सतीखण्डः - अध्यायः १७
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
ब्रह्मोवाच॥
इत्युक्त्वा सर्वदेवैश्च कृता शंभोर्नुतिः परा॥
शिवाच्च सा वरं प्राप्ता शृणु ह्यादरतो मुने ॥१॥
अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता॥
आश्विने मासि सर्वेशं पूजयामास भक्तितः ॥२॥
इति नंदाव्रते पूर्णे नवम्यां दिनभागतः॥
तस्यास्तु ध्यानमग्नायाः प्रत्यक्षमभवद्धरः ॥३॥
सर्वाङ्गसुन्दरो गौरः पंचवक्त्रस्त्रिलोचनः॥
चंद्रभालः प्रसन्नात्मा शितिकंठश्चतुर्भुज ॥४॥
त्रिशूलब्रह्मकवराभयधृग्भस्मभास्वरः॥
स्वर्धुन्या विलसच्छीर्षस्सकलाङ्गमनोहरः ॥५॥
महालावण्यधामा च कोटिचन्द्रसमाननः॥
कोटिस्मरसमाकांतिस्सर्वथा स्त्रीप्रियाकृतिः ॥६॥
प्रत्यक्षतो हरं वीक्ष्य सती सेदृविधं प्रभुम्॥
ववन्दे चरणौ तस्य सुलज्जावनतानना ॥७॥
अथ प्राह महादेवस्सतीं सद्व्रतधारिणीम्॥
तामिच्छन्नपि भार्यार्थं तपश्चर्याफलप्रदः ॥८॥
महादेव उवाच॥
दक्षनंदिनि प्रीतोस्मि व्रतेनानेन सुव्रते॥
वरं वरय संदास्ये यत्तवाभिमतं भवेत् ॥९॥
ब्रह्मोवाच॥
जानन्नपीह तद्भावं महादेवो जगत्पतिः॥
जगौ वरं वृणीष्वेति तद्वाक्यश्रवणेच्छया ॥१०॥
सापि त्रपावशा युक्ता वक्तुं नो हृदि यत्स्थितम्॥
शशाक सा त्वभीष्टं यत्तल्लज्जाच्छादितं पुनः ॥११॥
प्रेममग्नाऽभवत्साति श्रुत्वा शिववचः प्रियम्॥
तज्ज्ञात्वा सुप्रसन्नोभूच्छंकरो भक्तवत्सलः ॥१२॥
वरं ब्रूहि वरं ब्रूहि प्राहेति स पुनर्द्रुतम्॥
सतीभक्तिवशश्शंभुरंतर्यामी सतां गतिः ॥१३॥
अथ त्रपां स्वां संधाय यदा प्राह हरं सती॥
यथेष्टं देहि वरद वरमित्यनिवारकम् ॥१४॥
तदा वाक्यस्यावसानमनवेक्ष्य वृषध्वजः॥
भव त्वं मम भार्येति प्राह तां भक्तवत्सलः ॥१५॥
एतच्छ्रुत्वा वचस्तस्य साभीष्टफल भावनम्॥
तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् ॥१६॥
सकामस्य हरस्याग्रे स्थिता सा चारुहासिनी॥
अकरोन्निजभावांश्च हावान्कामविवर्द्धनान् ॥१७॥
ततो भावान्समादाय शृंगाराख्यो रसस्तदा॥
तयोश्चित्ते विवेशाशु कला हावा यथोदितम् ॥१८॥
तत्प्रवेशात्तु देवर्षे लोकलीलानुसारिणोः॥
काप्यभिख्या तयोरासीच्चित्रा चन्द्रमसोर्यथा ॥१९॥
रेजे सती हरं प्राप्य स्निग्धभिन्नांजनप्रभा॥
चन्द्राभ्याशेऽभ्रलेखेव स्फटिकोज्ज्वलवर्ष्मणः ॥२०॥
अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः॥
सुप्रसन्ना करौ बद्ध्वा नतका भक्तवत्सलम् ॥२१॥
सत्युवाच॥
देवदेव महादेव विवाह विधिना प्रभौ॥
पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥२२॥
॥ब्रह्मोवाच॥
एवं सतीवचः श्रुत्वा महेशो भक्तवत्सलः॥
तथास्त्विति वचः प्राह निरीक्ष्य प्रेमतश्च ताम् ॥२३॥
दाक्षायण्यपि तं नत्वा शंभुं विज्ञाप्य भक्तितः॥
प्राप्ताज्ञा मातुरभ्याशमगान्मोहमुदान्विता ॥२४॥
हरोपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम्॥
दाक्षायणीवियोगाद्वै कृच्छ्रध्यानपरोऽभवत् ॥२५॥
समाधाय मनः शंभुर्लौकिकीं गतिमाश्रितः॥
चिंतयामास देवर्षे मनसा मां वृषध्वजः ॥२६॥
ततस्संचिंत्यमानोहं महेशेन त्रिशूल्रिना॥
पुरस्तात्प्राविशं तूर्णं हरसिद्धिप्रचोदितः ॥२७॥
यत्रासौ हिमवत्प्रस्थे तद्वियोगी हरः स्थितः॥
सरस्वतीयुतस्तात तत्रैव समुपस्थितः ॥२८॥
सरस्वतीयुतं मां च देवर्षे वीक्ष्य स प्रभुः॥
उत्सुकः प्रेमबद्धश्च सत्या शंभुरुवाच ह ॥२९॥
शंभुरुवाच॥
अहं ब्रह्मन्स्वार्थपरः परिग्रहकृतौ च यत्॥
तदा स्वत्वमिवस्वार्थे प्रतिभाति ममाधुना ॥३०॥
अहमाराधितस्सत्याद्दाक्षायण्याथ भक्तितः॥
तस्यै वरो मया दत्तो नंदाव्रतप्रभावतः ॥३१॥
भर्ता भवेति च तया मत्तो ब्रह्मन् वरो वृतः॥
मम भार्या भवेत्युक्तं मया तुष्टेन सर्वथा ॥३२॥
अथावदत्तदा मां सा सती दाक्षायणी त्विति॥
पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥३३॥
तदप्यंगीकृतं ब्रह्मन्मया तद्भक्ति तुष्टितः॥
सा गता भवनं मातुरहमत्रागतो विधे ॥३४॥
तस्मात्त्वं गच्छ भवनं दक्षस्य मम शासनात्॥
तां दक्षोपि यथा कन्यां दद्यान्मेऽरं तथा वद ॥३५॥
सतीवियोगभंगस्स्याद्यथा मे त्वं तथा कुरु॥
समाश्वासय तं दक्षं सर्वविद्याविशारदः ॥३६॥
॥ब्रह्मोवाच॥
इत्युदीर्य महादेवस्सकाशे मे प्रजापतेः॥
सरस्वतीं विलोक्याशु वियोगवशगोभवत् ॥३७॥
तेनाहमपि चाज्ञप्तः कृतकृत्यो मुदान्वितः॥
प्रावोचं चेति जगतां नाथं तं भक्तवत्सलम् ॥३८॥
॥ब्रह्मोवाच॥
यदात्थ भगवञ्शम्भो तद्विचार्य सुनिश्चितम्॥
देवानां मुख्यस्स्वार्थो हि ममापि वृषभध्वज ॥३९॥
दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति॥
अहं चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ॥४०॥
ब्रह्मोवाच॥
इत्युदीर्य्य महादेवमहं सर्वेश्वरं प्रभुम्॥
अगमं दक्षनिलयं स्यंदनेनातिवेगिना ॥४१॥
॥नारद उवाच॥
विधे प्राज्ञ महाभाग वद नो वदतां वर॥
सत्यै गृहागतायै स दक्षः किमकरोत्ततः ॥४२॥
ब्रह्मोवाच॥
तपस्तप्त्वा वरं प्राप्य मनोभिलषितं सती॥
गृहं गत्वा पितुर्मातुः प्रणाममकरोत्तदा ॥४३॥
मात्रे पित्रेऽथ तत्सर्वं समाचख्यौ महेश्वरात्॥
वरप्राप्तिः स्वसख्या वै सत्यास्तुष्टस्तु भक्तितः ॥४४॥
माता पिता च वृत्तांतं सर्वं श्रुत्वा सखीमुखात्॥
आनन्दं परमं लेभे चक्रे च परमोत्सवम् ॥४५॥
द्रव्यं ददौ द्विजातिभ्यो यथाभीष्टमुदारधीः॥
अन्येभ्यश्चांधदीनेभ्यो वीरिणी च महामनाः ॥४६॥
वीरिणी तां समालिंग्य स्वसुतां प्रीतिवर्द्धिनीम्॥
मूर्ध्न्युपाघ्राय मुदिता प्रशशंस मुहुर्मुहुः ॥४७॥
अथ दक्षः कियत्काले व्यतीते धर्मवित्तमः॥
चिंतयामास देयेयं स्वसुता शम्भवे कथम् ॥४८॥
आगतोपि महादेवः प्रसन्नस्स जगाम ह॥
पुनरेव कथं सोपि सुतार्थेऽत्रागमिष्यति ॥४९॥
प्रास्थाप्योथ मया कश्चिच्छंभोर्निकटमंजसा॥
नैतद्योग्यं निगृह्णीयाद्यद्येवं विफलार्दना ॥५०॥
अथवा पूजयिष्यामि तमेव वृषभध्वजम्॥
मदीयतनया भक्त्या स्वयमेव यथा भवेत् ॥५१॥
तथैव पूजितस्सोपि वांछत्यार्यप्रयत्नतः॥
शंभुर्भवतु मद्भर्त्तेत्येवं दत्तवरेणतत् ॥५२॥
इति चिंतयतस्तस्य दक्षस्य पुरतोऽन्वहम्॥
उपस्थितोहं सहसा सरस्वत्यन्वितस्तदा ॥५३॥
मां दृष्ट्वा पितरं दक्षः प्रणम्यावनतः स्थितः॥
आसनं च ददौ मह्यं स्वभवाय यथोचितम् ॥५४॥
ततो मां सर्वलोकेशं तत्रागमन कारणम्॥
दक्षः पप्रच्छ स क्षिप्रं चिंताविष्टोपि हर्षितः ॥५५॥
दक्ष उवाच॥
तवात्रागमने हेतुः कः प्रवेशे स सृष्टिकृत्॥
ममोपरि सुप्रसादं कृत्वाचक्ष्व जगद्गुरो ॥५६॥
पुत्रस्नेहात्कार्यवशादथ वा लोककारक॥
ममाश्रमं समायातो हृष्टस्य तव दर्शनात् ॥५७॥
ब्रह्मोवाच॥
इति पृष्टस्स्वपुत्रेण दक्षेण मुनिसत्तम॥
विहसन्नब्रुवं वाक्यं मोदयंस्तं प्रजापतिम् ॥५८॥
ब्रह्मोवाच॥
शृणु दक्ष यदर्थं त्वत्समीपमहमागतः॥
त्वत्तोकस्य हितं मेपि भवतोपि तदीप्सितम् ॥५९॥
तव पुत्री समाराध्य महादेवं जगत्पतिम्॥
यो वरः प्रार्थितस्तस्य समयोयमुपागतः ॥६०॥
शंभुना तव पुत्र्यर्थं त्वत्सकाशमहं धुवम्॥
प्रस्थापितोस्मि यत्कृत्यं श्रेय स्तदवधारय ॥६१॥
वरं दत्त्वा गतो रुद्रस्तावत्प्रभृति शंकरः॥
त्वत्सुताया वियोगेन न शर्म लभतेंजसा ॥६२॥
अलब्धच्छिद्रमदनो जिगाय गिरिशं न यम्॥
सर्वैः पुष्पमयैर्बाणैर्यत्नं कृत्वापि भूरिशः ॥६३॥
स कामबाणविद्धोपि परित्यज्यात्म चिंतनम्॥
सतीं विचिंतयन्नास्ते व्याकुलः प्राकृतो यथा ॥६४॥
विस्मृत्य प्रश्रुतां वाणीं गणाग्रे विप्रयोगतः॥
क्व सतीत्येवमभितो भाषते निकृतावपि ॥६५॥
मया यद्वांछितं पूर्वं त्वया च मदनेन च॥
मरीच्याद्यैमुनिवरैस्तत्सिद्धमधुना सुत ॥६६॥
त्वत्पुत्र्याराधितश्शंभुस्सोपि तस्या विचिंतनात्॥
अनुशोधयितुं प्रेप्सुर्वर्त्तते हिमवद्गिरौ ॥६७॥
यथा नानाविधैर्भावैस्सत्त्वात्तेन व्रतेन च॥
शंभुराराधितस्तेन तथैवाराध्यते सती ॥६८॥
तस्मात्तु दक्षतनयां शंभ्वर्थं परिकल्पिताम्॥
तस्मै देह्यविलंबेन कृता ते कृतकृत्यता ॥६९॥
अहं तमानयिष्यामि नारदेन त्वदालयम्॥
तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम् ॥७०॥
ब्रह्मोवाच॥
श्रुत्वा मम वचश्चेति स मे पुत्रोतिहर्षितः॥
एवमेवेतिमां दक्ष उवाच परिहर्षितः ॥७१॥
ततस्सोहं मुने तत्रागममत्यंतहर्षितः॥
उत्सुको लोकनिरतो गिरिशो यत्र संस्थितः ॥७२॥
गते नारद दक्षोपि सदार तनयो ह्यपि॥
अभवत्पूर्णकामस्तु पीयूषैरिव पूरितः ॥७३॥
इति श्रीशैवे महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवरलाभो नाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : October 06, 2020

TOP