संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः २२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
कदाचिदथ दक्षस्य तनया जलदागमे॥
कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ॥१॥
सत्युवाच॥
देव देव महादेव शंभो मत्प्राणवल्लभ॥
शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ॥२॥
घनागमोयं संप्राप्तः कालः परमदुस्सहः॥
अनेकवर्णमेघौघास्संगीतांबरदिक्चयाः ॥३॥
विवांति वाता हृदयं हारयंतीत वेगिनः॥
कदंबरजसा धौताः पाथोबिन्दुविकर्षणाः ॥४॥
मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम्॥
विद्युत्पताकिनां तीव्रः क्षुब्धं स्यात्कस्य नो मनः ॥५॥
न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः॥
दिवापि रात्रिवद्भाति विरहि व्यसनाकरः ॥६॥
मेघानैकत्र तिष्ठंतो ध्वनन्त पवनेरिताः॥
पतंत इव लोकानां दृश्यंते मूर्ध्नि शंकर ॥७॥
वाताहता महावृक्षा नर्तंत इव चांबरे॥
दृश्यंते हर भीरूणां त्रासदाः कामुकेप्सिता ॥८॥
स्निग्धनीलांजनस्याशु सदिवौघस्य पृष्ठतः॥
बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत् ॥९॥
क्षपाक्षयेषवलयं दृश्यते कालिकागता॥
अंबुधाविव संदीप्तपावको वडवामुखः ॥१०॥
प्रारोहंतीह सस्यानि मंदिरं प्राङ्गणेष्वपि॥
किमन्यत्र विरूपाक्ष सस्यौद्भूतिं वदाम्यहम् ॥११॥
श्यामलै राजतैरक्तैर्विशदोयं हिमाचलः॥
मंदराश्रयमेघौघः पत्रैर्दुग्धांबुधिर्यथा ॥१२॥
असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान्॥
उच्चावचान् कलौ लक्ष्मीर्गन्ता संत्यज्य सज्जनान् ॥१३॥
मंदारस्तन पीलूनां शब्देन हृषिता मुहुः॥
केकायंते प्रतिवने सततं पृष्ठसूचकम् ॥१४॥
मेघोत्सुकानां मधुरश्चातकानां मनोहरः॥
धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ॥१५॥
मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः॥
ये छादयंत्यनुगते मयूरांश्चातकांस्तथा ॥१६॥
शिखसारंगयोर्दृष्ट्वा मित्रादपि पराभवम्॥
हर्षं गच्छंति गिरिशं विदूरमपि मानसम् ॥१७॥
एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः॥
कुर्वंति त्वां विना गेहान् कथं शांतिमवाप्स्यसि ॥१८॥
महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक्॥
यतस्व यस्माद्वासाय माचिरं वचनान्मम ॥१९॥
कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ॥
तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ॥२०॥
 ॥ब्रह्मोवाच॥
एवमुक्तस्तया शंभुर्दाक्षायण्या तथाऽसकृत॥
संजहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ॥२१॥
अथोवाच सतीं देवीं स्मितभिन्नौष्ठसंपुटः॥
महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ॥२२॥
ईश्वरः उवाच॥
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे॥
मेघास्तत्र न गंतारः कदाचिदपि मत्प्रिये ॥२३॥
मेघा नितंबपर्यंतं संचरंति महीभृतः॥
सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे ॥२४॥
कैलासस्य तथा देवि पादगाः प्रायशो घनाः॥
संचरंति न गच्छंति तत ऊर्द्ध्वं कदाचन ॥२५॥
सुमेरोर्वा गिरेरूर्द्ध्वं न गच्छंति बलाहकाः॥
जम्बूमूलं समासाद्य पुष्करावर्तकादयः ॥२६॥
इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते॥
मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ॥२७॥
स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः॥
शब्दोत्तरंगैर्मधुरस्वनैस्तैर्मुदोपगेयानि गिरौ हिमोत्थे ॥२८॥
सिद्धाङ्गनास्ते रचितासना भुवमिच्छंति चैवोपहृतं सकौतुकम्॥
स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यंति फलादिदानकैः ॥२९॥
फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरंगमुख्याः॥
सर्वास्तु तास्ते सततं सहायतां समाचरिष्यंत्यनुमोदविभ्रमैः ॥३०॥
रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वांगना निजवपुर्निजकांतिसह्यम्॥
हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥३१॥
या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके॥
सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः ॥३२॥
पुरं हि वर्गैर्गिंरिराजवंद्यैः प्रीतिं विचिन्वद्भिरुदाररूपा॥
शिक्षा सदा ते खलु शोचितापि कार्याऽन्वहं प्रीतियुता गुणाद्यैः ॥३३॥
विचित्रैः कोकिलालापमोदैः कुंजगणावृतम्॥
सदा वसंतप्रभवं गंतुमिच्छसि किं प्रिये ॥३४॥
नानाबहुजलापूर्णसरश्शीत समावृतम्॥
पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ॥३५॥
सर्वकामप्रदैर्वृक्षैश्शाद्वलैः कल्पसंज्ञकैः॥
सक्षणं पश्य कुसुमान्यथाश्वकरि गोव्रजे ॥३६॥
प्रशांतश्वापदगणं मुनिभिर्यतिभिर्वृतम्॥
देवालयं महामाये नानामृगगणैर्युतम् ॥३७॥
स्फटिक स्वर्णवप्राद्यै राजतैश्च विराजितम्॥
मानसादिसरोरंगैरभितः परिशोभितम् ॥३८॥
हिरण्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम्॥
शिशुमारैस्तथासंख्यैः कच्छपैर्मकरैः करैः ॥३९॥
निषेवितं मंजुलैश्च तथा नीलोत्पलादिभिः॥
देवेशि तस्मान्मुक्तैश्च सर्वगंधैश्च कुंकुमैः ॥४०॥
लसद्गंधजलैः शुभ्रैरापूर्णैः स्वच्छकांतिभिः॥
शाद्वलैस्तरुणैस्तुंगैस्तीरस्थैरुपशोभितम् ॥४१॥
नृत्यद्भिरिव शाखोटैर्वर्जयंतं स्वसंभवम्॥
कामदेवैस्सारसैश्च मत्तचक्रांगशोभितैः ॥४२॥
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः॥
शब्दायमानं च मुदा कामोद्दीपनकारकम् ॥४३॥
वासवस्य कुबेरस्य यमस्य वरुणस्य च॥
अग्नेः कोणपराजस्य मारुतस्य परस्य च ॥४४॥
पुरीभिश्शोभिशिखरं मेरोरुच्चैस्सुरालयम्॥
रंभाशचीमेनकादिरंभोरुगणसेवितम् ॥४५॥
किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम्॥
सारभूते महारम्ये संविहर्तुं महागिरौ ॥४६॥
तत्र देवी सखियुता साप्सरोगणमंडिता॥
नित्यं करिष्यति शची तव योग्यां सहायताम् ॥४७॥
अथवा मम कैलासे पर्वतेंद्रे सदाश्रये॥
स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ॥४८॥
गंगाजलौघप्रयते पूर्णचन्द्रसमप्रभे॥
दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ॥४९॥
नानामृगगणैर्युक्ते पद्माकरशतावृते॥
सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुंदरि ॥५०॥
स्थानेष्वेतेषु यत्रापि तवांतःकरणे स्पृहा॥
तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ॥५१॥
ब्रह्मोवाच॥
इतीरिते शंकरेण तदा दाक्षायणी शनैः॥
इदमाह महादेवं लक्षणं स्वप्रकाशनम् ॥५२॥
 ॥सत्युवाच॥
हिमाद्रावेव वसितुमहमिच्छे त्वया सह॥
न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ ॥५३॥
ब्रह्मोवाच॥
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः॥
हिमाद्रिशिखरं तुंगं दाक्षायण्या समं ययौ ॥५४॥
सिद्धांगनागणयुतमगम्यं चैव पक्षिभिः॥
अगमच्छिखरं रम्यं सरसीवनराजितम् ॥५५॥
विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम्॥
बालार्कसदृशं शंभुराससाद सतीसखः ॥५६॥
स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजिते
विचित्रपुष्पावलिभिस्सरसोभिश्च संयुते ॥५७॥
प्रफुल्लतरुशाखाग्रं गुंजद्भ्रमरसेवितम् ॥
पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा ॥५८॥
शोभितं चक्रवाकाद्यैः कादंबैर्हंसशंकुभिः॥
प्रमत्तसारसैः क्रौंचैर्नीलस्कंधैश्च शब्दितैः ॥५९॥
पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः॥
तुरंगवदनैस्सिद्धैरप्सरोभिश्च गुह्यकैः ॥६०॥
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम्॥
पुरंध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम् ॥६१॥
विपंचीतांत्रिकामत्तमृदंगपटहस्वनैः ॥
नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ॥६२॥
देविकाभिर्दीर्घिकाभिर्गंधिभिस्सुसमावृतम्॥
प्रफुल्लकुसुमैर्नित्यं सकुंजैरुपशोभितम् ॥६३॥
शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः॥
सह सत्या चिरं रेमे एवंभूतेषु शोभनम् ॥६४॥
तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शंकरः॥
दशवर्षसहस्राणि रेमे सत्या समं मुदा ॥६५॥
 स कदाचित्ततस्स्थानादन्यद्याति स्थलं हरः॥
कदाचिन्मेरुशिखरं देवी देववृतं सदा ॥६६॥
द्वीपान्नाना तथोद्यानवनानि वसुधातलम्॥
गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ॥६७॥
न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपस्समम्॥
सत्यां हि मनसा शंभुः प्रीतिमेव चकार ह ॥६८॥
एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा॥
महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ॥६९॥
एवमन्योन्यसंसर्गादनुरागमहीरुहम्॥
वर्द्धयामासतुः कालीशिवौ भावांबुसेचनैः ॥७०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP