॥
संतुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥७॥
ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम्॥
यं न संसारदुःखाद्वै तरेज्जीवोंजसा हर ॥८॥
यत्कृत्वा विषयी जीवस्स लभेत्परमं पदम्॥
संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥९॥
ब्रह्मोवाच॥
इत्यपृच्छत्स्म सद्भक्त्या शंकरं सा सती मुने॥
आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥१०॥
आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः॥
अवोचत्परमप्रीतस्सतीं योगविरक्तधीः ॥११॥
 ॥शिव उवाच॥
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि॥
परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥१२॥
परतत्त्वं विजानीहि विज्ञानं परमेश्वरी॥
द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥१३॥
तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये॥
यादृशो यस्सदासोहं ब्रह्मसाक्षात्परात्परः ॥१४॥
तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा॥
सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥१५॥
भक्तौ ज्ञाने न भेदो हि तत्कर्तुस्सर्वदा सुखम्॥
विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥१६॥
भक्त्या हीनस्सदाहं वै तत्प्रभावाद्गृहेष्वपि॥
नीचानां जातिहीनानां यामि देवि न संशयः ॥१७॥
सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता॥
वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥१८॥
नैष्ठिक्या नैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते॥
षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥१९॥
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः॥
तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥२०॥
ते नवांगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये॥
वर्णयामि नवांगानि प्रेमतः शृणु दक्षजे ॥२१॥
श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा॥
दास्यं तथार्चनं देवि वंदनं मम सर्वदा ॥२२॥
सख्यमात्मार्पणं चेति नवांगानि विदुर्बुधाः॥
उपांगानि शिवे तस्या बहूनि कथितानि वै ॥२३॥
शृणु देवि नवांगानां लक्षणानि पृथक्पृथक्॥
मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ॥२४॥
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा॥
स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥२५॥
हृदाकाशेन संपश्यञ् जन्मकर्माणि वै मम॥
प्रीत्याचोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥२६॥
व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा॥
निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥२७॥
अरुणोदयमारभ्य सेवाकालेंचिता हृदा॥
निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥२८॥
सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः॥
हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥२९॥
सदा भृत्यानुकूल्येन विधिना मे परात्मने॥
अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥३०॥
मंत्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात्॥
यदष्टांगेन भूस्पर्शं तद्वै वंदनमुच्यते ॥३१॥
मंगलामंगलं यद्यत्करोतीतीश्वरो हि मे॥
सर्वं तन्मंगलायेति विश्वासः सख्यलक्षणम् ॥३२॥
कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम्॥
निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम् ॥३३॥
नवांगानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च॥
मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥३४॥
उपांगानि च मद्भक्तेर्बहूनि कथितानि वै॥
बिल्वादिसेवनादीनि समू ह्यानि विचारतः ॥३५॥
इत्थं सांगोपांगभक्तिर्मम सर्वोत्तमा प्रिये॥
ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥३६॥
सर्वकर्मफलोत्पत्तिस्सर्वदा त्वत्समप्रिया॥
यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ॥३७॥
त्रैलोक्ये भक्तिसदृशः पंथा नास्ति सुखावहः॥
चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥३८॥
कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ॥
ग्राहकाभावतो देवि जातौ जर्जर तामति ॥३९॥
कलौ प्रत्यक्षफलदा भक्तिस्सर्वयुगेष्वपि॥
तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥४०॥
यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत्॥
विघ्नहर्ता रिपुस्तस्य दंड्यो नात्र च संशयः ॥४१॥
भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतः
अदहं वह्निना नेत्रभवेन निजरक्षकः ॥४२॥
भक्तहेतोरहं देवि रव्युपर्यभवं किल।
अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा ॥४३॥
भक्तहेतोरहं देवि रावणं सगणं क्रुधा॥
त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै ॥४४॥
भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम्॥
काश्या न्यसारयत् क्रोधाद्दण्डयित्वा च नंदिना ॥४५॥
किं बहूक्तेन देवेशि भक्त्याधीनस्सदा ह्यहम्॥
तत्कर्तुं पुरुषस्यातिवशगो नात्र संशयः ॥४६॥
ब्रह्मोवाच॥
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती॥
जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥४७॥
पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने॥
शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥४८॥
सयंत्रमंत्रशास्त्रं च तन्माहात्म्यं विशेषतः॥
अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥४९॥
शंकरोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः॥
वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥५०॥
तत्र शास्त्रं सयंत्रं हि सपंचाङ्गं महेश्वरः॥
बभाषे महिमानं च तत्तद्दैववरस्य वै ॥५१॥
सेतिहासकथं तेषां भक्तमाहात्म्यमेव च॥
सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥५२॥
सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम्॥
वैद्यशास्त्रं तथा ज्योतिश्शास्त्रं जीवसुखावहम् ॥५३॥
सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः॥
कृपां कृत्वा महे शानो वर्णयामास तत्त्वतः ॥५४॥
इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ॥
लोकोपकारकरणधृतसद्गुणविग्रहौ ॥५५॥
चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ॥
अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP